ईश्वारादिप्रोक्तं शान्त्यध्यायः
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
ईश्वर उवाच ।
शान्त्यध्यायान् प्रवक्ष्यामि समाहितमनाः शिवे ।
राजचोराग्निपीडासु ग्रहभूतगदादिभिः ॥ ३७.१॥
पीडितानां शिवे शान्त्यै मयैव मनसा कृताः ।
तच्छृणुष्व वदाम्यद्य सर्वपापक्षयाय च ॥ ३७.२॥
अतः परमिदं गुह्यं रुद्रोद्गीतं महोदयम् ।
महाविघ्नप्रशमनं महाशान्तिकरं शुभम् ॥ ३७.३॥
अकालमृत्युशमनं सर्वव्याधि निवारणम् ।
परचक्रप्रमथनं सदा विजयवर्धनम् ॥ ३७.४॥
स्तम्भनं परसैन्यस्य रिपुनाशकरं सदा ।
विषग्रहक्षयकरं समस्ताभीष्टदायकम् ॥ ३७.५॥
सर्वशान्त्यधिकाराख्यं धर्मं वक्ष्ये शृणुष्व तम् ।
स शान्तिधारकस्त्र्यक्षो नागयज्ञोपवीतवान् ॥ ३७.६॥
- -
॥ अथ शान्त्यध्यायः १ ॥
चतुर्मुखश्चतुर्बाहुः सितभस्मावगुण्ठितः ।
वरो वरेण्यो वरदो वामदेवो महेश्वरः ॥ ३७.७॥
त्रैलोक्यनमितः श्रीमान् शान्तिमाशु करोतु मे ।
सर्वावयवमुख्येन गात्रेण तनुमध्यमा ॥ ३७.८॥
पीतश्यामातिसौम्येन शिवरूपेण शोभिता ।
ललाटतिलकोपेता चन्द्ररेखार्धधारिणी ॥ ३७.९॥
दिव्याम्बरधरादेवी सर्वाभरणभूषिता ।
वरस्त्री सर्वनारीणां शोभागुणमहास्पदा ॥ ३७.१०॥
भावनामात्रसन्तुष्टा उमा देवी वरप्रदा ।
साक्षादागत्य रूपेण शान्तानामिव तेजसा ॥ ३७.११॥
शान्तिं करोतु मे प्रीता भक्तानां भक्तवत्सला ।
पद्मरागद्युतिः सौम्यो रक्तमाल्यानुलेपनः ॥ ३७.१२॥
अबालो बालरूपेण षण्मुखः शिखिवाहनः ।
पूर्णेन्दुवदनः सौम्यस्त्रिशिखाशक्तिसंयुतः ॥ ३७.१३॥
कृत्तिकोमाग्निरुद्राङ्गगङ्गोद्भूतः सुरार्चितः ।
कार्तिकेयो महातेजा वरदानैकतत्परः ॥ ३७.१४॥
शान्तिं करोतु मे प्रीतो बलं सौख्यं च सर्वदा ।
महोदरो महाकायः स्निग्धाञ्जनसमप्रभः ॥ ३७.१५॥
एकदंष्ट्रोत्कटो देवो गजवक्त्रो महाबलः ।
नागयज्ञोपवीती च नागाभरणभूषितः ॥ ३७.१६॥
सर्वार्थसम्पदाघारो गणाध्यक्षो वरप्रदः ।
रुद्रस्य तनयो देवो नायकोऽथ विनायकः ॥ ३७.१७॥
करोतु मे महाशान्तिं कर्मसिद्धिं च सर्वदा ।
इन्द्रनीलनिभाक्षोऽग्निपशुशूलायुधोद्यतः ॥ ३७.१८॥
रक्ताम्बरधरः श्रीमान् कृष्णाङ्गो नागभूषणः ।
पापापनोदनः शुद्धस्त्वलक्ष्मीमलनाशनः ॥ ३७.१९॥
करोतु मे महाशान्तिं महाकालो महाबलः ।
पूतवस्त्रपरीधाना कन्या पुष्पैःस्वलङ्कृता ॥ ३७.२०॥
गणनाथाम्बिका त्र्यक्षा पुण्या गौरी सुरेश्वरी ।
सर्वसिद्धिप्रदा देवी प्रसादपरमा परा ॥ ३७.२१॥
शान्तिं करोतु मे शान्ता सिद्धिमाशु प्रयच्छतु
स्निग्धा श्यामलवर्णेन महिषासुरमर्दिनी ॥ ३७.२२॥
धनुश्चक्रप्रहरणा शङ्खयष्ट्यसिधारिणी ।
अतर्जनोद्यतकरा सर्वोपद्रवनाशिनी ॥ ३७.२३॥
सर्वमङ्गलमाता मे शिवमाशु प्रयच्छतु ।
निर्मांसेन शरीरेण सुस्नाय्वस्थिनिबन्धनः ॥ ३७.२४॥
अतिसूक्ष्मोऽतिविक्रान्तस्त्र्यक्षो भृङ्गिरिटिर्महान् ।
रुद्रात्मजो रुद्रवीरो रुद्रैकगतमानसः ॥ ३७.२५॥
सोऽपि शान्तात्मभावेन शान्तिमाशु करोतु मे ।
प्रचण्डगणसैन्येशो महाकालास्त्रधारकः ॥ ३७.२६॥
अक्षमालार्पितकरस्त्र्यक्षश्चण्डेश्वरः प्रभुः ।
प्रचण्डपापहरणो बृहस्पत्यादिशोधकः ॥ ३७.२७॥
करोतु मे महायोगी कल्याणं परमं शुभम् ।
पद्मासनः पद्मनिभश्चतुर्वदनपङ्कजः ॥ ३७.२८॥
कमण्डलुधरः श्रीमान् देवगन्धर्वपूजितः ।
शिवध्यानैकनिरतः शिवसद्भावभावितः ॥ ३७.२९॥
ब्रह्मशब्देन दिव्येन ब्रह्माशन्तिं करोतु मे ।
शङ्खकुन्देन्दुवर्णाभिः कण्ठे मरकतप्रभः ॥ ३७.३०॥
अक्षमालाशिरा उग्रशिवज्ञानव्यवस्थितः ।
चतुर्मुखश्चतुष्पादस्त्रिणेत्रः सर्वदोज्जवलः ॥ ३७.३१॥
क्षितेः पतिर्वृषो देवो धर्मो धर्मोत्तमोत्तमः ।
ईशं वहति पृष्ठेन तस्माद्धर्मो जगत्प्रभुः ॥ ३७.३२॥
वृषो वृषपतिश्रीमान् देवगन्धर्वपूजितः ।
शिवज्ञानैकसम्पन्नः शिवसद्भावभावितः ॥ ३७.३३॥
वृषशब्देन दिव्येन वृषः शान्तिं करोतु मे ।
तार्क्ष्यासनश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ ३७.३४॥
श्यामः पीताम्बरधरो वनमालाविभूषितः ।
यज्ञो देवोत्तमो देवो माधवो मधुसूदनः ॥ ३७.३५॥
शिवप्रसाद सम्पन्नः शिवध्यानपरायणः ।
शिवार्चनरतो नित्यं विष्णुः शान्तिं करोतु मे ॥ ३७.३६॥
पद्मरागप्रभो देवी चतुर्वदन पङ्कजा ।
