आख्याषष्टिः
शिवं परमकल्याणं अव्याजकरुणानिधिम् ।
तदाख्यां सौख्यजननीं वन्दे वक्त्रार्तिहारिणीम् ॥ १॥
शिवाख्ये नो जाने शिवमितरदेवानपि जन-
न्यये क्वामी क्वासावहमहह दिष्ट्या तु भवतीम् ।
समीक्षे मत्सर्वश्रममुषमिहामूकसुलभां
स्वलब्धृस्वाधीनाखिलभुवनसाम्राज्यविभवाम् ॥ २॥
स्वकीयैः स्रोतोभिर्जगदखिलमाक्रामति कलौ
निमग्नास्ते वर्णाश्रमनियमधर्माः स्फुटमिदम् ।
प्रलीना ध्यानादिर्भजनसृतिरेका पुनरये
परित्रातुं विश्वं पुरभिदभिधे त्वं विजयसे ॥ ३॥
शिवाख्ये वाच्योऽर्थस्तव हि पुरभिद्वाऽस्तु मुरभित्
स लोकानामीष्टां-अवतु च सुखेन श्रितजनम् ।
अलं नाहं तस्यानुसृतिषु स मा भूदपि च मे
श्रितोऽहं त्वां यत्त्वद्भवति मम कल्याणि तदलम् ॥ ४॥
स्वयम्भूदैत्यारित्रिपुरमथनानीरितकृतः
त्रिलोकीसाम्राज्यं तदपि नयनादेशवशगम् ।
विधातुं त्वद्भाजस्त्वमलमलघुस्ते हि महिमा
महेशाख्ये वाचामतिसरणिमाचामतितराम् ॥ ५॥
कराळाद्यत् क्ष्वेळाज्जगदवितवानिन्दुमकुटः
कृतान्ताद्दुर्दान्ताद्यदपि मुनिचूडामणिसुतम् ।
अनल्पैः किं जल्पैः तदिदमिदमवनीयस्य रसना-
कृतत्वत्सेवायाश्चरितमभिधे मन्मथरिपोः ॥ ६॥
शतं सन्त्वाम्नायाश्शतमपि पुराणागमगणाः
विहाय त्वामेते वितरितुमलं किं शिवधियम् ।
अशेषग्लानिं या हरति भवती तु श्रममृते
शिवाख्ये मातस्तामितरनिरपेक्षा वितरति ॥ ७॥
त्रिनेत्रस्य ग्लानिस्त्रिपुरदनुजादीन् मुररिपोः
दशग्रीवप्रष्ठानपि दलयितुं हन्त कियती ।
नियन्त्री या तेषां निखिलजगतोऽप्याशु दळय-
स्यविद्यां निर्यत्नं निटिलनयनाख्ये जननि ताम् ॥ ८॥
भवत्याः पन्थानश्शतमखमुखश्रीभिरभितः
सुधासारैस्सिक्ताः कुसुमसमवायैश्च निचिताः ।
क्रियन्ते निर्याहि स्मरभिदभिधे दीयत इतः
करालम्बो जाग्रद्विनयभरया मुक्तिरमया ॥ ९॥
शिवाख्ये जिह्वायां वहति भवतीं यस्तमखिलं
शरद्राकाचन्द्रद्युतिमसितकण्ठं त्रिनयनम् ।
विधून्मीलन्मौळिं विरचयसि केयं व्यसनिता
विहन्तुं ते जीवेष्वहह शिवभावासुलभताम् ॥ १०॥
समाचक्षाणस्य स्मरभिदभिधे देवि भवतीं
अहो यस्यां यस्यां हरिति नयनान्तोऽवतरति ।
हरास्तस्यां तस्यामळिकनयनाश्चन्द्रमकुटाः
शरज्योत्स्नागौरास्सह गिरिजयोद्यन्ति शतशः ॥ ११॥
शिवः कामं क्रोधाकुलमतिरजैषीत् त्वदनुगैः
जितः कामः क्रोधोऽप्यथ मुनिकुमारं यमभयात् ।
शिवोऽरक्षीदेकं सयतनमिमे तद्भयहृतो-
ऽखिलस्येक्षामात्राज्जितमिह शिवाख्ये त्वदनुगैः ॥ २॥
चरन्तीं त्वच्छायां शशिवदुपवाराशि वसती-
त्यदोमुख्यासूक्तिष्वपि रसनया सङ्कलयतः ।
