श्रीराम मानसी बहिः च पूजा विधिविधानम्
श्रीराममानसी पूजा विधिविधानम्
सुतीक्ष्णस्त्वेकदाऽगस्त्यं दृष्ट्वा रहसि संस्थितम् ।
प्रणम्य परया भक्त्या प्रोवाच विनयान्वितः ॥ ५४॥
सुतीक्ष्ण उवाच ।
हृदये मानसी पूजा कीदृशी च वद प्रभो ।
उपचारैः कतिविधैः पूज्यते रघुनन्दनः । ५५॥
अगस्त्य उवाच ।
रामं पद्मविशालाक्षं कालाम्बुदसमप्रभम् ।
स्मितवक्त्रं सुखासीनं चिन्तयेच्चित्तपुष्करे ॥ ५६॥
रागादिकलुषं चित्तं वैराग्येण सुनिर्मलम् ।
कृत्वा ध्यायेत्सदा रामं भवबन्धविमुक्तये ॥ ५७॥
प्रातः शुद्धवपुर्भूत्वा शौचादिभिरतद्रितः ।
विविक्तदेशमाश्रित्य ध्यानपूजा समारभेत् ॥ ५८॥
नाभिकुन्दसमुद्भूतं कदलीकुसुमोपमम् ।
अष्टपत्रं स्निग्धवर्णं ध्यायेद्धृदयपङ्कजम् ॥ ५९॥
तत्पद्मं रामनाम्नैव फुल्लं कृत्वाऽस्य मध्यमे ।
भावयेत्सूर्यसोमाग्निमण्डलानुत्तरोत्तरम् ॥ ६०॥
तस्योपरि न्यसेद्दिव्यं पीठं रत्नमयोज्ज्वलम् ।
तन्मध्ये राघवं ध्यायेत्सूर्यकोटिसमप्रभम् ॥ ६१॥
इन्दीवरनिभं शान्तं विशालाक्षं सुवक्षसम् ।
उद्यद्दीधितमद्भास्वत्कुण्डलाभ्यां विराजितम् ॥ ६२॥
सुनासं सुकिरीटं च सुकपोलं शुचिस्मितम् ।
विज्ञानमुद्रं द्विभुजं कम्बुग्रीवं सुकुन्तलम् ॥ ६३॥
नानारत्नमयैर्दिव्यहारैर्भूषितमव्ययम् ।
विद्युत्पुञ्जप्रतीकाशं वस्त्रयुग्मधरं हरिम् ॥ ६४
वीरासनस्थं सन्तानतरुमूलनिवासिनम् ।
महासुगन्धलिप्ताङ्गं वनमालाविराजितम् ॥ ६५॥
वामपार्श्वे स्थितां सीतां चामीकरसमप्रभाम् ।
लीलापद्मधरां देवीं चारुहासां शुभाननाम् ॥ ६६॥
पश्यन्तीं स्निग्धया दृष्टया दिव्यां कल्पविराजिताम् ।
छत्रचामरहस्तेन लक्ष्मणेन सुसेवितम् ॥ ६७॥
हनुमत्प्रमुखैर्नित्यं वानरैः परिवारितम् ।
स्तूयमानं ऋषिगणैः सेवितं भरतादिभिः ॥ ६८॥
सनन्दनादिभिश्चान्यैर्योगिवृन्दैः स्तुतं सदा ।
सर्वशास्त्रार्थकुशलं योगज्ञं योगसिद्धिदम् ॥ ६९॥
एवं ध्यात्वा रामचन्द्रं मणिद्वयसुशोभितम् ।
शुद्धेन मनसा रामं पूजयेत्सततं हृदि ॥ ७०॥
इति ध्यानम् ।
आवाहयामि विश्वेशं जानकीवल्लभं विभुम् ।
कौसल्यातनयं विष्णुं श्रीरामं प्रकृतेः परम् ॥ ७१॥
राजाधिराज राजेन्द्र रामचन्द्र महीपते ।
रत्नसिंहासनं तुभ्यं दास्यामि स्वीकुरु प्रभो ॥ ७२॥
श्रीरामागच्छ भगवन् रघुवीर रघूत्तम ।
जानक्या सह राजेन्द्र सुस्थिरो भव सर्वदा ॥ ७३॥
रामचन्द्र महेष्वास रावणान्तक राघव ।
यावत्पूजा समाप्येऽहं तावत्त्वं सन्निधौ भव ॥ ७४॥
रघुनन्दन राजर्षे राम राजीवलोचन ।
रघुवंशज मे देव श्रीरामाभिमुखो भव ॥ ७६॥
प्रसीद जानकीनाथ सुप्रसिद्ध सुरेश्वर ।
प्रसन्नो भव मे राजन् सर्वेश मधुसूदन ॥ ७६॥
शरणं मे जगन्नाथ शरणं भक्तवत्सल ।
वरदो भव मे राजन् शरणं मे रघूत्तम ॥ ७७॥
त्रैलोक्यपावनानन्त नमस्ते रघुनायक ।
पाद्यं गृहाण राजर्षे नमो राजीवलोचन ॥ ७८॥
