श्रीत्रैलोक्यमोहनवज्रपञ्जररामकवचम्

श्रीत्रैलोक्यमोहनवज्रपञ्जररामकवचम्

अस्य श्रीत्रैलोक्यमोहनवज्रपञ्जरकवचस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता, रां बीजं, रीं शक्तिः, रूं कीलकम् । मम समस्तप्रारब्धपरिहारद्वारा श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः । रामित्यादि षडङ्गन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम् । नीलाम्भोधरकान्तिकान्तमानिशं वीरासनाध्यासितं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तं मकुटाङ्गदादिविलसद्रत्नोज्ज्वलाङ्गं भजे ॥ १॥ लमित्यादि पञ्चपूजा । ॐ श्रीपार्वत्युवाच- भगवन् सर्वदेश सर्वदेवनमस्कृत । सर्वं मे कथितं देव राममन्त्रं विशेषतः ॥ २॥ त्रैलेक्यमोहनं नाम कवचं पूर्वसूचितम् । कथयस्व महाभाग यद्यहं तव वल्लभा ॥ ३॥ श्री ईश्वर उवाच- श‍ृणु वक्ष्यामि देवेशि कवचं परमाद्भुतम् । अत्यन्तगोपितं गुह्यं ब्रह्ममन्त्रौघविग्रहम् ॥ ४॥ कवचस्य ऋषिर्ब्रह्मा गायत्री छन्द ईरितम् । देवता रामचन्द्रोऽस्य विनियोगोऽष्टसिद्धिषु ॥ ५॥ ओम् । प्रणवो मे शिरः पातु तारकब्रह्मरूपधृत् । अनन्तोऽग्रिसहस्रेन्दुः नासां पातु रघोः पतिः ॥ ६॥ रां रामाय नमस्तुभ्यं षड्वर्णो भुक्तिमुक्तिदः । फालं पायान्नेत्रयुग्मं रामो द्व्यक्षरसंज्ञकः ॥ ७॥ रां रामचन्द्राय नमो भ्रूद्वयं पातु मेऽन्वहम् । रां रामभद्राय नमश्चुबुकं पातु मे सदा ॥ ८॥ क्लीं मे पायाच्छ्रोत्रयुग्मं कर्णौ मे विश्वमोहनः । क्लीं रामाय नमश्चेति मुखं मे परिरक्षतु ॥ ९॥ तारं रामचतुर्थं तु क्रोधास्रवह्निकल्पितम् (?) । अष्टर्णोऽयं परो मन्त्रो जिह्वां मे पातु सर्वदा ॥ १०॥ गुणं बीजं तथा मायां हृद्रामाय ततश्चर । शिरो मां राममन्त्रोऽयं गण्डयुग्मं सदावतु ॥ ११॥ ॐ हृद्भगवते रामचन्द्रभद्रौ च ज्ञेयता । अर्कानुद्विविधौ मन्त्रौ रक्षतां मम कन्धरम् ॥ १२॥ रां रामचन्द्राय स्वाहा षड्वर्णोऽव्याद्भुजद्वयम् । श्रीरामाय नमश्चासौ कक्षौ पातु खरान्तकः ॥ १३॥ ? ? नृसिंहो लक्ष्मीपाशाङ्कुशस्ततः । वर्मास्त्राणि वधू युक्तो रव्यर्णोऽव्यादुरःस्थलम् ॥ १४॥ श्रीरामचन्द्राय ततो रक्षोघ्नाय नमस्त्वयम् । हृदयं मे सदा पातु रघुवंशसमुद्भवः ॥ १५॥ रामाज्ञेतु वराहास्त्रं वह्निजायायुतं मनुः । वीरस्वरूपरामाभ्यां सप्तार्णा पातु पार्श्वकौ (? ) ॥ १६॥ ॐ श्रीं ह्रीं क्लीं ततो रामं च रामाय नमस्त्वयम् । दशाक्षराज्ञो मन्त्रो मे पुरतः पृष्ठतोऽवतु ॥ १७॥ श्रीपूर्वं जय मध्यस्थं तद्विधा राम राम च । नमः पञ्चदशर्णोऽयं सदा पातु ममोदरम् ॥ १८॥ हुं जानकीवल्लभाय स्वाहाद्यावतु मध्यमम् । श्रीरामचन्द्राय स्वाहा नाभिमष्टाक्षरोऽवतु ॥ १९॥ क्लीं रामचन्द्राय ततः सीतायाः पतये नमः । मन्वस्यः सक्थिनी पातु राक्षसेन्द्रविमर्दनः ॥ २०॥ ॐ रामभद्राय नमो गुह्यं मे पातु राघवः । श्रीरामभद्राय नमो मम पातूरुयुग्मकम् ॥ २१॥ प्रणवो रामचन्द्राय स्वापात्यष्टाक्षरोऽवतु । पादयुग्मं सदा पातु वानरेन्द्राश्रयः प्रभुः ॥ २२॥ रामभद्र महेष्वास रघुवीर नृपोत्तम । दशास्यान्तक मां रक्ष देहि नः परमे(मां) श्रियम् ॥ २३॥ द्वात्रिंशदक्षरो यस्स्यात् सर्वाङ्गं पातु मे सदा । श्रीं सीतापतये नमः प्राच्यां मां सर्वदावतु ॥ २४॥ हुँ जानकीवल्लभाय स्वाहा याम्यां च सर्वदा । क्लीं जानकीवल्लभाय प्रतीच्यां सर्वदावतु ॥ २५॥ श्रीरघुनन्दनाय नमः कौबेर्यां दिशि रक्षतु । श्रीं सीतायै ततः स्वाहा रां रामाय नमस्त्वयम् ॥ २६॥ सीतारामाख्यमन्त्रे(न्त्रोऽयं) विदिक्षूर्ध्वमधश्च माम् । नमो भगवते ब्रूयाच्चचतुर्थ्यां रघुनन्दनः ॥ २७॥ रक्षो घोरदि ? ? मधुरादि समीरयेत् । प्रसन्नवदनायेति पश्चादमितितेजसे ॥ २८॥ बलाय पश्चाद्रामाय विष्णवे तदनन्तरम् । प्रणवादिनमोऽन्तोऽयं मालामन्त्र उदीरितः ॥ २९॥ सर्वस्थानेषु कालेषु पातु मां रघुनन्दनः । वदेद्दाशरथायेति विद्महेति पदं ततः ॥ ३०॥ सीतापदं समुद्रत्या(समुच्चार्य)वल्लभायपदं ततः । धीमहीत्यथ तं नोऽथ रामश्चापि प्रचोदयात् ॥ ३१॥ एषा स्याद्रामगायत्री सर्वावस्थासु पातु माम् । इति ते कथितं देवि सर्वमन्त्रौघविग्रहम् ॥ ३२॥ त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् । प्रातः काले पठेद्यस्तु कवचं मुक्तिसाधकम् ॥ ३३॥ कीर्तिश्रीकान्तिमेधायुर्भूतिश्च भवति ध्रुवम् । राममन्त्रमथ ब्रह्मकवचं मनुचोदितम् ॥ ३४॥ गुह्यमभ्यर्च्य विधिवत् पुनश्चर्यां समाचरेत् । अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम् ॥ ३५॥ ततः सुसिद्धं कवचं सर्वकार्याणि साधयेत् । मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्यां विना ततः ॥ ३६॥ लाज आज्यं च । गद्यपद्यमयी वाणी तस्य वक्त्रात्प्रवर्तते । वक्त्रे तस्य वसेद्वाणी कलाश्च निश्चला गृहे ॥ ३७॥ पुष्पाञ्जल्यष्टकं दत्त्वा मलेनैव परे सकृत् । अपि वर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥ ३८॥ विलिख्य भूर्जपत्रे तु स्वर्णस्थं धारयेद्यदि । कर्णे च दक्षिणे बाहौ स कुर्या वतं(दवितं)जगत् ॥ ३९॥ त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् । तद्गात्रं प्राप्य शास्त्राणि ब्रह्मास्त्रादीनि यानि च ॥ ४०॥ माल्यानि कुसुमानीव सुखदानि भवन्ति हि । सार्धमु ॥॥॥। हवने लक्ष्मीवाणीमुखे वसेत् ॥ ४१॥ य इदं कवचं ज्ञात्वा यो जपेद्राममन्त्रकम् । शतलक्षमवाप्नोति सोऽचिरान्मृत्यु(न्मुक्ति)माप्नुयात् ॥ ४२॥ त्रैलोक्यमोहनं जप्त्वा न मन्त्रासिद्धिसाधकः । स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् । तस्मात् सर्वप्रयत्नेन कवचं धारयेद्बुधः ॥ ४३॥ इति ब्रह्माण्डपुराणे पार्वतीश्वरसंवादे त्रैलोक्यमोहनवज्रपञ्जररामकवच नाम दिव्यमन्त्रकवचं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Trailokyamohana Vajrapanjara Rama Kavacham
% File name             : trailokyamohanavajrapanjararAmakavacham.itx
% itxtitle              : rAmakavacham 2 trailokyamohana vajrapanjara (brahmANDapurANAntargatam)
% engtitle              : rAmakavacham 2 trailokyamohana vajrapanjara
% Category              : raama, kavacha, panjara
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH 04-13, brahmANDapurANa
% Indexextra            : (Scan)
% Latest update         : September 12, 2020, June 10, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org