परागं ब्रह्माद्याः पदकलितमञ्चन्ति शिरसा
शिवाख्ये त्वन्निष्ठैर्जितमिति किमम्बाद्भुतमिदम् ॥ १३॥
भवत्यां स्पृष्टायां बत पुरहराख्ये रसनया
कराळेन ग्रीवा भवति गरळेनास्य कलिता ।
हुताशेनाश्लिष्टो भवति च करोऽङ्गानि भुजगैः
भवन्ति क्रान्तानि श्रितकुशलदा त्वं तु विदिता ॥ १४॥
दशायामन्त्यायां दळितबलदीनेन्द्रियततौ
महेशाख्ये जिह्वां श्रवणमपि वा संश्रितवती ।
भवत्येकैवास्य प्रतिभवति भद्राय महते
तदा केनान्येनोन्मिषतु कणिका वाप्युपकृतेः ॥ १५॥
मनागप्यस्पृष्टा गहनदहनेनेह विषया-
भिधानेनानेन क्षितिधरसुतानेतुरभिधे ।
रमन्ते कामं ते कतिचिदधिकल्लोलितसुधा-
झरायां धारायां शिशिरशिशिरायां सुकृतिनः ॥ १६॥
वधूटीपुत्रादीन् वसुविसरमानम्रनृपति-
च्छटाचूडारत्नच्छविकवचिताशां श्रियमपि ।
जहत्येके धन्या जगति मदनद्रोग्धुरभिधे
विहारे सोत्कण्ठा विहतिरहिते त्वल्लहरिषु ॥ १७॥
अजस्रं तन्वानाः श्वसितुमपि मामक्षममिमं
कदा वा क्रामन्तु प्रतिहतकराळोपहतयः ।
पुरारातेराख्ये पुरभिदनुभूत्यूर्मिळसुख-
प्रतीपेभध्वंसप्रबलहरयस्त्वल्लहरयः ॥ १८॥
शिवाख्ये त्वत्स्रोतस्ततिषु विहृतिं बाधिषत मा
ममाशक्त्यालस्यारतिगदनिहत्त्याद्यभिभवाः ।
प्रकामं बाधन्तामितरमखिलं तेऽभित इमे
प्रणामास्ते सन्तु प्रविरचय मत्काङ्क्षितमिदम् ॥ १९॥
किमन्यन्मन्यन्ते जगति न तृणायापि कतिचित्
पदं मातश्शातक्रतवमपि वैरिञ्चमपि वा ।
प्रधावन्ति त्यक्त्वा दहनमिव तत् प्रत्युत मनो-
भवारातेराख्ये त्वदमृतरसास्वादरसिकाः ॥ २०॥
दिवं क्षोणीं क्षोणीं दिवमपि निरिन्द्रं जगदिदं
तथाऽन्येन्द्रं वीतद्रुहिणमपि वान्यद्रुहिणकम् ।
प्रगल्भन्ते कर्तुं प्रसवविशिखद्रोग्धुरभिधे
प्रपन्नास्त्वां शान्त्याऽपि तु सहजयोदासत इमे ॥ २१॥
घनाः केऽपीशाख्ये त्वदमृतरसासारविसरैः
जगत्कल्युद्दामज्वलदनलशान्त्या शिशिरताम् ।
नयन्तस्तन्वन्तस्समुचितफलस्याप्युपचितिं
क्षमाभूषा भान्ति क्षपितहरिदुद्वेलतिमिराः ॥ २२॥
शिवाख्ये त्वद्वर्णद्वितयपरमाद्वैतरसिकाः
प्रियप्राप्तौ शर्माप्रियसमुपलम्भे शुचमपि ।
भयं वा कस्माच्चित् भयजनकतां कस्य च तथा
न विन्दन्ते ब्रह्माद्यसुलभपरानन्दभरिताः ॥ २३॥
जनो धत्ते यो मां जगति रसनायां श्रवसि वा
दिगीशा धाता वा दिशमपि तदीयां परुषया ।
दृशा जातु द्रष्टुं किमलमिति कामध्रुगभिधे
त्वदीयप्रस्थानध्वनिभरमिषाद् गर्जसि मुहुः ॥ २४॥
निबन्धारस्तेऽमी मम नियतमात्मीयरसना-
भुवीति त्वं त्रासादिव कुसुमचापध्रुगभिधे ।