परिपूर्ण परानन्द नमो रामाय वेधसे ।
गृहाणार्घ्यं मया दत्तं कृष्ण विष्णो जनार्दन ॥ ७९॥
ॐ नमो वासुदेवाय तत्त्वज्ञानस्वरूपिणे ।
मधुपर्कं गृहाणेमं राजाराजाय ते नमः ॥ ८०॥
नमः सत्याय शुद्धाय बुध्न्याय ज्ञानरूपिणे ।
गृहाणाचमनं देव सर्वलोकैकनायक ॥ ८१॥
ब्रह्माण्डोदरमध्यस्थैस्तीर्थैश्च रघुनन्दन ।
स्नापयिष्याम्यहं भक्त्या त्वं गृहाण जनार्दन ॥ ८२॥
सन्तप्तकाञ्चनप्रख्यं पीताम्बरमिमं हरे ।
सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते ॥ ८३॥
श्रीरामाच्युत यज्ञेश श्रीधरानन्द राघव ।
ब्रह्मसूत्रं सोत्तरीयं गृहाण रघुनायक ॥ ८४॥
किरीटहारकेयूररत्नकुण्डलमेखलाः ।
ग्रैवेयकौस्तुभं हारं रत्नकङ्कणनूपुरान् ॥ ८५॥
एवमादीनि सर्वाणि भूषणानि रघूत्तम ।
अहं दास्यामि ते भक्त्या सङ्गृहाण जनार्दन ॥ ८६॥
कुङ्कुमागरुकस्तूरीकर्पूरोन्मिश्रचन्दनम् ।
तुभ्यं दास्यामि विश्वेश श्रीराम स्वीकुरु प्रभो ॥ ८७॥
तुलसीकुन्दमन्दारजातिपुन्नागचम्पकैः ।
कदम्बकरवीरैश्च कुसुमैः शतपत्रकैः ॥ ८८॥
नीलाम्बुजैर्विल्वदलैः पुष्पमाल्यैश्च राघव ।
पूजयिष्याम्यहं भक्त्या सङ्गृहाण नमोऽस्तु ते ॥ ८९॥
वनस्पतिरसैर्दिव्यगन्धाढ्यैः सुमनोहरैः ।
रामचन्द्र महीपाल धूपोऽयं प्रतिगृह्यताम् ॥ ९०।
ज्योतिषां पतये तुभ्यं नमो रामाय वेधसे ।
गृहाण दीपकं राजंस्त्रैलोक्यतिमिरापहम् ॥ ९१॥
इदं दिव्यान्नममृतं रसैः षड्भिर्विराजितम् ।
श्रीराम राजराजेन्द्र नैवेद्यं प्रतिगृह्यताम् ॥ १२॥
नागवल्लीदलैर्युक्तं पूगीफलसमन्वितम् ।
ताम्बूलं गृह्यतां राम कर्पूरादिसमन्वितम् ॥ ९३॥
मङ्गलार्थं महीपाल नीराजनमिदं हरे ।
सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते ॥ ९४॥
अथ नमस्काराष्टकमन्त्राः
ॐ नमो भगवते श्रीरामाय परमात्मने ।
सर्वभूतान्तरस्थाय ससीताय नमो नमः ॥ ९५॥
ॐ नमो भगवते श्रीराम रामचन्द्राय वेधसे ।
सर्ववेदान्तवेद्याय ससीताय नमो नमः ॥ ९६॥
ॐ नमो भगवते श्रीविष्णवे परमात्मने ।
परात्पराय रामाय ससीताय नमो नमः ॥ ९७॥
ॐ नमो भगवते श्रीरघुनाथाय शार्ङ्गिणे ।
चिन्मयानन्दरूपाय ससीताय नमो नमः ॥ ९८॥
ॐ नमो भगवते श्रीराम श्रीकृष्णाय चक्रिणे ।
विशुद्धज्ञानदेहाय ससीताय नमो नमः ॥ ९९॥
ॐ नमो भगवते श्रीवासुदेवाय विष्णवे ।
पूर्णानन्दैकरूपाय ससीताय नमो नमः ॥ १००॥
ॐ नमो भगवते श्रीराम रामभद्राय वेधसे ।
सर्वलोकशरण्याय ससीताय नमो नमः ॥ १०१॥
ॐ नमो भगवते श्रीरामायामिततेजसे ।
ब्रह्मानन्दैकरूपाय ससीताय नमो नमः ॥ १०२॥
इति नमस्काराष्टकमन्त्राः ।
श्रीरामबहिःपूजाविधिविधानम्
नृत्यगीतादिवाद्यादिपुराणपठनादिभिः ।
राजोपचारैरखिलैः सन्तुष्टो भव राघव ॥ १०३॥
विशुद्धज्ञानदेहाय रघुनाथाय विष्णवे ।
अन्तःकरणसंशुद्धिं देहि मे रघुनन्दन ॥ १०४॥
नमो नारायणानन्त श्रीराम करुणानिधे ।