अक्षमालार्पितकराकमण्डलुधरा शिवा ॥ ३७.३७॥
ब्रह्माणी सौम्यवदना शिवपूजापरायणा ।
शान्तिं करोतु मे प्रीता ब्रह्मशब्देन निर्मला ॥ ३७.२८॥
मयूरवाहना देवी सिन्दूरारुणविग्रहा ।
शक्तिहस्ता महारूपा सर्वाभरणभूषिता ॥ ३७.२९॥
रुद्रभक्ता महापुण्या रुद्रार्चनरता सदा ।
कौमारी वरदा देवी क्षेमारोग्यं ददातु मे ॥ ३७.३०॥
शङ्खचक्रगदाहस्ता श्यामा पीताम्बरप्रिया ।
चतुर्भुजा तार्क्ष्यरथा वैष्णवी सुरपूजिता ॥ ३७.३१॥
शिवार्चनरता भक्ता रुद्रैकगतमानसा ।
शान्तिं करोतु मे नित्यं सर्वासुरविमर्दिनी ॥ ३७.३२॥
हिमसेतुनिभा देवी महावृषभवाहिनी ।
त्रिशूलहस्ता वरदा नानाभरणभूषिता ॥ ३७.३३॥
रुद्रभक्ता महावीर्या रुद्रार्चनरता सदा ।
चतुर्भुजा चतुर्वक्त्रा त्रिणेत्रा पापहारिणी ॥ ३७.३४॥
आर्तिं हरतु मे प्रीता माहेशी नित्यमुज्ज्वला ।
वराहघोणविकटा वराहवरवाहना ॥ ३७.३५॥
श्यामाङ्गा वरदा देवी शङ्खचक्रगदाधरा ।
तर्जयन्ती सदा विघ्नान् अर्चयन्ती सदाशिवम् ॥ ३७.३६॥
वाराही वरदा देवी क्षेमारोग्यं ददातु मे ।
ऐरावतगजारूढा वज्रहस्ता महाबला ॥ ३७.३७॥
नेत्राणां च सहस्रेण भूषिता काञ्चनप्रभा ।
ऐन्द्रदेवी सदाकालं शान्तिमाशु करोतु मे ॥ ३७.३८॥
ऊर्ध्वकेशोत्कटा क्षामा निर्मांसस्नायुबन्धना ।
करालवदना घोरा खड्गखेटायुधोद्यता ॥ ३७.३९॥
कपालमालिनी देवी क्रूरा खट्वाङ्गधारिणी ।
आरक्तपिङ्गनयना गजचर्मावगुण्ठिता ॥ ३७.४०॥
नानानागपरीताङ्गी प्रेतोपरि निवासिनी ।
शिवरूपेण घोरेण शिवारावभयङ्करी ॥ ३७.४१॥
चामुण्डा चण्डरूपेण चित्रा त्रासयते ननु ।
भूतप्रेतपिशाचेभ्यो मम रक्षां करो तु सा ॥ ३७.४२॥
आकाशमातरो देव्यस्तथा भूलोकमातरः ।
भूतानां मातरः सर्वास्तथान्याः पितृमातरः ॥ ३७.४३॥
सर्वमातृगणा देव्यः स्वायुधव्यग्रपाणयः ।
जगद्व्याप्यावतिष्ठन्त्यो बलिकामा महादयाः ॥ ३७.४४॥
रुद्रभक्ता महावीर्या रुद्रार्चनपरायणाः ।
शान्तिं कुर्वन्तु मे नित्यं मातरः सुरपूजिताः ॥ ३७.४५॥
ये रुद्रा रौद्रकर्माणो रुद्रस्थाननिवासिनः ।
सौम्याश्चैव तु ये केचित् सौम्यस्थाननिवासिनः ॥ ३७.४६॥
मातरो रुद्ररूपाश्च गणानामधिपाश्च ये ।
विघ्नभूतास्तथैवान्ये दशदिक्षु समाचि(श्रि)ताः ॥ ३७.४७॥
सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ ३७.४८॥
ईश्वर उवाच ।
माध्यामद्यं च शान्तिं सुत तति धनगो वाजिमातङ्गयूथे-
राष्ट्रे ग्रामे पुरे वा सुविहितमधुना शान्तिदाः सन्तु सर्वाः ॥ ३७.४९॥
॥ इति शान्त्यध्यायः १ ॥
॥ अथ शान्त्यध्यायः २ ॥
(दिशाशान्तिः)
सिद्धिं पुष्णन्तु मे नित्यं भयेभ्यः पान्तु मां सदा ।
ऐन्द्र्यां दिशि गणा ये तु वज्रहस्ता महाबलाः ॥ ३८.१॥
सुपीताक्षा पीतनिभास्तथा वै पीतलोहिताः ।
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ॥ ३८.२॥
रुद्रार्चनरता नित्यं शान्तिं कुर्वन्तु मे सदा ।
आग्नेय्यां ये गणाः सर्वे शक्तिहस्ता निषङ्गिणः ॥ ३८.३॥
शिवप्रणामपरमाः शान्तिं कुर्वन्तु मे सदा ।
याम्यां दिशि गणाः ये तु सततं दण्डपाणयः ॥ ३८.४॥
सुकृष्णाक्षाः कृष्णनिभास्तथा वै कृष्णलोहिताः ।
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ॥ ३८.५॥
परमेशार्चनरताः शान्तिं कुर्वन्तु मे सदा ।
निरृत्यां ये गणाः सर्वे राक्षसाः खड्गपाणयः ॥ ३८.६॥
सुनीलाक्षा नीलनिभास्तथा वै नीललोहिताः ।
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ॥ ३८.७॥
रुद्रैकध्यान निरताः शान्तिं कुर्वन्तु मे सदा ।
वारुण्यां ये गणाः सर्वे सततं पाशपाणयः ॥ ३८.८॥
सश्यामाक्षाः श्यामनिभास्तथा वै श्यामलोहिताः ।
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ॥ ३८.९॥
परमेशार्चनरताः शान्तिं कुर्वन्तु मे सदा ।
वायव्यां ये गणाः सर्वे सततं ध्वजपाणयः ॥ ३८.१०॥
सूधूम्राक्षा धूम्रनिभास्तथा वै धूम्रलोचनाः ।
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ॥ ३८.११॥
शिवभक्तिपराः सर्वे क्षेमं कुर्वन्तु मे सदा ।
कौबेर्यां ये गणाः सर्वे सततं निधिपाणयः ॥ ३८.१२॥
सुपीताक्षाः पीतनिभास्तथा वै पीतलोहिताः ।
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ॥ ३८.१३॥
शिवभक्तिपराः सर्वे क्षेमं कुर्वन्तु मे सदा ।