तृणं मेरुं मेरुं तृणमिति विलासव्यवहृती-
रपि द्रागेतेषामयि सफलयन्ती विहरसे ॥ २५॥
परित्यज्याशेषं जननि भवतीमेव भजतां
त्वमेवेशानाख्ये यदभिलषितं दैवतवरम् ।
दृशं तत्तन्मूर्त्या श्रुतिमपि तदुक्त्या सफलतां
नयन्ती धत्से नन्ववधिविधुरां निर्वृतिधुराम् ॥ २६॥
श्रुता ये स्वर्धेनुत्रिदशतरुमुख्यास्त्वदनुगा-
नुगानां भ्रूवल्लीवलनवशगास्ते जगति तान् ।
तवौदार्ये मातर्धरणिधरजानेतुरभिधे
कथङ्कारं तुल्यान् कथयतु सलज्जो यदि जनः ॥ २७॥
विधातुं सन्त्रातुं विलयमपि नेतुं जगदलं-
भवन्तोऽपीशाख्ये प्रशमसमुपेतास्त्वदनुगाः ।
उपेक्ष्या लोकस्यावमतसकलास्सन्ति जगति
त्वयैवैके तुष्टास्तव खलु त एते रसविदः ॥ २८॥
शिवाख्ये त्वद्वर्णद्वितयमयि धत्ते श्रितवतां
मुखे धर्मब्रह्मप्रमितिकरसर्वाक्षरगणम् ।
पदे धत्ते वेधःप्रभृतिविभवान्नात्र तु रतिः
विनैषां त्वद्वर्णद्वितयमिह कोऽयं मधुरिमा ॥ २९॥
महेशाख्ये जिह्वाञ्चलकलनमात्रात्तनुभृतां
समस्ताघच्छेत्रीं सकलसुखदात्रीं च भवतीम् ।
अवष्टभ्यैवाहुर्भगवति महाकारुणिकतां
शिवस्य त्वां हित्वा कथय कतमो निर्वहतु ताम् ॥ ३०॥
शिवाख्ये स्वाख्यासु त्रिपुरमथनः कैटभरिपुः
तदीयान्या मूर्ती रघुपतिरपि त्वां समदधुः ।
अमीष्वाद्यस्यैव प्रभवति भवत्या व्यवहृतिः
तदीयस्तादृक्षस्सुकृतपरिपाको विजयते ॥ ३१॥
अशेषब्रह्माण्डाविरतचरिताशेषदुरिता-
न्यलं ते सन्तृप्तिं न हि घटयितुं तां घटयितुम् ।
मदीयैरेनोभिर्मदनमथनाख्ये बत यते
ममागस्सोढव्यं तदिदमयि तुभ्यं नम इदम् ॥ ३२॥
अये जिह्वापीठे जननि समवस्थाप्य भवतीं
ममाघौघं तुभ्यं मयि समुपहर्तुं व्यवसिते ।
तव स्मृत्यैवासौ बत कबळितः किन्नु करवै
क्षमस्वेमं मन्तुं भगवति पुरां भेत्तुरभिधे ॥ ३३॥
निवेशो जिह्वायां निरवधिकपुण्योच्चयजुषां
निसर्गप्राप्तस्ते निटिलनयनाख्ये भवतु तत् ।
निवेशं जिह्वायां मम यदि न धत्से जननि ते
नितान्तं पापिष्ठोऽवित इति न सिद्ध्येन्ननु यशः ॥ ३४॥
शिवाख्ये मातस्त्वं ननु शशिवदित्यादिफणिति-
च्छलादप्याविश्य श्रमभरमकस्मात्तनुभृताम् ।
हरस्येवं कर्तुं हरिरथ हरो वा स किमलं
तदीयं माहात्म्यान्तरमपलपामस्तु न वयम् ॥ ३५॥
पितृभ्यां त्यक्तोऽसावहमतिदुरात्मेति गिरिजा-
गिरीशाभ्यां त्यक्तो ननु जननि लोकेन च तथा ।
ममास्त्यन्या काचिज्जगति न गतिर्यामि शरणं
शिवाख्ये त्वामेकामयि जहिहि वा मां बिभृहि वा ॥ ३६॥
परित्याज्यं सर्वेऽप्यभिदधति पापिष्ठमयि ते