मामुद्धर जगन्नाथ घोरात्संसारसागरात् ॥ १०५॥
रामचन्द्र महेष्वास शरणागततत्पर ।
पाहि मां सर्वलोकेश तापत्रयमहानलात् ॥ १०६॥
श्रीकृष्ण श्रीकर श्रीश श्रीराम श्रीनिधे हरे ।
श्रीनाथ श्रीमहाविष्णो श्रीनृसिंह कृपानिधे ॥ १०७॥
गर्भजन्मजराव्याधिघोरसंसारसागरात् ।
मामुद्धर जगन्नाथ कृष्ण विष्णो जनार्दन ॥ १०८॥
श्रीराम गोविन्द मुकुन्द कृष्ण श्रीनाथ विष्णो भगवन्नमस्ते ।
प्रौढारिषड्वर्गमहाभयेभ्यो मां त्राहि नारायण विश्वमूर्ते ॥ १०९॥
श्रीरामाच्युत यज्ञेश श्रीधरानन्द राघव ।
श्रीगोविन्द हरे विष्णो नमस्ते जानकीपते ॥ ११०॥
ब्रह्मानन्दैकविज्ञानं त्वन्नामस्मरणं नृणाम् ।
त्वत्पदाम्बुजसद्भक्तिं देहि मे रघुवल्लभ ॥ १११।
नमोऽस्तु नारायण विश्वमूर्ते नमोऽस्तु ते शाश्वत विश्वयोने ।
त्वमेव विश्वं सचराचरं च त्वामेव सर्वं प्रवदन्ति सन्तः ॥ ११२॥
नमोऽस्तु ते कारणकारणाय नमोऽस्तु कैवल्यफलप्रदाय ।
नमो नमस्तेऽस्तु जगन्मयाय वेदान्तवेद्याय नमो नमस्ते ॥ ११३॥
नमो नमस्ते भरताग्रजाय नमोऽस्तु यज्ञप्रतिपालनाय ।
अनन्त यज्ञेश हरे मुकुन्द गोविन्द विष्णो भगवन्मुरारे ॥ ११४॥
श्रीवल्लभानन्त जगन्निवास श्रीराम राजेन्द्र नमो नमस्ते ।
श्रीजानकीकान्त विशालनेत्र राजाधिराज त्वयि मेऽस्तु भक्तिः ॥ ११५॥
तप्तजाम्बूनदेनैव निर्मितं रत्नभूषितम् ।
स्वर्णपुष्पं रघुश्रेष्ठ दास्यामि स्वीकुरु प्रभो ॥ ११६॥
हृत्पद्मकर्णिकामध्ये सीतया सह राघव ।
निवस त्वं रघुश्रेष्ठ सर्वैरावरणैः सह ॥ ११७॥
मनोवाक्कायजनितं कर्म यद्वा शुभाशुभम् ।
तत्सर्वं प्रीतये भूयान्नमो रामाय शार्ङ्गिणे ॥ ११८॥
अपराधसहस्राणि क्रियतेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व रघुपुङ्गव ॥ ११९॥
नमस्ते जानकीनाथ रामचन्द्र महीपते ।
पूर्णानन्दैकरूप त्वं गृहाणार्घ्यं नमोऽस्तु ते ॥ १२०॥
एवं यः कुरुते पूजा बहिर्वा हृदयेऽपि च ।
सकृत्पूजनमात्रेण राम एव भवेन्नरः ॥ १२१॥
किं पुनः सततं ब्रह्मण्येवं पूज्य स्थितो हि सः ।
सर्वान्कामानवाप्नोति चेह लोके परत्र च । १२२॥
एवं सुतीक्ष्ण ते प्रोक्तं यथा पृष्टं त्वया मम ।
हृदये मानसीपूजाविधानं राघवस्य च ॥ १२३॥
श्रीरामदास उवाच ।
एवं शिष्य सुतीक्ष्णाय मुनयेऽगस्तिना पुरा ।
यत्प्रोक्तं तन्मया सर्वं तव प्रोक्तं सविस्तरात् ॥ १२४॥
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे
वाल्मीकीये मनोहरकाण्डे तृतीयसर्गान्तर्गतं
श्रीराममानसीपूजाविधिविधानं समाप्तम् ।
अथ बहिःपूजाविधिविधानम् ।
शिष्याधुना बहिःपूजाविधानं च मयोच्यते ।
नरः प्रातः समुत्थाय कृत्वा शौचादिकाः क्रियाः १२५॥
स्नात्वा सन्ध्यादिकं कृत्वा देवपूजां सभारभेत् ।
तीर्थे देवालये वाऽपि गोष्ठे पुण्यस्थलेषु च ॥ १२६॥
नद्यास्तटे देवगेहे तुलसीसन्निधौ तथा ।
