त्रैलोक्यमोहन श्रीरामकवचं
विनियोगः -
ॐ अस्य त्रैलोक्यमोहनश्रीरामकवचस्य ब्रह्मा ऋषिरनुष्टुप् छन्दः ।
श्रीरामचन्द्रो देवता । अनन्तोऽग्न्यासनः । सेन्दुरितिबीजम् ।
ॐ श्रीराम एव परं ब्रह्म इति शक्तिः ।
ॐ मधुरप्रसन्नवदनायेति हृदयम् । ॐ क्लीं रामभद्रायेति कीलकम् ।
ॐ हूँ जानकीवल्लभायेत्यस्रम् । ॐ अमिततेजसे बलायेति कवचम् ।
ॐ श्रीं रां रामायेति परमो मन्त्रः ।
मम सकलविधिश्रीसीतारामपदारविन्दानुरागार्थे (जपे) पाठे विनियोगः ॥
ऋष्यादिन्यासः -
ॐ ब्रह्मा ऋषये नमः शिरसि ।
ॐ अनुष्टुप् छन्दसे नमो मुखे ।
ॐ श्रीरामचन्द्रो देवतायै नमो हृदये ।
ॐ अनन्तोऽग्न्यासनः सेन्दुरिति बीजाय नमो नाभ्याम् ।
ॐ मधुरप्रसन्नवदनायेति हृदयाय नम उदरे ।
ॐ क्लीं रामभद्रायेति कीलकाय नमः कट्याम् ।
ॐ हूँ जानकीवल्लभायेत्यस्राय नमो गुहये ।
ॐ अमिततेजसे बलायेति कवचाय नमो जङ्घयोः ।
ॐ श्रीं रां रामायेति परममन्त्राय नमः पुनः शिरसि ।
श्रीसीतारामपदारविन्दानुरागार्थे पाठे विनियोगाय (जपे) सर्वाङ्गे ॥
करन्यासः -
ॐ रां अङ्गुष्ठाभ्यां नमः । ॐ रां तर्जनीभ्यां नमः ।
ॐ मां मध्यामाम्यां नमः । ॐ यं यमनामिकाभ्यां नमः ।
ॐ नं कनिष्ठिकाभ्यां नमः । ॐ मः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः -
ॐ रां हृदयाय नमः । ॐ रां शिरसे स्वाहा ।
ॐ मां शिखायै वषट् ।
ॐ यं कवचाय हूं। ॐ नं नेत्राभ्यां वौषट् । ॐ मः अस्त्राय फट् ।
ॐ हीं क्लीं श्रीं रां क्षौं क्रौं एँ हुँ फट् स्वाहा इति दिग्बन्धनं कुर्यात् ॥
ध्यानम् -
वैदेही सहितं सुरदुमतले है मे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं
व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
पार्वत्युवाच ।
भगवन् सर्वदेवेश सर्व देवनमस्कृत ।
सर्वं मे कथितं देव राममन्त्रो विशेषतः ॥ १॥
त्रैलोक्यमोहनं नाम कवचं पूर्वसूचितम् ।
कथयस्व महादेव यद्यहं तव वल्लभा ॥ २॥
ईश्वर उवाच ।
श्रृणु वक्ष्यामि देवेशि कवचं परमाद्भुतम् ।
अत्यन्तं गोपनं गुह्यं ब्रह्ममन्त्रौघविग्रहम् ॥ ३॥
ॐ प्रणवो मे शिरः पातु तारको ब्रह्मरूपकः ।
अनन्तोऽग्न्यासनः सेन्दुर्नासामेकाक्षरोऽवतु ॥ १॥
ॐ रां रामाय नमः पातु भाड्वर्णो भुक्तिमुक्तिदः ।
भालं पायान्नेत्रयुग्मं रामो द्वयक्षरसंज्ञकः ॥ २॥
ॐ क्लीं पायाच्छ्रोत्रयुग्मं ह्यकाक्षरविमोहनः ।
ॐ ह्रीं श्रीं क्लीं नमो रामाय मुखं मे परिरक्षतु ॥ ३॥
ॐ नमः श्री राघवेन्द्राय कण्ठं पातु मनुस्त्वयम् ।
ॐ क्लीं श्रीं रां रामाय नमः स्कन्धौ पातु खरान्तकः ॥ ४॥
ॐ नमो रां रामचन्द्राय मन्त्रः पातु भुजद्वयम् ।
ॐ श्रीमद्रामभद्राय करौ पातु मनुस्वराट् ॥ ५॥
ॐ श्रीरामचन्द्राय रक्षोघ्नाय नमो मन्त्रोऽयं द्वादशाक्षरः ।
हृदयं मे सदा पातु रघुवंशसमुद्भवः ॥ ६॥
ॐ क्लीं रामभद्राय नमः पातु नाभिं दुष्टान्तकः प्रभुः ।
ॐ नमः श्रीरामचन्द्राय कटिमष्टाक्षरोऽवतु ॥ ७॥
सक्थिनी सततं पातु राक्षसेन्द्र विमर्द कः ।
ॐ ह्रीं रामचन्द्राय नमः पातु मे ऊरूयुग्मकम् ॥ ८॥
ॐ प्रणवो रामचन्द्राय नमो वस्वक्षरः स्वराट् ।
जानुनी मे सदा पातु रक्षःकुलविनाशकः ॥ ९॥
ॐ प्रणवो रामभद्राय नमोऽष्टाक्षरस्वयम् ।
पादयुग्मं सदा पातु वानरेन्द्रश्रियः प्रदः ॥ १०॥
ॐ नमो रामभद्राय सर्वाङ्ग पातु सर्वतः ।
ॐ ह्रीं सीतापतये नमः प्राच्यां मां सर्वदावतु ॥ ११॥