शिवाख्ये सङ्ग्राह्यस्स जयति तवैतत् समुचितम् ।
प्रपन्ना त्वं किन्नोदयिनि गरले चामृतरसे
पयोधेस्तत्राद्यग्रहणरसिकं तं प्रभुमणिम् ॥ ३७॥
ममाजस्रं दोषान् समुपघटयन्तोऽन्तररयो
जयन्तीशः पश्यन् हृदि वसति मद्दौस्थ्यमखिलम् ।
अथैवं सत्यागोऽखिलमपलपन्त्यम्ब बिभृषे
कथं मामीशाख्ये कथय तव कः स्तौतु विभवम् ॥ ३८॥
स्फुटायां द्वारीशेतरमितरया साधु नयते
यथा प्राप्य स्थानं सुहृदिह मनोजध्रुगभिधे ।
स्वकर्मादावीशेतरमिममखेदं शिवपदं
तथा कल्याणि त्वं ननु कलयसि त्वत्कलनया ॥ ३९॥
स्वकर्मादावीशं जनमपि भवत्येव बिभृते
विना त्वां तस्यापि स्वविरचितसाद्गुण्यविरहात् ।
बुभूषोस्सर्वस्य त्वमसि तदुपास्या किमपरं
त्वयाऽऽस्ते लब्धात्मा भगवति शिवाख्ये स च शिवः ॥ ४०॥
न कर्माध्वन्योऽहं भगवति न वा भक्तिपथिको-
ऽस्म्युपादेयः कोऽपि स्फुरति गुणलेशोऽपि न मयि ।
असङ्ख्याता दोषाः किमत इह दौरात्म्यमितरत्
तदम्ब त्वत्तोऽन्या न जगति शिवाख्ये मम गतिः ॥ ४१॥
सुतस्याख्यां नारायणगिरमुपादत्त यदजा-
मिळस्तं तद्भीतास्तपनसुतदूताः प्रविजहुः ।
त्वमीशाख्ये भीतिं नयसि विमतांस्ते मुदमथा-
नुगान्कारुण्यार्द्रास्त्वहह निखिले ते त्वदनुगाः ॥ ४२॥
सुरभिशरभिदाख्ये सुन्दरे त्वज्झरेऽस्मिन्
निरुपहति विहर्तुं नित्यमुद्ग्रीविताशम् ।
अपनयसि किमेवं हन्त मामन्तरायैः
मनसि न कुरु मातर्मामकान् देवि मन्तून् ॥ ४३॥
किमकुरुत मुदे मे कर्म वर्णाश्रमार्हं
किमभजत मदङ्घ्री किं व्यधादेष को वा ।
इति निजसमितौ मामीक्षमाणे गिरीशे
मदनुग इति मातर्गर्ज धीरं शिवाख्ये ॥ ४४॥
जगति वशिगिरा त्वद्व्यत्ययेनोल्लसन्त्या
जननि परिगृहीतांस्त्वं स्वकर्मादिनिष्ठान् ।
न किमवसि शिवाख्ये हा तयाऽनादृतं मां
अवितुमिह विळम्बः कस्त्वदेकावलम्बम् ॥ ४५॥
अम्ब त्वदीयमहिमाम्बुधिशीकराणु-
वेदी सुधीस्त्वयि निरन्तरवृत्त्यलाभे ।
ईशाभिधे भुवि समेतु न किं पिपासोः
अभ्यर्णगेऽम्भसि निरुद्धगतेरवस्थाम् ॥ ४६॥
इतो रोगाः कामादय इत इतः स्त्रीसुतमुखाः
कृतान्तास्सर्वत्रेत्ययमनवधिः क्लेशजलधिः ।
तमेतं चाह्नाय त्वदनुगदयोल्लासघटभूः
निपीयेशाख्ये मामभिरमयतु त्वत्परिसरे ॥ ४७॥
अम्ब प्रसीद कुरु मामनघं बलात्त्वं
अङ्के च ते कुरु निषण्णममुं शिवाख्ये ।
जम्बालसक्तममलं कुरुते न माता
किं बालकं न कुरुतेऽङ्कजुषञ्च हृष्टा ॥ ४८॥
आविर्भवस्ययि नृणां त्वमयत्नतोऽग्रे
ग्लानिं धुनोषि घटयस्यपि मङ्गलानि ।
ईशाभिधे तव यशो न किमुज्जिहीतां
ईर्ष्याकुलत्वममरा न किमश्नुवीरन् ॥ ४९॥
