ईश्वरप्रोक्ता शिवलिङ्गार्चनमहिमा २
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
आलयः सर्वभूतानां लयनाल्लिङ्गमुच्यते ।
तस्माल्लिङ्गं प्रतिष्ठाप्य सर्वदेवभवोद्भवम् ॥ ३१॥
स्थापितं तेन सर्वं स्यात्पूजितं च न संशयः ।
कृताञ्जलिपुटो विष्णुर्ब्रह्मा चापि विशेषतः ॥ ३२॥
पूर्वं लिङ्गं समभ्यर्च्य पश्चात्कर्माणि चक्रतुः ।
ब्रह्मा ब्रह्माक्षरैर्दिव्यैर्लिङ्गं पूजयते सदा ॥ ३३॥
गन्धपुष्पादिभिर्नित्यं विष्णुः पूजयते शिवम् ।
ब्रह्मा शैलमयं भक्त्या लिङ्गं पूजयते सदा ॥ ३४॥
तस्य सम्पूजनादेव प्राप्तं ब्रह्मत्वमुत्तमम् ।
इन्द्रनीलमयं लिङ्गं विष्णुरर्चयते सदा ॥ ३५॥
विष्णुत्वं प्राप्तवांस्तेन विश्वव्याप्तं सनातनम् ।
शक्रोऽपि देवदेवस्य लिङ्गं मणिमयं शुभम् ॥ ३६॥
नित्यमर्चयते भक्त्या तेन शक्रत्वमाप्तवान् ।
लिङ्गं हेममयं कान्तं धनदोऽर्चयते सदा ॥ ३७॥
तेनासौ धनदो देवो धनदत्वमवाप्तवान् ।
विश्वेदेवा महात्मानो रौप्यलिङ्गमयं हरम् ॥ ३८॥
अर्चन्ति विधिवत्तेन विश्वेदेवक्त्वमाप्नुवन् ।
वायुः पूजयते नित्यं लिङ्गं पैत्तलसम्भवम् ॥ ३९॥
वायुत्वं तेन सम्प्राप्तं सर्वप्राणिशरीराम् ।
वसवः कांस्यकं लिङ्गं पूजयन्ति विधानतः ॥ ४०॥
प्राप्तास्तेन महात्मानो वसुत्वं सुमहोदयम् ।
अश्विनौ पार्थिवं लिङ्गं वरुणोऽर्चयते सदा ॥ ४१॥
तेनेव वरुणत्वं हि प्राप्तवानप्पतित्वताम् ।
लिङ्गमन्नमयं देवि हव्यवाड् यजति स्वयम् ॥ ४३॥
अग्नित्वं प्राप्तवांस्तेन तेजोरूपगुणान्वितम् ।
ताम्रलिङ्गं सदाकालं भक्त्या देवो दिवाकरः ॥ ४३॥
त्रिकालं यजते तेन प्राप्तं सूर्यत्वमुत्तमम् ।
मुक्ताफलमयं लिङ्गं सोमः पूजयते सदा ॥ ४४॥
तेन सोमत्वमापन्नः सर्वकान्तशरीरभृत् ।
प्रवालकमयं लिङ्गं नागाः सम्पूजयन्त्यपि ॥ ४५॥
तेन नागाःसुभोगाढ्याः पाताले नित्यमास्थिताः ।
कृष्णायसमयं लिङ्गं पूजयन्त्यसुरोत्तमाः ॥ ४६॥
राक्षसा दैत्यनाथाश्च तेन तेऽमितविक्रमाः ।
त्रपुसीसमयं लिङ्गं पिशाचाः पूजयन्ति हि ॥ ४७॥
गन्धर्वाप्सरसो यक्षा यातुधाना महेश्वरि ।
वज्रवैडूर्यगोमेदै(द)पुष्परागोद्भवानि च ॥ ४८॥
लिङ्गानि पूजयन्त्येव भक्त्या सर्वेश्वरस्य हि ।
तेन ऋद्धिबलोपेताः प्राप्तास्ते परमं पदम् ॥ ४९॥
त्रैलोहिकं महालिङ्गं यजन्ते गुह्यकाः सदा ।
तेन भोगबलोपेताः प्रयान्ति परमं पदम् ॥ ५०॥
वन्यदारुभवं लिङ्गं यजन्ते मातरः सदा ।
मातृत्वं प्रप्य ताः सर्वाः प्रयान्त्येव महेश्वरम् ॥ ५१॥
मुनयो मनवो यक्षा रक्षोरगमरुद्गणाः ।
देवदैत्याः सगन्धर्वा विद्याधरमहोरगाः ॥ ५२॥
पूजयन्ति शिवे लिङ्गे मामीशं देवनायकम् ।
सर्वो लिङ्गमयो लोकः सर्वो लिङ्गे प्रतिष्ठिचः ॥ ५३॥