ईशान्यां ये गणाः सर्वे प्रशान्ताः शूलपाणयः ॥ ३८.१४॥
सुसूक्ष्माक्षाः सूक्ष्मनिभास्तथा वै सूक्ष्मलोहिताः ।
दिव्यान्तरिक्ष भौमाश्च पातालतलवासिनः ॥ ३८.१५॥
रुद्रप्रणामपरमाः शान्तिं कुर्वन्तु मे सदा ।
अधोभागे गणा ये तु सततं चक्रपाणयः ॥ ३८.१६॥
सुधूम्राक्षा धूम्रनिभास्तथा वै धूम्रलोहिताः ।
दिव्यान्तरिक्षभौमाश्च पातालतलवसिनः ॥ ३८.१७॥
शिवभक्तिरताः सर्वे शान्तिं कुर्वन्तु मे सदा ।
ऊर्ध्व भागे स्थिता ये तु सततं पद्मपाणयः ॥ ३८.१८॥
सुपद्माक्षाः पद्मनिभास्तथा वै पद्मलोहिताः ।
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ॥ ३८.१९॥
शिवपूजासमायुक्ताः शान्तिं कुर्वन्तु मे सदा ।
एते गणा महात्मानो महाबलपराक्रमाः ॥ ३८.१९॥
शिवं सम्पूज्य यत्नेन स्वं स्वं पदमवापिरे ।
ततः सुप्रीतमनसः शान्तिमायुर्बलं श्रियम् ॥ ३८.२१॥
प्रयच्छन्त्वाशु मर्त्यानां तद्भक्तानां विशेषतः ।
नाम्नाऽमरावती पूज्या पूर्वभागे व्यवस्थिता ॥ ३८.२२॥
विद्याधरगणाकीर्णा सिद्धगन्धर्वसेविता ।
रत्नप्राकाररचिता महारत्नोपशोभिता ॥ ३८.२३॥
तत्र देवपतिः श्रीमान् वज्रहस्तो महाबलः ।
नेत्राणां तु सहस्रेण शोभनेन विराजितः ॥ ३८.२४॥
ऐरावतगजारूढो हेमवर्णो महाद्युतिः ।
देवेन्द्रः परमो हृष्टः परमेशार्चने रतः ॥ ३८.२५॥
शिवध्यानैकसम्पन्नः शिवभक्तिपरायणः ।
शिवभक्तैस्तथा चान्यैर्देवैरिह सहानुगैः ॥ ३८.२६॥
शिवप्रणामपरमः करोतु मम शान्तिकम् ।
आग्नेय्यास्तु दिशोभागे पुरी तेजोवती शुभा ॥ ३८.२७॥
नानादेवगणाकीर्णा रत्नज्वालासमाकुला ।
तत्र ज्वालापरीताङ्गो दीप्त्याङ्गारसमद्युतिः ॥ ३८.२८॥
भूतिकृद्देहिनां देवो ज्वलनः पापनाशनः ।
शिवपूजासमायुक्तः शिवध्यानविभावितः ॥ ३८.२९॥
शान्तिं करोतु मे देवस्तथा पापपरिक्षयम् ।
वैवस्वतपुरीनाम दक्षिणस्यां व्यवस्थिता ॥ ३८.३०॥
लोहप्राकारसंयुक्ता प्रासादैर्गोपुरैः शुभा ।
सुरासुरशतानीकपितृयक्षोरगालयः ॥ ३८.३१॥
तत्रेन्द्रनीलसङ्काशो रत्नस्रग्वस्त्रभूषणः ।
खड्गपाणिर्महातेजाः करालवदनोज्जवलः ॥ ३८.३२॥
राक्षसेन्द्रश्च निरृतिः शिवार्चनरतः सदा ।
करोतु मे महाशान्तिं शिवभक्तिसमुत्सुकः ॥ ३८.३३॥
पश्चिमे तु दिशो भागे पुरी शुद्धवती (शुद्धिमती) शुभा ।
नानारत्नसमाकीर्णा नानाकिन्नरसेविता ॥ ३८.३४॥
तेजः प्राकारसङ्कीर्णा निरौपम्या सदोज्ज्वला ।
तत्र मौक्तिकसङ्काशः परिपिङ्गललोचनः ॥ ३८.३५॥
श्वेतवस्त्रपरीधानः पाशहस्तो महाद्युतिः ।
वरुणः परया भक्त्या शिवैकाऽऽहितमानसः ॥ ३८.३६॥
रोगशोकार्तिसन्तापं विनाशयतु मे सदा ।
वायव्ये तु दिशो भागे पुरीगन्धवती शुभा ॥ ३८.३७॥
ऋषिसिद्धगणाकीर्णा हेमप्राकारतोरणा ।
तथा धूम्रेण देहेन कृष्णपिङ्गललोचनः ॥ ३८.३८॥
पटवासान्तरालीनो ध्वजयष्ट्यायुधोज्ज्वलः ।
पवनः परमो देवः परमेश्वरभावितः ॥ ३८.३९॥
क्षेमारोग्यबलं शान्तिं करोतु मम सर्वदा ।
महोदया नाम पुरी उत्तरेण व्यवस्थिता ॥ ३८.४०॥
अनेकयक्षसङ्कीर्णा नानारत्नोपशोभिता ।
तत्र देवो गदाहस्तश्चित्रस्रग्वस्त्रभूषणः ॥ ३८.४१॥
ह्रस्वबाहुर्महातेजाः परिपिङ्गललोचनः ।
कुबेरः श्रीमुखः श्रीमान् हरपादार्चने रतः ॥ ३८.४२॥
शान्तिं करोतु मे प्रीतः शमशान्तेन चेतसा ।
यशोवती पुरी रम्या ऐशान्यां दिशि संस्थिता ॥ ३८.४३॥
नानागणसमकीर्णा नानाकृतसुरालया ।
तेजःप्राकारपर्यन्ता निरौपम्यगुणान्विता ॥ ३८.४४॥
तत्र मौक्तिकसङ्काशः शशाङ्ककृतशेखरः ।
त्रिणेत्रः शान्तरूपात्मा ह्यक्षमालाधरो हरः ॥ ३८.४५॥
ईशानः परमो देवः शिवध्यानैकतत्परः ।
सोऽपि सर्वात्मभावेन शान्तिमाशु करोतु मे ॥ ३८.४६॥
ईश्वर उवाच ।
शान्ताः शिवार्चनरताः शिवपादसक्ताः
युक्ता मखायुतफलैर्वरभस्मभूषाः ।
रुद्राक्षवक्षस इमे शिवलिङ्गभक्ता
एते मदर्चनफलेन गणातामुपेताः ॥ ३८.४७॥
॥ इति शान्त्यध्यायः २ ॥
॥ अथ शान्त्यध्यायः ३ ॥
(लोकशान्तिः)
भूलोके च भुवर्लोके स्वर्लोके च वसन्ति ये ।
देवदिव्यप्रभायुक्ताः शान्तिं कुर्वन्तु मे सदा ॥ ३९.१॥
महर्लोके जनोलोके तपोलोके च संस्थिताः ।
ते तु प्रमुदिता देवाः शान्तिं कुर्वन्तु मे सदा ॥ ३९.२॥
सत्यलोके च ये देवाः प्रभाज्वलितविग्राः ।