लिप्त्वा भूमिं गोमयेन ततो पद्मानि लेखयेत् ॥ १२७॥
सितरक्तहरित्पीतनीलकृष्णादिसम्भवः ।
नानावर्णश्चित्रितानि तत्र पूजा समारभेत् ॥ १२८॥
अष्टोत्तरसहस्रश्रीरामलिङ्गात्मकासनम् ।
वाष्टोत्तरशतं श्रीमद्रामलिङ्गात्मकासनम् ॥ १२९॥
अष्टोत्तरसहस्रश्रीरामभद्रासनं हि वा ।
वाष्टोत्तरशतं श्रीमद्रामभद्रासनं शुभम् ॥ १३०॥
बहून्यन्यानि शतशः सन्ति लघ्वासनानि हि ।
तेषां मध्यादेकमेवासनं संस्थाप्य चित्रितम् ॥ १३१॥
पीठोपरि कृतं वस्त्रं पत्रादिष्वपि वा कृतम् ।
आसनोपरि जानक्या राघवादीन्निवेशयेत् ॥ १३२॥
आसने सर्वतोभद्रमध्ये पद्मोपरि न्यसेत् ।
सीतया राघवं रम्यं वरसिंहासने स्थितम् ॥ १३३॥
रामस्य पृष्ठभागे च लक्ष्मणं स्थापयेत्ततः ।
रामस्य दक्षिणे पार्श्वे भरतं विन्यसेच्छुभम् ॥ १३४॥
रामस्य वामपार्श्वे हि शत्रुघ्नं विन्यसेच्छुभम् ।
पुरतो रामचन्द्रस्य वायुपुत्रं तु विन्यसेत् ॥ १३५॥
रामस्य वायुदिग्भागे सुग्रीवं स्थापयेत्ततः ।
ईशान्यां रामचन्द्रस्य विन्यस्य च विभीषणम् ॥ १३६॥
रामस्य वह्निदिग्भागे विन्यसेदङ्गदं ततः ।
नैरृत्यां रामचन्द्रस्य जाम्बवन्तं तु विन्यसेत् ॥ १३७॥
पूज्यपूजकयोर्मध्ये प्राग्दिग्ज्ञेयाऽर्चने त्विह ।
सर्वशास्त्रेष्वेवमेव निर्णयः कथ्यते बुधैः ॥ १३८॥
लक्ष्मणस्य करे देयं छत्रं मुक्ताविराजितम् ।
भरतस्य करे देयं चामरं रुक्ममण्डितम् ॥ १३९॥
शत्रुघ्नस्य करे देयं व्यजनं चित्रितं शुभम् ।
हनूमतः करे देयं रामस्य पादुकाद्वयम् ॥ १४०॥
सुग्रीवस्य करे देयं जलपात्रं मनोहरम् ।
करे विभीषणस्यापि देयं मुकुरमुत्तमम् ॥ १४१॥
देयं ताम्बूलपात्रं च वालिनन्दनसत्करे ।
जाम्बवतः करे देयो वनकोशो महत्तमः ॥ १४२॥
नवायतनमेवं हि स्थापयेद्राघवस्य च ।
अथवा पञ्चायतनं स्थापयेदासनोपरि ॥ १४३॥
सीताया रामचन्द्रस्य मध्ये पृष्ठे तु लक्ष्मणम् ।
भरतं सव्यपार्श्वे च शत्रुघ्नं वामपार्श्वके ॥ १४४॥
पुरतो वायुपुत्रं च पूर्वोक्तैरुपचारकैः ।
एवं संस्थापयेद्भक्त्या रामं भद्रासनोपरि ॥ १४५॥
अथवा सीतया रामं मध्ये स्थाप्य ततः परम् ।
रामस्य पृष्ठे सौमित्रिं रामाग्रे वायुनन्दनम् ॥ १४६॥
स्थाप्यैवं पूजयेद्भक्त्या रामं धृतशरासनम् ।
अथवा सीतया रामं लक्ष्मणं परिपूजयेत् ॥ १४७॥
सीतानुजौ विना पूजा रामस्यैकस्य नाचरेत् ।
कृता चेद्विघ्नकर्त्री सा भवेदत्र न संशयः ॥ १४८॥
नवायतनपूजा सा श्रेष्ठा ज्ञेया शुभप्रदा ।
या पञ्चायतनी पूजा ज्ञेया सा मध्यमाऽत्र हि ॥ १४९॥
त्रिदैवत्या तु या पूजा कनिष्ठा सा निगद्यते ।
अतिकनिष्ठा पूजा सा द्विदैवत्या स्मृता हि सा ॥ १५०॥
कोदण्डं वामहस्ते च तूणीरं वामपार्श्वके ।
निजनामाङ्कितं बाणं दधानं दक्षिणे करे ॥ १५१॥
एवं श्रीराघवं स्थाप्य ततः पूजां समारभेत् ।
आत्मनो वामभागे च जलकुम्भं निधाय हि ॥ १५२॥