ॐ हीं जानकीवल्लभाय दक्षिणे पातु सर्वदा ।
ॐ क्लीं जानकीशाय नमो वारुण्यां मां सदावतु ॥ १२॥
ॐ श्रीं रघुनाथाय नमः कौबेर्या दिशि रक्षतु ।
ॐ ह्रीं जानकीवल्लभाय आग्नेयां मां सदावतु ॥ १३॥
ॐ ह्रीं क्लीं भरताग्रजाय पातु मां नैऋत्यां दिशि ।
ॐ श्रीं जानकीवल्लभाय वायव्यां मां सदावतु ॥ १४॥
ॐ श्रीं ह्रीं क्लीं दाशरथाय चेशान्यां रक्ष मां सदा ।
ॐ नमो भगवते रघुनन्दनाय रक्षोघ्नविषदाय
मधुरप्रसन्नवदनाय अमिततेजसे बलाय रामाय विष्णवे नमः ॥ १५॥
प्रणवादिनमोऽन्तोऽयं मालामन्त्र उदीरितः ।
राज्यस्थाने सदा पातु रघुवंशसमुद्भवः ॥ १६॥
ॐ नमो भगवते श्रीरामाय महापुरुषाय नमः ।
अष्टादशाक्षरो मन्त्रो मामेव सर्वदावतु ॥ १७॥
ध्यायेद्धृत्पुण्डरीकाक्षं परञ्ज्योतिः परात्परम् ।
राममेव परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ १८॥
इति ध्यात्वा जपेन्मन्त्रं भुक्तिमुक्तिप्रदायकम् ।
ॐ दाशरथाय विद्महे सीताप्रियाय धीमहि ।
तन्नो रामः प्रचोदयात् ॥ १९॥
इत्येवं रामगायत्री भक्तिवीर्यप्रवर्धिनी ।
गायत्री जपमात्रेण भुक्तिमुक्तिप्रदायनी ॥ २०॥
इति ते कथितं देवि ! सर्वमन्त्रौघविग्रहम् ।
त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ २१॥
प्रातःकाले पठेद्यस्तु सोऽभीष्टफलमाप्नुयात् ।
सायम्मध्याह्नकालेऽपि जपात्सिद्धिमनूत्तमाम् ॥ २२॥
पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ।
कीर्तिः श्रीः कान्तिमेधायुर्जपतो भवति ध्रुवम् ॥ २३॥
राममन्त्रमयं ब्रह्मकवचं मन्मुखोदितम् ।
गुरुमभ्यर्च्य विधिवत्कवचं यः पठेत्ततः ॥ २४॥
द्विः सकृद्वा जपेद्यस्तु सोपि पुण्यवतां वरः ।
देवमभ्यर्च्य विधिवत्पुरश्चर्या समारभेत् ॥ २५॥
अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम् ।
ततस्तु सिद्धकवचं सर्वकार्याणि साधयेत् ॥ २६॥
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः ।
गद्यपद्यमयी वाणीं तस्य वक्त्रात्प्रवर्तते ॥ २७॥
वक्त्रे तस्य वसेद्वाणी कमला निश्चला गृहे ।
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत्सकृत् ॥ २८॥
अपि वर्षसहस्राणां पूजाफलमवाप्नुयात् ।
विलिख्य भूर्जपत्रे च स्वर्णस्थं धारयेद्यदि ॥ २९॥
कण्ठे वा दक्षिणे वाहौ स कुर्याद्दासवज्जगत् ।
त्रैलोक्यं क्षोभयेद्दवि त्रैलोक्यविजयी भवेत् ॥ ३०॥
तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि यानि च ।
माल्यानि कुसुमानीव सुखदानि भवन्ति हि ॥ ३१॥
स्पर्धामुधूय भवने लक्ष्मी वाणी मुखे वसेत् ।
इदं कवचमज्ञात्वा यो जपेद्राममन्त्रकम् ॥ ३२॥
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।
स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥ ३३॥
सम्यग् ज्ञात्वा तु कवचं मन्त्रः स्याच्छीघ्रसिद्धिदः ।
एकावृत्त्या लभेल्लक्ष्मीं द्विरावृत्त्या जगद्वशी ॥ ३४॥
त्रिरावृत्त्या पठेन्नित्यं सर्वार्थसिद्धिदं भवेत् ।
चतुर्वारं पठेन्नित्यं पुत्रपौत्रादिकं भवेत् ॥ ३५॥
पञ्चवारं पठेन्नित्यं दिव्यकायो भवेन्नरः ।
षड्वारं तु पठेन्नित्यं सर्वसिद्धीश्वरो भवेत् ॥ ३६॥
सप्तावृत्त्या सहोमेन वाचासिद्धिः प्रजायते ।
इति श्रीरुद्रयामलतन्त्रे ईश्वरपार्वतीसंवादे
त्रैलोक्यमोहनं नाम श्रीरामकवचं सम्पूर्णम् ॥
Encoded and proofread by Mrityunjay Pandey