मदनहन्त्रभिधे तव निर्झराः
मधुसुधालहरीरतिशेरते ।
कृतधियो विहरन्ति च तेष्वमी-
ष्वरसिकोऽत्र हतोऽस्म्यहमेककः ॥ ५०॥
शिवाख्ये मा भैषीः पदममरनेतुर्ननु भवेत्
अमुष्मै दातव्यं सरसिजभुवो वा पदमिति ।
समीहे नाहं तत् किमपि सहसाऽभ्येहि रसनां
ममेमां मा हासीस्समभिलषितं मे पुनरिदम् ॥ ५१॥
प्रदाय त्रैलोक्यश्रियमथ विमुक्तिश्रियमपि
त्वमन्तर्लज्जार्ता भवसि किममुष्मै कृतमिति ।
व्यथैषा दिष्ट्या त्वद्रसिकतिलकैस्ते परिहृता
विना त्वामीशाख्ये न किमपि यदेषां रतिपदम् ॥ ५२॥
जन्मास्य वार्यमिति ते जननि प्रसादो
जायेत चेन्मयि तदस्तु शिवाभिधे नः ।
त्वन्निष्ठताभरनिरन्तरतातिरम्यं
यज्जन्म तन्मम न जीर्यतु ते नमोऽस्तु ॥ ५३॥
विश्वाधिनेतुरखिलार्थविदः स्मरारेः
अज्ञाततां मदघराशिममुं नयन्ती ।
मां त्रायसे मदनहन्त्रभिधेऽम्ब कस्ते
चातुर्यसाहसभरौ चतुरोऽभिधातुम् ॥ ५४॥
प्रसीद गिरिशाभिधे प्रदिश मन्मतावम्बया
सह स्फुरणमूर्जितं सततमिन्दुमौळेर्विभोः ।
तथाऽनिशमिहासिकां तव मदीयजिह्वाञ्चले
ददस्व मम काङ्क्षितं द्वयमिदं त्वदेकास्पदम् ॥ ५५॥
न संस्फुरतु काङ्क्षतः स्फुरणमीश्वराख्ये कथं
हृदि त्वदनुगस्य तद्भृकुटिकिङ्करश्शङ्करः ।
चरन्तु विषया हरस्फुरणरोधिनो हृद्यमी
कथं कथय गर्जनैर्जननि तर्जयन्त्यां त्वयि ॥ ५६॥
ममायमवबुद्ध्यतां मधुरिमाणमूर्जस्वलं
कदापि विजहातु मां न रसनैतदीयेति मे ।
दयस्व गिरिशाभिधे ननु ददीत सा मेऽथवा
तदेतदभिकाङ्क्षितं त्वदनुगेषु जात्वानतिः ॥ ५७॥
मनागपि मनः स्पृशेन्मम यदेदमर्थान्तरं
तदा द्रुतमपैष्यहो त्वमपहाय जिह्वां मम ।
तथाम्ब गिरिशाभिधे तव न विप्रलम्भः क्षमो
भणेत् क इह किं प्रसूर्भवति विप्रलब्ध्री यदि ॥ ५८॥
यदा त्वमपयासि मां जननि वञ्चयित्वा स्वयं
तदा नियतमाहरोपहरमुख्यसञ्जल्पनैः ।
यथा कलितवञ्चनः पुरहराभिधे त्वामहं
नयानि रसनां तथाऽञ्चतु विधेः प्रसादो मयि ॥ ५९॥
शरणितवन्तः खलु ये शशिकन्दळशेखराभिधे भवतीम् ।
तच्चरणाम्बुजविहरणसंस्मरणं सुरघटाकिरीटतटे ॥ ६०॥
शरणं जगतो ह्येते शरणितवन्तश्शिवाभिधेये त्वाम् ।
अभिलषितं यदमीषामसुलभमिति तन्न किं वियन्नळिनम् ॥ ६१॥
महेशे तत्सङ्गिष्वपि कृतिषु पाषाणहृदये
वराके मय्यस्मिन् प्रविदधति सन्तः प्रणयिताम् ।
कथङ्कारं मातर्दळय तदिहेमां मम हृदो
दृषत्तामत्राम्ब स्मरभिदभिधे त्वं खलु गतिः ॥ ६२॥
इति श्रीश्रीधरवेङ्कटशार्यविरचिता आख्याषष्टिः समाप्ता ।
Proofread by Aruna Narayanan