आत्मनो दक्षिणे भागे पूजापात्रं निवेशयेत् ।
आत्मनः पुरतः पात्रं स्थापयेद्विस्तृतं वरम् ॥ १५३॥
प्राङमुखः सुखमासीनो धृतपद्मासनः शुचिः ।
मौनी धृताक्षतुलसीमालो निश्चलमानसः ॥ १५४॥
बद्धग्रन्थिशिखः शुद्धवस्त्रो धृतपवित्रकः ।
शुद्धद्वारावतीमृत्कृत्तिलको मुद्रिकाङ्कितः ॥ १५६॥
नत्वाऽऽदौ गणराजं च तिथिवारादि कीर्तयेत् ।
भूमिशुद्धिं भूतशुद्धिं न्यासौ कृत्वा यथाक्रमम् ।
प्रोक्षणीपात्रमेकं तु जलपूर्णं प्रकारयेत् ॥ १५६॥
दूर्वागन्धाक्षतपुष्पैस्तत्पात्रं परिपूरयेत् ।
प्रोक्षयेत्तेन नीरेण पूजाद्रव्यं सहात्मना ॥ १५७॥
पाद्यार्घ्याचमनार्थं तु त्रीणि पात्राणि विन्यसेत् ।
गणराजं पूजयित्वा सम्पूज्य वरुणं ततः ॥ १५८॥
पाञ्चजन्यं पूजयित्वा प्रोक्षयेतज्जलैरपि ।
पूजाद्रव्यं पूर्ववच्च स्वात्मानं च भुवं तथा ॥ १५९॥
धेनुशङ्खचक्रपक्षिराजमुद्राः प्रदर्शयेत् ।
शैली दारुमयी लौही लेप्या लेख्या च सैकती ॥ १६०॥
मनोमयी मणिमयी प्रतिमाऽष्टविधा स्मृता ।
अथ ध्यायेद्रामचन्द्रं ससीतं पुरतः स्थितम् ॥ १६१॥
द्विभुजं धृततूणीरं चापबाणधृतायुधम् ।
दिव्यालङ्कारसंयुक्तं पीतकौशेयवाससम् ॥ १६२॥
सलक्ष्मणं सशत्रुघ्नं भरतेन समन्वितम् ।
हनुमत्सेवितपदं सिंहासनविराजितम् ॥ १६३॥
सितछत्रसमायुक्तं दिव्यचामरवीजितम् ।
विभीषणसमायुक्तं सुग्रीवपरिवन्दितम् ॥ १६४॥
जाम्बवता समायुक्तमङ्गदेन परिष्टुतम् ।
अयोध्यावासिनं राममेवं हृदि विचिन्तयेत् ॥ १६५॥
सीताराम समागच्छ मदग्रे त्वं स्थिरो भव ।
गृहाण पूजां मद्दत्तां कृतमावाहनं तव ॥ १६६॥
हिरण्मयं रत्नयुक्तं नानाचित्रविचित्रितम् ।
सिंहासनं सवस्त्रं च ह्यासनार्थं ददामि ते ॥ १६७॥
चन्दनागुरुसंयुक्तैर्जलैस्तीर्थसमुद्भवैः ।
पाद्यं गृहाण श्रीराम मया दत्तं प्रसीद मे ॥ १६८॥
पुष्करादिषु तीर्थेषु गङ्गादिषु सरित्सु च ।
यत्तोयं तन्मयाऽऽनीतं दत्तमर्घ्यं गृहाण भोः । १६९।
सुगन्धवासितं तोयं बहुतीर्थसमुद्भवम् ।
आचमनार्थमानीतं गृहाण त्वं सुरेश्वर ॥ १७०॥
हरिद्राकुङ्कुमैर्युक्तं सुगन्धद्रव्यमिश्रितम् ।
सुगन्धस्नेहसम्मिश्रमुद्वर्त्तनमथास्तु ते ॥ १७१॥
कामधेनूद्भवं क्षीरं नन्दिन्या दधि सुन्दरम् ।
कपिलाया घृतं श्रेष्ठं मधु विन्ध्याद्रिसम्भवम् ॥ १७२॥
सितोपलसमानाम सितायुक्तं मनोहरम् ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थं त्वं गृहाण भोः ॥ १७३॥
गङ्गा च यमुना चैव गोदावरी सरस्वती ।
नर्मदा सिन्धु कावेरी सरयू गण्डकी तथा ॥ १७४॥
ताम्रपर्णी भीमरथी कृष्णा वेणी महानदी ।
गोमती सागराः सप्त पयोष्णी भवनाशिनी ॥ १७५॥
पूर्णा तापी तुङ्गभद्रा क्षिप्रा वेगवती तथा ।
पिनाकी प्रवरा सिन्धुफेणा सार्द्धत्रयो नदाः । १७६॥
घृतमाला कृतमाला मही निक्षेपिका तथा ।
पयोष्णी प्रेमगङ्गा च चित्रगङ्गा करानदी ॥ १७७॥