शिवभक्ताः सुमनसः भयार्तिं नाशयन्तु मे ॥ ३९.३॥
तपोलोके च ये देवाः शुद्धाः स्फटिकविग्रहाः ।
रुद्रभक्ता महात्मानः शिवं कर्वन्तु मे सदा ॥ ३९.४॥
जनोलोके च ये देवा धौतचामीकरप्रभाः ।
ईशानं प्रणता नित्यं शान्तिं कुर्वन्तु मे सदा ॥ ३९.६॥
भुवर्लोके च ये देवा भासयन्तो दिशो दश ।
शिवैकशरणा देवाः पापं प्रशमयन्तु मे ॥ ३९.७॥
(गिरिकन्दरादिशान्तिः)
गिरिकन्दरदुर्गेषु निवसन्ति च ये नराः ।
रुद्रार्चनरता नित्यं शान्तिं कुर्वन्तु मे सदा ॥ ३९.८॥
(देवीभ्यः शान्तिप्रार्थना)
शरच्चन्द्रांशुगौरेण देहेनामिततेजसा ।
सरस्वती शिवे भक्ता शान्तिमाशु करोतु मे ॥ ३९.९॥
चारुचामीकरप्रख्या सरोजकरपल्लवा ।
शिवभक्ता च श्रीदेवी श्रीमद्भुक्तिं ददातु मे ॥ ३९.१०॥
चारुणा मुखचन्द्रेण विचित्रकनकोज्ज्वला ।
जया देवी शिवे भक्ता सर्वान् कामान् ददातु मे ॥ ३९.११॥
हारेण सुविचित्रेण भास्वत्कनकमेखला ।
अपराजिता रुद्रभक्ता करोतु विजयं मम ॥ ३९.१२॥
(ग्रहशान्तिः)
सिन्दूरारुणवर्णेन देहेनायतलोचनः ।
सहस्रकिरणः श्रीमान् सप्तसप्तिकवाहनः ॥ ३९.१३॥
गभस्तिमाली भगवान् शिवपादार्चने रतः ।
करोतु मे महाशान्तिं ग्रहपीडानिवारणम् ॥ ३९.१४॥
जगदाप्यायनकरोऽप्यमृतांशुः सुशीतलः ।
सोमः सौम्येन भावेन ग्रहपीडां व्यपोहतु ॥ ३९.१५॥
पद्मरागेण देहेन देवः पिङ्गललोचनः ।
अङ्गारकस्तु सततं रुद्रपूजापरायणः ॥ ३९.१६॥
रुद्रसद्भावसम्पन्नो रुद्रध्यानैकतत्परः ।
ग्रहपीडाभयं सर्वं विनाशयतु मे सदा ॥ ३९.१७॥
कुङ्कुमछविना श्रीमान् देहेनाऽऽरक्तपिङ्गलः ।
बुधोऽपि शिवधामात्मा ग्रहपीडां व्यपोहतु ॥ ३९.१८॥
तप्तचामीकराभो यः सर्वज्ञानसुधालयः ।
बृहस्पतिः सदाकालमीश्वरार्चनतत्परः ॥ ३९.१९॥
सोऽपि शान्तात्मचित्तेन परमेण समाधिना ।
ग्रहपीडां विनिर्जित्य करोतु विजयं मम ॥ ३९.२०॥
हिमकुन्देन्दुतुल्याभोऽसुरदैत्येन्द्रपूजितः ।
शुक्रः शिवार्चको नित्यं ग्रहपीडां व्यपोहतु ॥ ३९.२१॥
भिन्ना(नीला)ञ्जनसमच्छायः सुरक्तनयनद्युतिः ।
शनैश्चरः शिवे भक्तः ग्रहपीडां व्यपोहतु ॥ ३९.२२॥
धूम्रायमाणः सततं सर्वोत्पातसमन्वितः ।
नीलाञ्जनसमः श्रीमान् सैह्मिकेयो महाद्युतिः ॥ ३९.२३॥
शिवपूजारतो राहुः ग्रहपीडां व्यपोहतु ।
धूम्रायमाणः सततं सर्वोत्पातसमन्वितः ॥ ३९.२४॥
शिवार्चनरतः केतुर्ग्रहपीडां व्यपोहतु ।
एते ग्रहा महात्मानः शिवार्चनपरायणाः ॥ ३९.२५॥
शान्तिं कुर्वन्तु मे हृष्टाः सदाकालं हितैषिणः ।
मुखे यस्य स्थितो नित्यं व्युष्टिर्नाम महाबलः ॥ ३९.२६॥
सुमुख विघ्नकारी च पृष्ठे च विजयङ्करः ।
रुद्रप्रणामपरमः शान्तिमाशु करोतु मे ॥ ३९.२७॥
(तिथिशान्तिः)
तृतीया सप्तमी चैव दशमी च चतुर्दशी ।
चतुर्थी चाष्टमी चैव एकादशी च पूर्णिमा ॥ ३९.२८॥
एता विघ्नकरा भक्ताः शुक्लकृष्णसमुद्भवाः ।
भवन्तु मे श्रियो नित्यं कुर्वन्तु विजयं सदा ॥ ३९.२९॥
अमावास्या महापुण्या पितृदेवसमन्विता ।
शिवा ह्येषा तु परमा शिवस्य परमात्मनः ॥ ३९.३०॥
शिवतेजः समायुक्ताः करोतु मम शान्तिकम् ।
प्रतिपद्वह्निसंयुक्ता अष्टमी रुद्र(आर्द्रा)संयुता ॥ ३९.३१॥
नवमी तिथिरत्युग्रा दुर्गादेव्यधिदेवता ।
दशमी धर्मसंयुक्ता रुद्रेणैकादशीयुता ॥ ३९.३२॥
द्वादशी विष्णुसंयुक्ता मदनेन त्रयोदशी ।
चतुर्दशी महेशेन पूर्णिमा तुहिनांशुना ॥ ३९.३३॥
एतस्तु तिथयः सर्वा ईशानार्चनतत्पराः ।
शान्तिं कुर्वन्तु मे नित्यं सदाकालं हितैषिणः ॥ ३९.३४॥
(योगशान्तिः)
विष्कम्भः प्रीतिरायुष्मान् सौभाग्यं शोभनं तथा ।
अतिगण्डः सुकर्मा च धृतिः शूलस्तथैव च ॥ ३९.३५॥
गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ।
वज्रंसिद्धिर्व्यतीपातो वरीयान् परिघः शिवः ॥ ३९.३६॥
सिद्धः साध्यः शुभः शुभ्रो ब्राह्ममाहेन्द्रवैधृताः ।
चन्द्रस्य भानोरुत्पन्ना ये ते योगा महाबलाः ॥ ३९.३७॥
शिवशक्तियुताः सर्वे शिवशक्तिविधायिनः ।
शान्तिं कुर्वन्तु मे नित्यं शिवध्यानपरायणाः ॥ ३९.३८॥
(नक्षत्रशान्तिः)
कृत्तिका परमा देवी रोहिणी रुचिरानना ।
श्रीमान् मृगशिरा भद्रा आर्द्रा च परमोज्ज्वला ॥ ३९.३९॥
पुनर्वसुस्तथा पुष्य आश्लेषा च महोज्ज्वला ।
नक्षत्रमातरो ह्येताः प्रभामालावभासकाः ॥ ३९.४०॥