तस्मात्सम्पूजयेल्लिङ्गं यदीच्छेत्सिद्धिमात्मनः ।
लिङ्गे त्वयाहं देवेशि सर्वदा संस्थितो ह्यहम् ॥ ५४॥
अनुग्रहाय लोकानां तथा लिङ्गे प्रपूजयेत् ।
(अनुग्रहाय लोकानां तस्माल्लिङ्गं प्रपूजयेत्) ।
यो न पूजयते लिङ्गे मामीशं भुवनेश्वरि ॥ ५५॥
नासौ स्वर्गस्य मोक्षस्य नैव राज्यस्य भाजनम् ।
तस्मादेकमना देवि यावज्जीवं प्रतिज्ञया ॥ ५६॥
अर्चयीत सदा लिङ्गे मामीशं भुवनेश्वरि ।
वरं जीवपरित्यागः स्वशिरश्छेदनं वरम् ॥ ५७॥
नत्वनभ्यर्च्य भुञ्जीयात् (भुञ्जीत)
भगवन्तं महेश्वरम् ।
देवि लिङ्गार्चनात्पुण्यमधिकं नास्ति किञ्चन ॥ ५८॥
इति विज्ञाय यत्नेन पूजनीयः सदाशिवः ।
नास्ति लिङ्गार्चनसमं तपो वा गिरिकन्यके ॥ ५९॥
तपोऽन्यत्क्षरते सर्वममुत्रफलभोगतः ।
तल्लिङ्गार्चनपुण्यस्य क्षयो नास्ति गिरीन्द्रजे ॥ ६०॥
वर्धते भक्तिभावेन अल्पमप्यन्ततः कृतम् ।
यो वा लिङ्गार्चनं द्वेष्टि धिक् धिक् तस्य कुमानसम् ॥ ६१॥
स खरोत्पन्न एव स्याद्ब्राह्मणोऽपि स चान्त्यजः ।
तादृशं तु सकृत् दृष्ट्वा सवासा जलमाविशेत् ॥ ६२॥
नरो नरकगामीस्यात्तस्य सम्भाषाणादपि ।
महेश्वरं महादेवं ये द्विषन्ति महीतले ॥ ६३॥
ते कृतघ्ना भवन्तीह ये न भक्ता महेश्वरे ।
रुद्रपिण्डसमुद्भूता ब्राह्मणा रुद्रदेवताः ॥ ६४॥
तस्माद्रुद्रार्चनं श्रेष्ठं ब्राह्मणानां महेश्वरि ।
तस्माल्लिङ्गार्चनं सर्वैः कार्य वर्णाश्रमैरपि (वर्णाश्रमादरैः) ॥ ६५॥
तस्मात्सर्वेषु भूतेषु गतिर्देवो महेश्वरः ।
तस्मात्सर्वप्रयत्नेन (पूज्यो)पतिर्देवो महेश्वरि ॥ ६६॥
सागराणां क्षयोऽस्त्येव क्षीयते हिमवानपि ।
रुद्रार्चनजपुण्यस्य क्षयो नास्त्येव शङ्करि ॥ ६७॥
एष्टव्या बहवः पुत्राः शिवलिङ्गार्चकाः सदा ।
यद्येको मम लिङ्गार्चां करिष्यति धरातले ॥ ६८॥
समुद्धरन्ति ते गोत्रं रञ्जुः कूपाद्घटं यथा ।
समुद्धृत्य तथा यत्नात्कुलानामेकविंशतिम् ॥ ६९॥
शिवत्वं यान्ति ते क्षिप्रं धर्माधर्मविवर्जिताः ॥ ७०॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्ता शिवलिङ्गार्चनमहिमा २ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४ लिङ्गोत्पत्तिस्तवः । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 4 lingotpattistavaH . vAvRRittashlokAH ..
Notes:
Śiva शिव, having narrated to Devī देवी, the story of Liṅgodbhava लिङ्गोद्भव; i.e. the Manifestation of Śiva शिव as the Jvālāliṅga ज्वालालिङ्ग, continues to talk about the Śivaliṅga शिवलिङ्ग made of various materials worshipped severally by Brahmā ब्रह्मा, Viṣṇu विष्णु, Indra इन्द्र et al.
Proofread by Ruma Dewan