नीरा चर्मण्वती वृद्धा बञ्जरा च पुनः पुनः ।
सिन्धुक्षीरा च वैकुण्ठाऽलकनन्दा च वारणा ॥ १७८॥
इत्यादिसर्वतीर्थेषु यत्तोयं वर्तते शुभम् ।
तन्मयाऽऽनीतमद्यात्र स्नानं कुरु रघूत्तम ॥ १७९॥
पुनराचमनं रम्यं सर्वतीर्थसमुद्भवम् ।
गृहाण रघुनाथ त्वं दीयते यन्मया तव ॥ १८०॥
सुवर्णतन्तुभिश्चित्रं पीतकौशेयसम्भवम् ।
वस्त्रयुग्मं प्रदास्यामि गृहाण रघुनायक ॥ १८१॥
शुद्धं हेममयं रम्यं नवतन्तुसमुद्भवम् ।
ब्रह्मग्रन्थिसमायुक्तं ब्रह्मसूत्रं प्रगृह्यताम् ॥ १८२॥
मुकुटं कुण्डले रम्ये मुद्रिकाः कङ्कणे तथा ।
नूपुरे रशनामालाः केयूरे रत्नमण्डिते ॥ १८३॥
इत्यादीन्परमान् दिव्यान्स्वर्णमाणिक्यनिर्मितान् ।
त्वदर्थं च मयाऽऽनीतानलङ्कारान् गृहाण भोः ॥ १८४॥
छत्रं सव्यजनं रम्यं चामरद्वयसंयुतम् ।
त्वदर्थं च मयाऽऽनीतं गृह्णीष्व रिपुसूदन ॥ १८५॥
सुगन्धं चन्दनं दिव्यं कृष्णागुरुविमिश्रतम् ।
रक्तचन्दनसंयुक्तं गृह्णीष्व त्वं मयाऽर्पितम् ॥ १८६॥
अक्षतांश्च वरान् दिव्यान्मुक्ताफलविनिर्मितान् ।
कस्तूर्या कुङ्कुमेनाक्तान् गृहाण परमेश्वर ॥ १८७।
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाऽऽहृतानि पूजार्थं गृहाण रघुनायक ॥ १८८॥
वनस्पतिरसोद्भूतं गन्धाढ्यं गन्धमुत्तमम् ।
आघ्रेयं सर्वदेवानां धूपं गृह्णीष्य राघव ॥ १८९॥
साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण भो राम त्रैलोक्यतिमिरापहम् ॥ १९०॥
भक्ष्यभक्तेन संयुक्तं सपायसघृतान्वितम् ।
शर्करामधुसंयुक्तं नैवेद्यं प्रतिगृह्यताम् ॥ १९१॥
आम्रादीनि सुपक्वानि फलानि विविधानि च ।
समर्पितानि ते राम गृह्णीष्व रघुनन्दन ॥ १९२॥
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
जातीचतुष्टययुतं ताम्बूलं स्वीकुरु प्रभो ॥ १९३॥
हिरण्यं ब्रह्मसम्भूतं वह्नितेजःसमुद्भवम् ।
दीयते दक्षिणार्थं ते गृह्णीष्व रघुनन्दन ॥ १९४॥
एवं मया षोडशकोपचाराः
सविस्तरं ते कथिताः शिशोऽत्र ।
आवाहनाद्याश्च हि दक्षिणान्ताः
शेषां च पूजां सकलां हि वक्ष्ये ॥ १९५॥
पञ्चवर्तिसमायुक्तं कपिलाऽऽज्यविमिश्रितम् ।
वह्निना योजितं रम्यं गृह्णीष्व त्वं निराजनम् ॥ १९६॥
जाती चम्पकमन्दारौ केतकी तुलसी तथा ।
दमनो मुनिकुन्दे च ह्यनन्तं त्विति वै नव ॥ १९७॥
एभिर्नवविधैः पुष्पैर्मन्त्रपुष्पाणि राघव ।
मयाऽर्पितानि गृह्णीष्व प्रसीद परमेश्वर ॥ १९८॥
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणं पदे पदे ॥ १९९॥
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां जानुभ्यां साष्टाङ्गञ्च नमोऽस्तुते ॥ २००॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वर ॥ १०१।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं रघूत्तम ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २०२॥
