सीतारामविंशति अथवा नमःशतकम्
सीतां श्रियः श्रियं रामं ब्रह्म नत्त्वा गुरुं तथा ।
श्रीसीतारामयोः कुर्वे विंशतिं सुखदायिनीम् ॥
वेदैर्वेद्यौ च वन्द्यौ च सीतारामौ परेश्वरौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १॥
दिव्यवैभवसम्पन्नौ सीतारामौ परात्परौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ २॥
क्लेशहीनो जगद्धेतू सीतारामौ कलेश्वरौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ३॥
दिव्यदेहावदोषौ च सीतारामौ गुणाम्बुधी ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ४॥
अगतीनां गती रम्यौ सीतारामौ महेश्वरौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ५॥
सुबन्धू बन्धुहीनानां सीतारामौ दयोदधी ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ६॥
सर्वाधारौ निराधारौ सीतारामौ महाबलौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ७॥
सकृत्पादप्रपत्यैव सीतारामावभीतिदौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ८॥
अशरण्यशरण्यौ च सीतारामौ कृपार्णवौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ९॥
योगिनां च महाध्येयौ सीतारामौ सुमुक्तिदौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १०॥
विभूत्योश्च द्वयोरीशौ सीतारामौ महौजसौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ११॥
विभूतिद्वयधर्त्तारौ सीतारामौ हि स्वांशतः ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १२॥
कृतज्ञौ चाकृतघ्नौ हि सीतारामौ विवेकिनौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १३॥
आप्तकामौ परात्मानौ सीतारामौ सुशक्तिदौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १४॥
श्रीसम्प्रदायमूलौ च सीतारामौ जगद्गुरू ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १५॥
श्रितानां दुःखहर्त्तारौ सीतारामौ सुखप्रदौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १६॥
श्रिताघं नैव वीक्षेते सीतारामौ सुवत्सलौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १७॥
परस्परमभिन्नौ च सीतारामौ रसात्मकौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १८॥
सच्चिदानन्दरूपौ च सीतारामौ सुसुन्दरौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १९॥
सर्वदौ सकलाराध्यौ सीतारामौ च सर्वगौ ।
नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ २०॥
श्रीश्रियानन्दशिष्येण हर्यानन्देन निर्मिता ।
पाठात् कल्याणकृद् भूयाच्छ्रीसीतारामविंशतिः ॥
इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य
सिद्धशिरोमणि निर्मिता श्रीसीतारामविंशति (नमःशतकम्) सम्पूर्णम् ।
(स्वशताब्दी में जगद्गुरु श्रीहर्यानन्दाचार्य द्वारा पठित स्तोत्रप्रबन्ध)
Proofread by Parashara Ranganathan