महादेवार्चनरता महादेवानुभाविताः ।
पूर्वभागे स्थिताश्चैताः शान्तिं कुर्वन्तु मे सदा ॥ ३९.४१॥
मघा सर्वगुणोपेता पूर्वा चैव तु फल्गुनी ।
उत्तरा फल्गुनी चेष्टा हस्तचित्ररथोत्तमा ॥ ३९.४२॥
स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिता ।
अर्चयन्त्यः सदा कालं देवं त्रिणयनं प्रभुम् ॥ ३९.४३॥
ममापि शान्तिं चैवैताः कुर्वन्तु शिवचोदिताः ।
अनूराधा तथा ज्येष्ठा मूला बुद्धिसमत्विता ॥ ३९.४४॥
पूर्वाषाढा महावीर्या आषाढात्युत्तरा शुभा ।
अभिजिन्नाम नक्षत्रं श्रवणं परमोत्तमम् ॥ ३९.४५॥
एताः पश्चिमतो दीप्ताः राजन्त्यश्चारुमूर्तयः ।
ईशानं पूजयन्त्येताः सर्वकालं सुमैः शिवे ॥ ३९.४६॥
प्रशान्तिं मम कुर्वन्तु विभूतिं च समाहिताः ।
श्रविष्ठा शतभिषक् चैव पूर्वा भाद्रपदा तथा ॥ ३९.४७॥
उत्तरा भाद्ररेवत्यावश्विनी च महर्धिका ।
भरणी च महावीर्यां नित्यमुत्तरतः स्थिताः ॥ ३९.४८॥
शिवार्चनरता नित्यं शिवैकगतमानसाः ।
शान्तिं कुर्वन्तु मे नित्यं सर्वकालं सुखोदयाः ॥ ३९.४९॥
(राशिशान्तिः)
अथ मेषो मृगाधीशो धनुर्दीप्तिमतां वरः ।
पूर्वेण भासयन्त्येते शिवपूजापरायणाः ॥ ३९.५०॥
शान्तिं कुर्वन्तु मे नित्यं बलं सौभाग्यमेव च ।
वृषः कन्या च वरदा मकरश्च महार्थकः ॥ ३९.५१॥
हरपादरता नित्यं शिवभावेन भाविताः ।
एते दक्षिणदिक्संस्थाः पूजयन्ति सदाशिवम् ॥ ३९.५२॥
भक्त्या च परया नित्यं शान्तिं कुर्वन्तु मे सदा ।
मिथुनं च तुलाकुम्भौ पश्चिमस्यां दिशि स्थिताः ॥ ३९.५३॥
शिवपादार्चनरताः शान्तिं कुर्वन्तु मे सदा ।
कर्कटो वृश्चिको मीनो ह्येते उत्तरतः स्थिता ॥ ३९.५४॥
यजन्त्येते सदा कालं रुद्रं भुवननायकम् ।
शान्तिं कुर्वन्तु मे नित्यं शिवज्ञानविधायिनः ॥ ३९.५५॥
(ऋषिशन्तिः)
ऋषयः सत्य विख्याता ध्रुवान्ताः परमेज्ज्वलाः ।
भस्मरुद्राक्षभूषाढ्या त्रिपुण्ड्रपरिमण्डिताः ॥ ३९.५६॥
शिवलिङ्गार्चनपरास्त्रिकालममितौजसः
कश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनि ।
भृगुर्दक्षो वसिष्ठश्च मृकण्डुः पुलहः क्रतुः
नारदो मुनिरत्रिश्च भरद्वाजोऽङ्गिराः मुनिः ॥ ३९.५८॥
वाल्मीकिः कौशिकः कर्णः शाकल्योऽथ पुनर्वसुः ।
शाकलायन(आश्वलायन) इत्याद्या मुनयोऽथ तपस्विनः ॥ ३९.५९॥
शिवध्यानार्चनोद्युक्ताः शान्तिं कुर्वन्तु मे सदा ।
ऋषिपत्न्यो महाभागाः ऋषिकन्याः कुमारकाः ॥ ३९.६०॥
शिवार्चनरता नित्यं शान्तिं कुर्वन्तु मे सदा ।
कुर्वन्तु शान्तिं विविधां सुरोत्तमाः ।
शिवार्चका भस्मत्रिपुण्ड्रभूषिताः ।
लिङ्गार्चकाः शाश्वतधर्मयुक्ताः
युक्ता भवन्त्येव शिवप्रसादात् ॥ ३९.६१॥
॥ इति शान्त्यध्यायः ३ ॥
॥ अथ शान्त्यध्यायः ४ ॥
ईश्वर उवाच ।
(सिद्धगन्धर्वादि शान्तिः)
सिद्धाश्च सिद्धतपसो गन्धर्वाप्सरसां गणाः ।
विद्याधरा महात्मानो गरुडश्च महार्थकः ॥ ४०.१॥
महेश्वरपरा ह्येते महेश्वरपदार्चकाः ।
सिद्धिमाशु प्रयच्छन्तु शिवधर्मपरायणाः ॥ ४०.२॥
नमुचिर्दैत्यराजेन्द्रः शम्भुपूजापरायणः ।
महानादोऽपि विख्यातो दैत्यः परमवीर्यवान् ॥ ४०.३॥
हाटकेश्वरदेवस्य नित्यं पूजापरायणः ।
बलं वीर्यं च मे क्षिप्रं प्रयच्छन्तु महार्थकाः ॥ ४०.४॥
(दैत्यशान्तिः)
महाजम्भोहयग्रीवः प्रह्लादो दैत्यपुङ्गवः ।
तारकाग्निमुखा दैत्या कालनेमिर्महाबलः ॥ ४०.५॥
एते दैत्या महात्मानः शिवसद्भावभाविताः ।
पुष्टिं बलं तथा वीर्यं प्रयच्छन्तु च मे सुखम् ॥ ४०.६॥
वैरोचनो हिरण्याक्षः सुपर्वा च सुलोमकः ।
मुचुकुन्दः सुकण्ठश्च दैत्यो रोचनकस्तथा ॥ ४०.७॥
भावेन परमेणाशु यजन्तः सर्वदा शिवम् ।
सततं शितभावेन पुष्टिं कुर्वन्तु मे सदा ॥ ४०.८॥
(नागशान्तिः)
आरक्तेन शरीरेण रक्तान्तायतलोचनः ।
महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः ॥ ४०.९॥
अनलो नागराजेन्द्रः शिवपादार्चने रतः ।
महापापविषं हृत्वा शान्तिमाशु करोतु मे ॥ ४०.१०॥
सुखेन सुशरीरेण सुश्वेतोत्पलशेखरः ।
चारुभोगकृताटोपश्चारुहारविभूषणः ॥ ४०.११॥
वासुकिर्नागराजेन्द्रः शिवपादार्चने रतः ।
सर्वरोगविषं हृत्वा क्षेमारोग्यं ददातु मे ॥ ४०.१२॥
अतिप्रीतेन देहेन प्रस्फुरद्भोगसम्पदा ।