एवं श्रीरामचन्द्रस्य भक्त्या कार्यं प्रपूजनम् ।
निरन्तरं तथा कार्यं नवम्यां च विशेषतः ॥ २०३॥
विष्णुदास उवाच ।
गुरो नवविधैः पुष्पैस्त्वया पुष्पाञ्जलिः कथम् ।
निवेदितोऽत्र रामस्य पूजने तद्वदस्व माम् ॥ २०४॥
त्वत्तो नानाविधाः पूजाः सुराणां च मया श्रुताः ।
पूर्वं तासु श्रुतो नैव नवपुष्पाञ्जलिः कदा ॥ २०५॥
श्रीरामदास उवाच ।
सम्यक्पृष्टं त्वया शिष्य सावधानमनाः शृणु ।
आसीत्पुरा द्विजवरः कावेर्या उत्तरे तटे ॥ २०६॥
रामनाथपुरे कश्चित्सुन्दराख्योऽतिभक्तिमान् ।
तस्यासन्नव पुत्राश्च रामचिन्तनतपत्पराः ॥ २०७॥
चन्द्रोऽतिचन्द्रश्चन्द्राभश्चन्द्रास्यश्चन्द्रशेखरः ।
चन्द्रांशुर्जितचन्द्रश्च चन्द्रचूडोऽष्टमः स्मृतः ॥ २०८॥
रामचन्द्रश्चेति नव ग्रहा भाश्च नव स्मृताः ।
एकदा ते त्वयोध्यायां रामं भक्तकृपाकरम् ॥ २०९॥
प्रष्टुं ययुश्चैत्रमासे तस्थुस्ते सरयूतटे ।
तावत्तत्र समायाता नानादेशान्तरस्थिताः ॥ २१०॥
जनौघानां कोटयश्च नानावाहनसंस्थिताः ।
सरय्वां रामतीर्थे हि चैत्रस्नानमथादरात् ॥ २११॥
तेषां समागतानां हि सम्मर्दस्तत्र वै ह्यभूत् ।
सम्मर्दाद्रामचन्द्रस्य तेषां नाभूच्च दर्शनम् ॥ २१२॥
तदा ते मन्त्रयामासुर्नव विप्राः परस्परम् ।
कथं श्रीराघवस्यात्र सम्मर्दे दर्शनं भवेत् ॥ २१३॥
चेज्जातं त्वतियत्नेन तर्हि तत्किं न दर्शनम् ।
यावत्स्वस्थेन मनसा राघवो न निरीक्षितः ॥ २१४॥
तावत्तद्दर्शनं नैव तुष्टिं नो जनयिष्यति ।
तदा चन्द्रोऽब्रवीज्ज्येष्ठस्त्वत्रैव रामदर्शनम् ॥ २१५॥
वयं तीव्रेण तपसा प्राप्स्यामस्तप्यतां तपः ।
तच्चन्द्रवचनं श्रुत्वा पुनः प्रोचुर्द्विजोत्तमाः ॥ २१६॥
एककाले तु सर्वेषां तपतामन्तरेण हि ।
कस्यादौ रामचन्द्रश्च दास्यत्यत्र प्रदर्शनम् ॥ २१७॥
कस्य दास्यति पश्चाच्च विदितं तद्भविष्यति ।
कस्यास्मासु दृढा भक्तिर्विदिता सा भविष्यति ॥ २१८॥
एवं परस्परं चोक्त्वा ते सर्वे द्विजसूनवः ।
त्यक्ताहारा वायुभक्षाश्चैकान्ते तत्परेण हि ॥ २१९॥
गत्वातिदूरं सम्मर्दात्तेपुः सर्वे तपो महत् ।
तत्सर्वं राघवो ज्ञात्वा सर्वसाक्षी जगत्प्रभुः ॥ २२०॥
तेषां स्वदर्शनं दातुं नवमे दिवसे मुदा ।
मन्त्रायामास श्रीरामः क्षणं चित्ते समास्थितः । २२१॥
एककाले तु सर्वेषां यदि दास्यामि दर्शनम् ।
तर्ह्येव तुष्टिः सर्वेषां भविष्यति न चेन्न हि ॥ २२२॥
अतोऽद्याहं करिष्यामि नव रूपाणि निश्चयात् ।
एवं सम्मन्त्र्य श्रीरामो लक्ष्मणं प्राह सादरम् ॥ २२३॥
शिबिकामानयस्वाद्य बहिर्गच्छाम्यहं मुदा ।
तथेति रामवाक्येन शिबिकां लक्ष्मणस्तथा ॥ १२४॥
आनयामास दुतैः स राघवाय न्यवेदयत् ।
तदा सिंहासनाद्रामश्चोत्तीर्य शिबिकास्थितः ॥ २२५॥
बन्धुभिमन्त्रिवर्यैश्च सुहृन्मित्रादिभिर्युतः ।
