यमप्रोक्तं आयुमूर्तिरनुवर्णनम्
आयुर्मूर्तिरियं भाति चन्द्रवद्भानुवच्छुभा ।
इयं पावकवद्भाति सा विभाति तथैव सा ॥ ३८॥
तारावद्भाति सा कापि भाति विद्युल्लतेव सा ।
गाढान्धकारवद्भाति सापि सा सापि सापि सा ॥ ३९॥
उल्कावद्भाति सा कापि कापि सा कापि कापि सा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ४०॥
परमानन्दसम्पूर्णा सापि सा सापि सापि सा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ४१॥
सुस्मेरवना सापि सा सापि सापि सा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ४२॥
शिवगानरता कापि साऽपि सा कापि सापि सा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ४३॥
आनन्दाश्रुसमाकीर्णा सापि सा कापि साऽपि सा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ४४॥
रुद्रवीणां गृहीत्वा सा कापि गानं करोति सा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ४५॥
सा नृत्यति विलासेन सापि सा साऽपि सापि सा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ४५॥
ध्यानं करोति सा कापि मन्दस्मेरमनोहरा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ४६॥
शिवनामानि जपती कापि सा सापि सापि सा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ४७॥
विलोक्य दर्पणं भाले त्रिपुण्ड्ररचनादरा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ४८॥
रुद्राक्षमालिकाकाया कापि सा सापि सापि सा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ५०॥
शिवलिङ्गार्चनरता बिल्वपल्लवकोटिभिः ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ५१॥
कापि सा पिबति प्रीत्या महेश्वरकथां शुभाम् ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ५२॥
शिववार्तारसरसं दृष्ट्वा हृष्टापि कापि सा ।
सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ५३॥
दृष्ट्वा पूजितलिङ्गानि स्पृष्ट्वा स्पृष्ट्वा मुहुर्मुहुः ।
कापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ५४॥
सा हर्षवर्षधाराभिः आप्लुता शङ्करस्मृतेः ।
कापि सा सापि सा सापि सापि सा सापि सापि सा ॥ ५५॥
॥ इति शिवरहस्यान्तर्गते यमप्रोक्तं आयुमूर्तिरनुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ८ -
आयुमूर्तिशिवभक्त्युत्कर्षवर्णनम् । ४०-५५॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 8 -
AyumUrtishivabhaktyutkarShavarNanam . 40-55..
Proofread by Ruma Dewan