तेजसा चातिदीप्तेन कृतस्वस्तिकलक्षणः ॥ ४०.१३॥
नागेन्द्रस्तक्षकः श्रीमान्नागकोट्या समन्वितः ।
विषशस्त्रादिसन्तापं हत्वा शान्तिं करोतु मे ॥ ४०.१४॥
पद्मवर्णेन देहेन पद्मपत्रायतेक्षणः ।
पद्मबिन्दुकृताभासो ग्रीवायामेकरेखया ॥ ४०.१५॥
ख्यातः पद्मो महानागः शिवपादार्चनेरतः ।
करोतु मे महाशान्तिं महापापविषक्षयम् ॥ ४०.१६॥
पुण्डरीकनिभेनापि देहेनामिततेजसा ।
शङ्खशूलाब्जरुचिरैर्भूषितो मूर्ध्नि बिन्दुभिः ॥ ४०.१७॥
महापद्मो महानागो हरपादार्चने रतः ।
विनिहत्य विषं घोरं शान्तिमाशु करोतु मे ॥ ४०.१८॥
शङ्खपालः श्रिया दीप्तः शिवपादाब्जपूजकः ।
महाविषं महाघोरं शान्तिमाशु करोतु मे ॥ ४०.२०॥
अतिगौरेण देहेन चन्द्रार्धकृतशेखरः ।
दीप्तभोगः कृताटोपः शम्भुलक्षणलक्षितः ॥ ४०.२१॥
गुलिको नागराजेन्द्रो नित्यं हरपरायणः ।
अपहृत्य विषं घोरं करोतु विषशान्तिकम् ॥ ४०.२२॥
अन्तरिक्षे च ये नागा ये नागा भुवि संस्थिताः ।
पाताले संस्थिता नागाः सर्वेऽप्यत्र समन्विताः ॥ ४०.२३॥
रुद्रपादार्चनोद्युक्ताः शान्तिं कुर्वन्तु मे सदा ।
नागिन्यो नागकन्याश्च तथा नागकुमारिकाः ॥ ४०.२४॥
शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा ।
य इदं नाग संस्थानं कीर्तयेद्वा श्रृणोति वा ॥ ४०.२५॥
न तं नागा विहिंसन्ति विषं नाक्रमते सदा ।
गङ्गा पुण्या महादेवी यमुना नर्मदा नदी ॥ ४०.२६॥
(नदीशान्तिः)
गोमती चापि कावेरी वरुणा देवकी तथा ।
सर्वभूतपतिं देवं परमेशं महेश्वरम् ॥ ४०.२७॥
पूजयन्ति सदा नद्यस्सदा तद्भावभाविताः ।
शान्तिं कुर्वन्तु मे नित्यं सदा पापपरीक्षकाः ॥ ४०.२८॥
चन्द्रभागा महापुण्या नदी गोदावरी शुभा ।
सरयूः गण्डकी श्रेष्ठा कौशिकी च सरस्वती ॥ ४०.२९॥
पम्पा वेगवती पुण्या श्रेष्ठा विष्णुनदी तथा ।
एता नद्यो महाभागाः शिवपादार्चने रताः ॥ ४०.३०॥
शान्तिं कुर्वन्तु मे नित्यं शिवध्यानैकमानसाः ।
नैरञ्जना नाम नदी शोणश्चापि महाह्रदः ॥ ४०.३१॥
मन्दाकिनी च परमा सदा सन्निहिता शुभा ।
एताश्चान्या महानद्यो भूमिदिव्यन्तरिक्षगाः ॥ ४०.३२॥
रुद्रार्चनपरा नद्यः कुर्वन्तु मम शान्तिकम् ।
गुह्यानि यानि तीर्थानि आसमुद्रात्सरांसि च ॥ ४०.३३॥
कुर्वन्तु शान्तिकं तानि कीटकाधिष्ठितानि च ।
(यक्षादिशान्तिः)
महावैश्रवणो देवो यक्षराजो महार्धिकः ॥ ४०.३४॥
यक्षकोटिपरीवारः यक्षाऽसङ्ख्येय संयुतः ।
महाविभवसम्पन्नो हरपादार्चने रतः ॥ ४०.३५॥
शान्तिं करोतु मे प्रीतः पद्मपत्रायतेक्षणः ।
माणिभद्रो महायक्षो मणिरत्नविभूतः ॥ ४०.३६॥
मनोहरेण हारेण कण्ठलग्नेन राजते ।
शिवध्यानपरो नित्यं शिवपादाब्जपूजकः ॥ ४०.३७॥
शान्तिं करोतु मे नित्यं सर्वरोगनिवारणम् ।
यक्षिणी यक्षकन्याभिः परिवारितविग्रहा ॥ ४०.३८॥
रुद्रार्चनरता नित्यं करोतु मम शान्तिकम् ।
सुवीरो नाम यक्षेन्द्रो मणिकुण्डलभूषणः ॥ ४०.३९॥
ललाटहेमपट्टेन शोभनेन विराजितः ।
बहुयक्षसमाकीर्णो यक्षैर्नमितविग्रहः ॥ ४०.४०॥
शिवपूजारतो नित्यं करोतु मम शान्तिकम् ।
पञ्चगो नाम यक्षेन्द्रः कर्णिकाकटकोज्ज्वलः ॥ ४०.४१॥
मकुटेन विचित्रेण केयूराभ्यां विराजितः ।
यक्षकन्यासमायुक्तो यक्षकोटिसमन्वितः ॥ ४०.४२॥
हरार्चनरतः श्रीमान् करोतु मम शान्तिकम् ।
श्रीमान् विभण्डको यक्षो नानारत्नविभूषितः ॥ ४०.४३॥
चारुकुण्डलयुग्मेन कर्णे नित्यं विराजितः ।
यक्षेन्द्रो यक्षनमितो यक्षसेनापतिर्बुधः ॥ ४०.४४॥
हरपादार्चनरतः करोतु मम शान्तिकम् ।
धृतराष्ट्रो महातेजाः यक्षो यक्षाधिपः प्रभुः ॥ ४०.४५॥
दिव्यपट्टांशुकछन्नो मणिकाञ्चनभूषणः ।
शिवप्रसादसमपन्नः करोतु मम शान्तिकम् ॥ ४०.४६॥
शिवप्रसादसम्पन्नः करोतु मम शान्तिकम् ।
पूर्णभद्रो महायक्षो सर्वालङ्कारभूषितः ॥ ४०.४७॥
रत्नदीप्तेन देहेन पट्टेनातिविराजितः ।
यक्षकोटिसहस्रेण परिवारितविग्रहः ॥ ४०.४८॥
रुद्रप्रणामपरमो रुद्रभक्तिसमन्वितः ।
रुद्रार्चनसमायुक्तः करोतु मम शान्तिकम् ॥ ४०.४९॥
विरूपाक्षश्च यक्षेन्द्रः श्वेतवासा महाद्युतिः ।
चारुकाञ्चनमालाभिः किङ्किणीरवकाञ्चितः ॥ ४१.१॥
विभूषितः सदाकालं वरदानैकतत्परः ।
रुद्रपूजाकरो नित्यं करोतु मम शान्तिकम् ॥ ४१.२॥