बहिः शनैरयोध्याया ययौ रामो मुदान्वितः ॥ २२६॥
ततस्तं जनसम्मर्दं समतिक्रम्य राघवः ।
चकार नव रूपाणि ह्यात्मनः परमेश्वरः ॥ २२७॥
शिबिकाः सुहृदो भ्रातृन्दूतान्मित्रान्सवाहनान् ।
चकार नवधा रामस्तदा स क्षणमात्रतः ॥ २२८॥
निरीक्षितुं समायाता नात्मानं तान् जनानपि ।
चकार नवधा रामस्तदद्भुतमिवाभवत् ॥ २२९॥
ततस्तैस्तैर्जनैमित्रैर्दूतैर्बन्धुजनैः सह ।
नवानां भूसुराणां हि ययावग्रे रघूत्तमः ॥ २३०॥
ततस्ते भूसुराः सर्वे तदैकसमये प्रभुम् ।
आत्मनः पुरतो रामं ददृशुस्तं पृथक् पृथक् ॥ २३१॥
तत्तुष्टमनसः सर्वे प्रणेमू रघुनन्दनम् ।
शिबिकाभ्यस्ततो रामस्त्ववरुह्य पृथक् पृथक् ॥ २३२॥
नवरूपधराः सर्वान्विप्रानालिङ्ग्य सादरम् ।
ऊचुर्मधुरया वाचा प्रसन्नमुखपङ्कजाः ॥ २३३॥
भो विप्राः श्रमिता यूयं युष्माकं कृतनिश्चयम् ।
बुद्ध्वा वयं पृथग्रूपैर्जाताः स्मो नवधाऽद्य हि ॥ २३४॥
एककालेऽत्र तपतां सर्वेषां दर्शनं निजम् ।
कस्य देयं तु पूर्वं हि पश्चात्कस्य प्रदीयताम् ॥ २३५॥
इति सम्मन्त्र्य हृदये त्वद्यैकसमयेन हि ।
युष्माकं दर्शनं दत्तं वरयध्वं वरानितः ॥ २३६॥
रामाणां वचनं श्रुत्वा ते प्रोचुर्भूसुरोत्तमाः ।
येनास्माकं भवेत्कीर्तिः स वरो दीयतां तु नः ॥ २३७॥
तत्तेषां वचनं श्रुत्वा रामाः प्रोचुर्द्विजान्पुनः ।
युष्माकं दर्शनार्थं हि नवरूपधरा वयम् ॥ २३८॥
अद्य जाता यतस्तस्माद्युष्माकं नामभिः सदा ।
नव रामाः परां ख्यातिं गमिष्यन्त्यवनीतले ॥ २३९॥
अस्माकं नव यत्किचित्तत्प्रियं हि भविष्यति ।
ते तेषां तु रामाणां वाक्यं श्रुत्वा द्विजोत्तमाः ॥ २४०॥
सन्तुष्टास्ते नता नेमुः स्वं स्वं रामं मुहुर्मुहुः ।
तदा सर्वे जना रामान् लक्ष्मणान् भरतादिकान् ॥ २४१॥
आत्मानं नवधा जातान्दृष्ट्वा विस्मयमागताः ।
ततो रामाः शिबिकासु स्थित्वा पृष्ट्वा द्विजोत्तमान् ॥ २४२॥
परावृत्य ययुः सर्वे मार्गे त्वेकोऽभवत्पुनः ।
सर्वे जातास्त्वेकरूपास्तथा ते विस्मयं ययुः ॥ २४३॥
ततो रामो बन्धुभिश्च पूर्ववन्नगरीं ययौ ।
गत्वा गेहे तु सीतायै सर्वं वृत्तं न्यवेदयत् ॥ २४४॥
अतस्ते नव विप्राणां नामभिर्जगतीतले ।
ख्यातिं रामा ययुस्तत्र नव यद्यच्च तत्प्रियम् ॥ २४५॥
यथार्का द्वादश प्रोक्ता एकविंशद्गणाधिपाः ।
रुद्रा एकादश प्रोक्ता यथाष्ट भैरवाः स्मृताः ॥ २४६॥
नव दुर्गा यथा त्वत्र तथा रामा नव स्मृताः ।
प्रियं द्वादश सूर्याय एकादश शिवप्रियम् ॥ २४७॥
एकविंशत्प्रियं यद्वद्गणेशाय महात्मने ।
प्रियमष्ट भैरवाय दुर्गायै तु नव प्रियम् ॥ २४८॥
यथा यथाऽत्र रामाय नव शिष्य प्रियं सदा ।
तस्मान्नवविधैः पुष्पैरञ्जलिस्तत्प्रियो मतः ॥ २४९॥
इति श्रीमदानन्दरामायणे मनोहरकाण्डे तृतीयसर्गान्तर्गतं
श्रीरामबहिःपूजाविधिविधानविस्तारं समाप्तम् ॥
Encoded and proofread by PSA Easwaran