श्रीराम-पट्टाभिषेक
॥ श्रीराम पट्टाभिषेक सर्गः ॥ Gita Press version
शिरस्यञ्जलिमाधाय कैकेयीनन्दिवर्धनः ।
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १॥
पूजिता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २॥
धुरमेकाकिना न्यस्तां वृषभेण बलीयसा ।
किशोरवद् गुरुं भारं न वोढुमहमुत्सहे ॥ ३॥
वारिवेगेन महता भिन्नः सेतुरिव क्षरन् ।
दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४॥
गतिं खर इवाश्वस्य हंसस्येव च वायसः ।
नान्वेतुमुत्सहे वीर तव मार्गमरिन्दम ॥ ५॥
यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने ।
महानपि दुरारोहो महास्कन्धः प्रशाखवान् ॥ ६॥
शीर्यत पुष्पितो भूत्वा न फलानि प्रदर्शयन् ।
तस्य नानुभवेदर्थं यस्य हेतोः स रोपितः ॥ ७॥
एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि ।
यद्यस्मान् मनुजेन्द्र त्वं भर्ता भृत्यान् न शाधि हि ॥ ८॥
जगदद्याभिषिक्तं त्वामनुपश्यतु राघव ।
प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ९॥
तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः ।
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च ॥ १०॥
यावदावर्तते चक्रं यावती च वसुन्धरा ।
तावत् त्वमिह लोकस्य स्वामित्वमनुवर्तय ॥ ११॥
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः ।
तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२॥
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धनाः ।
सुखहस्ताः सुशीघ्राश्च राघवं पर्यवारयन् ॥ १३॥
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले ।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४॥
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः ।
महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५॥
प्रतिकर्म च रामस्य कारयामास वीर्यवान् ।
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६॥
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः ।
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७॥
ततो वानरपत्नीनां सर्वासामेव शोभनम् ।
चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला ॥ १८॥
ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः ।
योजयित्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९॥
अग्नयर्कामलसङ्काशं दिव्यं दृष्ट्वा रथं स्थितम् ।
आरुरोह महाबाहू रामः परपुरञ्जयः ॥ २०॥
सुग्रीवो हनुमान्श्चैव महेन्द्रसदृशद्युती ।
स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ २१॥
सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः ।
सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ २२॥
अयोध्यायां च सचिवा राज्ञो दशरथस्य च ।
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३॥
अशोको विजयश्चैव सिद्धार्थश्च समाहिताः ।
मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ २४॥
सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः ।
कर्तुमर्हथ रामस्य यद् यन्मङ्गलपूर्वकम् ॥ २५॥
इति ते मन्त्रिणः सर्वे सन्दिश्य च पुरोहितः ।
नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २६॥
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः ।
प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७॥
जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे ।
लक्ष्मणो व्यजनं तस्य मूर्ध्नि संवीजयंस्तदा ॥ २८॥
श्वेतं च वालव्यजनं जगृहे परितः स्थितः ।
अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ २९॥
ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः ।
स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ ३०॥
ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् ।
आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥ ३१॥
नव नागसहस्राणि ययुरास्थाय वानराः ।
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ३२॥
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः ।
प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ ३३॥
ददृशुस्ते समायान्तं राघवं सपुरःसरम् ।
विराजमानं वपुषा रथेनातिरथं तदा ॥ ३४॥
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः ।
अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ३५॥
अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः ।
श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३६॥
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ।
प्रव्याहरद्भिर्मुदितैर्मङ्गलानि वृतो ययौ ॥ ३७॥
अक्षतं जातरूपं च गावः कन्याः सहद्विजाः ।
नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८॥
सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे ।
वानराणां च तत् कर्म ह्याचचक्षेऽथ मन्त्रिणाम् ॥ ३९॥
श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः ।
वानराणां च तत्कर्म राक्षसानां च तद् बलम् ।
विभीषणस्य संयोगमाचचक्षेऽथ मन्त्रिणाम् ॥ ४०॥
द्युतिमानेतदाख्याय रामो वानरसंयुतः ।
हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश सः ॥ ४१॥
ततो ह्यभ्युच्छ्रयन् पौराः पताकाश्च गृहे गृहे ।
ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४२॥
अथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम् ।
अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ४३॥
पितुर्भवनमासाद्य प्रविश्य च महात्मनः ।
कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ ४४॥
तच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् ।
मुक्तावैदूर्यसङ्कीर्णं सुग्रीवाय निवेदय ॥ ४५॥
तस्य तद् वचनं श्रुत्वा भरतः सत्यविक्रमः ।
हस्ते गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४६॥
ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च ।
गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ४७॥
उवाच च महातेजाः सुग्रीवं राघवानुजः ।
अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४८॥
सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान् ।
ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ४९॥
तथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् ।
पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ५०॥
एवमुक्ता महात्मानो वानरा वारणोपमाः ।
उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ ५१॥
जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः ।
ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥ ५२॥
नदीशतानां पञ्चानां जलं कुम्भैरुपाहरन् ।
पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत् ॥ ५३॥
सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् ।
ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमानयत् ॥ ५४॥
रक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् ।
गवयः पश्चिमात् तोयमाजहार महार्णवात् ॥ ५५॥
रत्नकुम्भेन महता शीतं मारुतविक्रमः ।
उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ॥ ५६॥
आजहार स धर्मात्मानिलः सर्वगुणान्वितः ।
ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् ॥ ५७॥
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह ।
पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥ ५८॥
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ।
रामं रत्नमये पीठे ससीतं संन्यवेशयत् ॥ ५९॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥ ६०॥
अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ६१॥
ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा ।
योधैश्चैवाभ्यषिञ्चस्ते सम्प्रहृष्टैः सनैगमैः ॥ ६२॥
सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः ।
चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः ॥ ६३॥
ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम् ।
अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ॥ ६४॥
तस्यान्ववाये राजानः क्रमाद् येनाभिषेचिताः ।
सभायां हेमक्लृप्तायां शोभितायां महाधनैः ॥ ६५॥
रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः ।
नानारत्नमये पीठे कल्पयित्वा यथाविधि ॥ ६६॥
किरीटेन ततः पश्चाद् वसिष्ठेन महात्मना ।
ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः ॥ ६७॥
छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् ।
श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ॥ ६८॥
अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ।
मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ॥ ६९॥
राघवाय ददौ वायुर्वासवेन प्रचोदितः ।
सर्वरत्नसमायुक्तं मणिभिश्च विभूषितम् ॥ ७०॥
मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ।
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥ ७१॥
अभिषेके तदर्हस्य तदा रामस्य धीमतः ।
भूमिः सस्यवती चैव फलवन्तश्च पादपाः ॥ ७२॥
गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ।
सहस्रशतमश्वानां धेनूनां च गवां तथा ॥ ७३॥
ददौ शततंवृषान् पूर्वं द्विजेभ्यो मनुजर्षभः ।
त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ॥ ७४॥
नानाभरणवस्त्राणि महार्हाणि च राघवः ।
अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ॥ ७५॥
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजाधिपः ।
वैदूर्यमयचित्रे च चन्द्ररश्मिविभूषिते ॥ ७६॥
वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ।
मणिप्रवरजुष्टं तं मुक्ताहारमनुत्तमम् ॥ ७७॥
सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ।
अरजे वाससी दिव्ये शुभान्याभरणानि च ॥ ७८॥
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ।
अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ॥ ७९॥
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः ।
तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् ॥ ८०॥
प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ।
अथ सा वायुपुत्राय तं हारमसितेक्षणा ॥ ८१॥
तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः ।
पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा ॥ ८२॥
हनूमान्स्तेन हारेण शुशुभे वानरर्षभः ।
चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ॥ ८३॥
सर्वे वानरवृद्धाश्च ये चान्ये वानरोत्तमाः ।
वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ८४॥
विभीषणोऽथपि? सुग्रीवो हनुमाञ्जाम्बवांस्तथा ।
सर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ८५॥
यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः ।
प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ ८६॥
ततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः ।
सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः ॥ ८७॥
दृष्ट्वा सर्वे महात्मानस्ततस्ते वानरर्षभाः ।
विसृष्टाः पार्थिवेन्द्रेण किष्किन्धां समुपागमन् ॥ ८८॥
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ।
पूजितश्चैव रामेण किष्किन्धां प्राविशत्पुरीम् ॥ ८९॥
विभीषणोऽपि धर्मात्मा सह तैर्नैरृतर्षभैः ।
लब्ध्वा कुलधनं राजा लङ्कां प्रायान्महायशाः ॥ ९०॥
स राज्यमखिलं शासन्निहतारिर्महायशाः ।
राघवः परमोदारः शशास परया मुदा ।
उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ९१॥
आतिष्ठ धर्मज्ञ मया सहेमां
गां पूर्वराजाध्युषितां बलेन ।
तुल्यं मया त्वं पितृभिर्धृता या
तां यौवराज्ये धुरमुद्वहस्व ॥ ९२॥
सर्वात्मना पर्यनुनीयमानो
यदा न सौमित्रिरुपैति योगम् ।
नियुज्यमानो भुवि यौवराज्ये
ततोऽभ्यषिञ्चद् भरतं महात्मा ॥ ९३॥
पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् ।
अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः ॥ ९४॥
राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः ।
शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान् ॥ ९५॥
आजानुलम्बिबाहुः स महावक्षाः प्रतापवान् ।
लक्ष्मणानुचरो रामः शशास पृथिवीमिमाम् ॥ ९६॥
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ।
ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ ९७॥
न पर्यदेवन्विधवा न च व्यालकृतं भयम् ।
न व्याधिजं भयं चासीद् रामे राज्यं प्रशासति ॥ ९८॥
निर्दस्युरभवल्लोको नानर्थं कञ्जिदस्पृशत् ।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ९९॥
सर्वं मुदितमेवासी त्सर्वो धर्मपरोऽभवत् ।
राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम् ॥ १००॥
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ १०१॥
रामो रामो राम इति प्रजानामभवन् कथाः ।
रामभूतं जगदभूद् रामे राज्यं प्रशासति ॥ १०२॥
नित्यमूला नित्यफलास्तरवस्तत्र पुष्पिताः ।
कामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ १०३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः ।
स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ १०४॥
आसन् प्रजा धर्मपरा रामे शासति नानृताः ।
सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः ॥ १०५॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत् ॥ १०६॥
रामायण फलश्रुति
धर्म्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ।
आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम् ॥ १०७॥
यः शृणोति सदा लोके नरः पापात् प्रमुच्यते ।
पुत्रकामश्च पुत्रान् वै धनकामो धनानि च ॥ १०८॥
लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ।
महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति ॥ १०९॥
राघवेण यथा माता सुमित्रा लक्ष्मणेन च ।
भरतेने च कैकेयी जीवपुत्रास्तथा स्त्रियः ॥ ११०॥
भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः ।
श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति ॥ १११॥
रामस्य विजयं चेमं सर्वमक्लिष्टकर्मणः ।
शृणोति य इदं काव्यं पुरा वाल्मीकिना कृतम् ॥ ११२॥
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ।
समागम्य प्रवासान्ते रमन्ते सह बान्धवैः ॥ ११३॥
शृण्वन्ति य इदं काव्यं पुरा वाल्मीकिना कृतम् ।
ते प्रार्थितान् वरान् सर्वांर्वान् प्राप्नुवन्तीह राघवात् ॥ ११४॥
श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम् ।
विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥ ११५॥
विजयेत महीं राजा प्रवासी स्वस्तिमान् भवेत् ।
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥ ११६॥
पूजयंश्च पठंश्चैनमितिहासं पुरातनम् ।
सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ ११७॥
प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात् ।
ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥ ११८॥
रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा ।
प्रीयते सततं रामः स हि विष्णुः सनातनः ॥ ११९॥
आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः ।
साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ॥ १२०॥
एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ १२१॥
देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात् तथा ।
रामायणस्य श्रवणे तृप्यन्ति पितरः सदा ॥ १२२॥
भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् ।
ये लिखन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ १२३॥
कुटुम्बवृद्धिं धनधान्यवृद्धिं
स्त्रियश्च मुख्याः सुखमुत्तमं च ।
शृत्वा शुभं काव्यमिदं महार्थं
प्राप्नोति सर्वान् भुवि चार्थसिद्धिम् ॥ १२४॥
आयुष्यमारोग्यकरं यशस्यं
सौभ्रातृकं बुद्धिकरं शुभं च ।
श्रोतव्यमेतन्नियमेन सद्भि-
राख्यानमोजस्करमृद्धिकामैः ॥ १२५॥
॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे
श्रीरामपट्टाभिषेको नाम अष्टाविंशत्यधिकशततमः सर्गः ॥
Proofread by N Seshadri
In some prints, the adhyAya numbering
divisions are different (131 vs 128).