अन्तरिक्षे च ये यक्षा ये यक्षाः सर्वसंस्थिताः ।
गिरिकन्दरदुर्गेषु ये यक्षा भूतिवासिनः ॥ ४१.३॥
पातालवासिनो यक्षा नानारूपायुधोद्यताः ।
शिवभक्ताः सुमनसः शिवपूजासमुत्सुकाः ॥ ४१.४॥
शान्तिं कुर्वन्तु मे हृष्टाः शान्ताः शान्तेन तेजसा ।
यक्षिण्यो विविधाकारास्तथा यक्षकुमारकाः ॥ ४१.५॥
यक्षकन्या महाभागाः शिवध्यानैकतत्पराः ।
शान्तिं स्वस्त्ययनं क्षेमं बलं कल्याणमेव च ॥ ४१.६॥
शान्तिं कुर्वन्तु सर्वे हरपदकमलोदारभावैक भृङ्गा
यक्षास्त्र्यक्षपदाम्बुजार्चनरता नागाःसदा पान्तु माम् ।
सद्योजातप्रियाभिः गिरिवरजनिता पुण्यनद्योऽपि सद्यः
पापं मे प्रविनाशयन्तु सततं शर्वार्चनासूद्यताः ॥ ४०.५०॥
॥ इति शान्त्यध्यायः ४ ॥
॥ अथ शान्त्यध्यायः ५ ॥
ईश्वर उवाच ।
(पर्वतसागरौशान्तिः)
सिद्धिमाशु प्रयच्छन्तु नित्यमेव समाहिताः ।
पर्वताः सर्वतः सर्वे पर्वत्यश्च महर्धिकाः ॥ ४१.७॥
शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा ।
समुद्राः सरितः सर्वे सागराश्च महर्धिकाः ॥ ४१.८॥
रत्नगर्भाश्च विविधा ये चान्ये सागरा भुवि ।
रुद्रपूजापरा नित्यं कुर्वन्तु मम शान्तिकम् ॥ ४१.९॥
(राक्षसशान्तिः)
राक्षसाः सर्वतः सर्वे राक्षसा घोरारूपिणः ।
राक्षसा ये महावीर्या राक्षसाश्च महाबलाः ॥ ४१.१०॥
स्थलस्था राक्षसा ये च अन्तरिक्षे च राक्षसाः ।
पाताले राक्षसा ये तु नित्यं रुद्रार्चने रताः ॥ ४१.११॥
(प्रेतपिशाचादिशन्तिः)
भैरवं यस्य रूपं तु प्रेतभस्मावगुण्ठितम् ।
अनेकरूपधारिण्यो डाकिन्यश्च महाबलाः ॥ ४१.१२॥
अन्तरिक्षगता याश्च डाकिन्यः स्वर्गसंस्थिताः ।
पाताले भूतले याश्च गिरिदुर्गेषु याः स्थिताः ॥ ४१.१३॥
रुद्रप्रणामपरमा रुद्रपूजापराः स्थिताः ।
तृतीयं लोचनं खड्गं त्रिशूलं करपल्लवे ॥ ४१.१४॥
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
सर्वतो भूतरूपाढ्या महाभूता महोज्ज्वलाः ॥ ४१.१५॥
सर्वभूतस्थिताः सौम्याः सर्वे भूता मनोजवाः ।
अन्तरिक्षे च ये भूता ये भूता भुवि संस्थिताः ॥ ४१.१६॥
पाताले भूतले भूता ये च भूतास्त्रिघामकाः ।
खट्वाङ्गं यस्य विमलं कपालं करपल्लवे ॥ ४१.१७॥
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
प्रेताः प्रेतगणाः सर्वे सुप्रीताः सर्वतोमुखम् ॥ ४१.१८॥
अन्तरिक्षे च ये प्रेता ये प्रेता दिवि संस्थिताः ।
पाताले भूतले चैव ये प्रेताः कामरूपिणः ॥ ४१.१९॥
श्मशानं निलयो यस्य वृषभो यस्य वाहनम् ।
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ॥ ४१.२०॥
ये पिशाचा महावीर्या ये पिशाचा महर्धिकाः ।
ये पिशाचा भीषणाश्च पिशाचाः कामरूपिणः ॥ ४१.२१॥
नानारूपधराः सर्वे सर्वे सत्त्वगुणोत्तराः ।
अन्तरिक्षे पिशाचा ये स्वर्गे ये च पिशाचकाः ॥ ४१.२२॥
भूतले ये पिशाचा ये पातालतलवासिनः ।
चन्द्रार्धं मस्तके यस्य यस्य भस्म विभूषणम् ॥ ४१.२३॥
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
अपस्मारग्रहाः सर्वे सर्वे चापि ज्वरग्रहाः ॥ ४१.२४॥
गर्भबालग्रहा ये तु नानारोगग्रहाश्च ये ।
अन्तरिक्षे ग्रहा ये च स्वर्गे ये च ग्रहोत्तराः ॥ ४१.२५॥
पाताले भूतले ये च ये ग्रहाः सर्वतो दिशः ।
कण्ठे यस्य महानीलं भूषणं यस्य पन्नगाः ॥ ४१.२६॥
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
इति देवादयः सर्वे शिवज्ञानविधायिनः ॥ ४१.२७॥
कुर्वन्तु शान्तिं जगतः शिवभक्तेषु सर्वदा ।
- -
शिवज्ञानपरो भूत्वा स्तुत्वैवं शिवभक्तकान् ॥ ४१.२८॥
शिवध्यानपरो भूत्वा एतत्स्तोत्रमुदीरयेत् ।
इत्युक्त्वा देवदेवस्य सन्निधौ नन्दिकेश्वरः ॥ ४१.२९॥
कृताञ्जलिपुटो भूत्वा देवं तुष्टाव हृष्टधीः ।
नन्दिकेश्वर उवाच ।
- -
जयात्मयोगसंस्थाय जय संशुद्धचेतसे ॥ ४१.३०॥
जयदानेकरूपाय जयेशाय नमोऽस्तु ते
जयोत्तमाय देवाय जयकल्याणरूपिणे ॥ ४१.३१॥
जय प्रणष्टमोहाय जयाजय्याय ते नमः ।
जय शर्वाय देवाय सर्वेशाय महात्मने ॥ ४१.३२॥
जयलक्ष्मीविधानाय जय कीर्तिविधायिने ।
जय वाक्यविशुद्धाय अतीताय नमो नमः ॥ ४१.३३॥
जय विष्विन्द्रवन्द्याय शिवशान्ताय ते नमः ।
जय विज्ञानशुद्धदाय सर्वव्यापिन्नमो नमः ॥ ४१.३४॥
जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे ।
जय देवाधिदेवाय जय रुद्राय ते नमः ॥ ४१.३५॥
जय त्रिभुवनेशाय जय विख्यातमूर्तये ।
जयाधाराय शर्वाय जगत्कर्त्रे नमो नमः ॥ ४१.३६॥
जय निर्मलदेहाय जय सर्वार्थदायिने ।
जय भर्त्रे च हन्त्रे च जय त्रिपुरभेदिने ॥ ४१.३७॥
जय मन्मथनाशाय सर्वेशाय नमो नमः ॥
॥ इति शान्त्यध्यायः ५ ॥
॥ अथ शान्त्यध्यायफलकथनम् ॥
स्कन्द उवाच ।
जैगीषव्य महाभाग शिवप्रोक्ताश्च शान्तयः ॥ ४१.३०॥
सर्वेषां शान्तिकाध्यायान् श्रुत्वा भक्तियुताश्च ये ।
इत्येवं शान्तिकाध्यायं यः पठेच्छृणुयादपि ॥ ४१.३९॥
विधूय सर्वपापानि शिवलोके महीयते ।
कन्यार्थी लभते कन्यां जयार्थी जयमाप्नुयात् ॥ ४१.४०॥
मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् ।
अर्थकामो लभेदर्थं पुत्रकामो बहून् सुतान् ॥ ४१.४१॥
विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् ।
राज्यार्थी लभते राज्यं ग्रामार्थी ग्राममाप्नुयात् ॥ ४१.४२॥
गर्भिणी लभते पुत्रं कन्या विन्दति सत्पतिम् ।
यो यान् कामयते कामान् मानवः श्रवणादिह ॥ ४१.४३॥
तत्सर्वं शीघ्रमाप्नोति देवानां च प्रियो भवेत् ।
श्रुत्वाऽध्यायमिमं पुण्यं सङ्ग्रामं प्रविशेन्नृपः ॥ ४१.४४॥
स निर्जित्याशु शत्रून् वै कल्याणैः परिपूर्यते ।
अक्षयं मोदते कालमतिरस्कृतशासनः ॥ ४१.४५॥
सर्वव्याधिविनिर्मुक्तः पुत्रपौत्रैः प्रतिष्ठितः ।
शान्त्यध्यायमिमं पुण्यमुद्दिश्यापि सकृत्पठेत् ॥ ४१.४६॥
तस्य रोगा न बाधन्ते वातपित्तादिसम्भवाः ।
नाऽकालमरणं तस्य सर्वैश्चापि न दश्यते ॥ ४१.४७॥
विषं नाक्रमते देहे न जडत्वं न मूकता ।
नोपसर्गभयं तस्य नचोत्पातभयं तथा ॥ ४१.४८॥
नाभिचारकृतैर्दीर्घैर्लिप्यते स कदाचन ।
सर्वकामसमृद्धार्थो यः पठेत्तु दिने दिने ॥ ४१.४९॥
नित्यमूर्जितभक्त्या च व्याघातादि विवर्जितः ।
(नित्यमूर्जितभक्त्या च दुर्गव्याघातवर्जितः ।)
यत्पुण्यं सर्वतीर्थानां गङ्गादीनां विशेषतः ॥ ४१.५०॥
यत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिह ।
दशानां राजसूयानामग्निष्टोमशतस्य च ॥ ४१.५१॥
श्रवणात्फलमाप्नोति कोटिकोटिगुणोत्तरम् ।
कोटिजन्मसु यत्पुण्यं जनार्दनसुपूजया ॥ ४१.५२॥
तत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिह ।
अवध्यः सर्वभूतानामन्येषां च विशेषतः ॥ ४१.५३॥
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ।
गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः ॥ ४१.५४॥
शरणागतघाती च मित्रविश्वासघातकः ।
दुष्टपापसमाचारः मातृहा पितृहा तथा ॥ ४१.५५॥
श्रवणादस्य भावेन मुच्यते सर्वपातकैः ।
शान्त्यध्यायमिमं पुण्यं न देयं यस्य कस्यचित् ॥ ४१.५६॥
शिवभक्ताय दातव्यं शिवेन कथितं पुरा ।
नित्यमूर्जितभक्तिश्च भक्तिव्याघातवर्जितः ॥ ४१.५७॥
सर्वकामसमृद्धार्थो यः पठेत्तु दिने दिने ।
तस्माद् भक्त्या पुण्यदोऽयं श्रोतव्यः शिवमिच्छता ॥ ४१.५८॥
ईश्वर उवाच ।
शान्त्यध्यायवरान् शिवे हृदि गतान् कुर्वन् स शान्तिं लभेत्
रोगाणामयुतात् तथा नृपभयाद्भूपोऽपि मुक्तो भवेत् ।
चोरारिप्रभवादथोग्रहभवापस्मारदोषाद् ग्रहै-
सद्यो मुच्यत एव शान्तिकजपाद्भतोऽथ मुक्तो भवेत् ॥ ४१.५९॥
युक्ता एव भवन्ति शुद्धहृदया मय्येव सक्ताः शिवे
शश्वत्ते भुवनावने द्विजवराःस्वालोकने किम्पुनः ।
व्यक्ताव्यक्तगतीषु तेषु सुलभो मोक्षोऽक्षताङ्गेषु वै
वक्तव्यं किमुमासहाय चरणाम्भोजप्रभावादराः ॥ ४१.६०॥
॥ इति शान्त्यध्यायफलकथनम् ॥
॥ इति शिवरहस्यान्तर्गते ईश्वारादिप्रोक्तं शान्त्यध्यायः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ३७-४२॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 37-42..
Notes:
Śiva शिव advises about Śāntyadhyāyaḥ शान्त्यध्यायः that comprises of prayers for granting Śānti शान्ति wrt the several aspects mentioned therein.
The Śloka-s from Chapters 37 to 42 have been combined on this page as Śāntyadhyāyaḥ 1-5 शान्त्यध्यायः १-५ and Śāntyadhyāyaphalakathanam शान्त्यध्यायफलकथनम् for seamless reading.
Proofread by Ruma Dewan