श्रीसीतारामपञ्चकम्
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ सीतारामाय विद्महे । लक्ष्मीवराय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥
रामो ब्रह्मस्वयंजातो भावनावो भवापहः ।
नामतारकसत्सारो रामो रक्षतु मां सदा ॥ १॥
ओंकारधामसन्नाम ओंकारनादविग्रहः ।
ओंकारपञ्जरागुप्त ओंकारस्वरपूजितः ॥ २॥
श्रीत्यागब्रह्महृद्वासस्तत्प्रत्यक्षसुधावचः ।
गुरुस्वामिसुसङ्गीतपूर्णवाससनातनः ॥ ३ ॥
श्रीत्यागब्रह्मगेयाय श्रीसीताराममूर्तये ।
श्रीमानसाब्धिसोमाय श्रीराघवाय ते नमः ॥ ४॥
निर्गुणब्रह्मरूपाय नरोत्तमावतारिणे ।
गुणास्पदाय गुण्याय रघुश्रेष्ठाय ते नमः ॥ ५ ॥
मङ्गलं रामभद्राय पुष्पार्चितपदाय च ।
श्रीत्यागब्रह्मनिष्ठाय सीतारामाय मङ्गलम् ॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीसीतारामपञ्चकं गुरौ समर्पितं ।
ॐ शुभमस्तु ।
Copyright Pushpa Srivatsan