ईश्वरप्रोक्तं १ शिवलिङ्गे पुष्पपत्रार्पणोपदेशम्

ईश्वरप्रोक्तं १ शिवलिङ्गे पुष्पपत्रार्पणोपदेशम्

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवगौरीसंवादे - ईश्वर उवाच । पुष्पैररण्यसम्भूतैः पत्रैर्वा गिरि सम्भवैः ॥ १॥ अपर्युषितनिश्छिद्रैः प्रोक्षितैर्जन्तुवर्जितैः । आत्मारामोद्भवैर्वापि पुष्पैः सम्पूजयेच्छिवम् ॥ २॥ पुष्पं जातिविशेषेण भवेत्पुण्यं ततोऽधिकम् । तपःशीलगुणोपेते पात्रे वेदस्य पारगे ॥ ३॥ दत्वा सुवर्णमयुतं यत्फलं कुसुमे शुभे । दशदत्वा सुवर्णानि यत्फलं तदवाप्नुयात् ॥ ४॥ अर्कपुष्पेऽपि वैकस्मिञ्छिवाय विनिवेदिते । एवं पुष्पविशेषेण फलं तस्य ततोऽधिकम् ॥ ५॥ पुष्पजातिविशेषेण यथा स्यात्तन्निबोधत । अर्कपुष्पसहस्त्रेभ्यो बकपुष्पं विशिष्यते ॥ ६॥ बकपुष्पसहस्रेभ्योवरधत्तूरकं परम् । धत्तूरकसहस्रेभ्यो बृहत्पुष्पं विशिष्यते ॥ ७॥ बृहत्पुष्पसहस्रेभ्यः करवीरं विशिष्यते । करवीरसहस्रेभ्यः कुशपुष्पं विशिष्यते ॥ ८॥ कुशपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते । शमीपुष्पसहस्रेभ्यः श्रीमन्नीलोत्पलं वरम् ॥ ९॥ सर्वेषामेवपुष्पाणां प्रबलं नीलमुच्यते । नीलोत्पलसहस्रेण यो मालां सम्प्रयच्छति ॥ १०॥ अलाभे तु सहस्राणां तदर्धार्धेन मालिकाम् । शिवाय विधिवद्भक्त्या तस्य पुण्यफलं श‍ृणु ॥ ११॥ कल्पकोटिसहस्राणि कल्पकोट्ययुतानि च । वसेच्छिवपुरे श्रीमान् शिवतुल्यपराक्रमः ॥ १२॥ शेषाणां पुष्पजातीनां यत्फलं परिकीर्तितम् । तत्फलस्यानुसारेण शिवलोके महीयते ॥ १३॥ शम्याश्चैव बृहत्याश्च तुल्यं कुसुममुच्यते । करवीरसमा ज्ञेया जाती विजयपाटला ॥ १४॥ श्वेतमन्दारकुसुमं सितपद्मसमं भवेत् । नागचम्पकपुन्नागौ धुत्तूरक समौ स्मृतौ ॥ १५॥ केतकी मागधा चैव ह्यधिका च मदन्तिका । शिरीष सर्जबन्धूक कुसुमानि विवर्जयेत् ॥ १६॥ गन्धवन्त्यपवित्राणि यानि तानि विवर्जयेत् । गन्धहीनमपि ग्राह्यं पवित्रं यत्कुशादिकम् ॥ १७॥ सात्विकं तद्धि कुसुममपवित्रं तु तामसम् । कनकानि कदम्बानि रात्रौ देयानि शङ्करे ॥ १८॥ दिवा शेषाणि पुष्पाणि दिवा रात्रौ च मल्लिका । रात्रौ स्वर्णकदम्बानि अर्धरात्रौ च मल्लिका ॥ १९॥ प्रहरं तिष्ठते जाती करवीरमहर्निशम् । कीटकेशापविद्धानि शीर्णपर्युषितानि च ॥ २०॥ स्वयं पतितपुष्पाणि त्यजेद्भूपहतानि च । मुकुलैर्नार्चयेद्देवमपक्वं न निवेदयेत् ॥ २१॥ अलाभे सति पुष्पाणां तत्पत्राणि निवेदयेत् । पत्राणामप्यलाभे तु फलान्यपि निवेदयेत् ॥ २२॥ फलानामप्यलाभे तु तृणगुल्मौषधीरपि । ओषधीनामभावे तु मानसं प्रवरं शुभम् ॥ २३॥ प्रत्येकमुक्तपुष्पेषु दशसौवर्णकं फलम् । स्रङ्निबन्धेषु तेष्वेव द्विगुणं फलमिष्यते ॥ २४॥ यः सुगन्धैर्मुक्तपुष्पैर्लिङ्गं सम्यक्प्रपूजयेत् । मालाभिर्वा सुगन्धाभिः सोऽनन्तफलमश्नुते ॥ २५॥ बिल्वपत्रैरखण्डैर्यः सकृल्लिङ्गं प्रपूजयेत् । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ २६॥ धुन्धूरकैश्च (धत्तूरकैश्च) यो लिङ्गं सकृत्पूजयते (? ) नरः । स गोलक्षफलं प्राप्य शिवलोके महीयते ॥ २७॥ बृहतीकुसुमैर्भक्त्या यो लिङ्गं सकृदर्चयेत् । गवामयुतदानस्य फलं प्राप्य शिवं व्रजेत् ॥ २८॥ मल्लिकोत्पलपद्मानि जातीपुन्नागचम्पकैः । अशोकश्वेतमन्दारकर्णिकारसुमानि च ॥ २९॥ करवीरार्कमन्दारान् शमीपाटलकेसरम् । कुशापामार्गकुमुद कदम्बद्रोणकानि च ॥ ३०॥ सौगन्धिकासमानागसिन्धुशाफालिकार्जुनैः । तुलसीकर(त)काङ्कोलनागवञ्जुलसम्भवैः ॥ ३१॥ नन्द्यावर्तेश्च शम्याकतिलकं नवमल्लिका । मरुपुन्नागदन्ती च मालतीकुटजादयः ॥ ३२॥ पुष्पैरेतैर्यथालाभं यो नरः पूजयेच्छिवम् । स च यत्फलमाप्नोति तदेकाग्रमनाः श‍ृणु ॥ ३३॥ सूर्यकोटिप्रतीकाशैर्विमानैः सार्वगामिकैः । पुष्पमाल्यपरिक्षिप्तैर्गीतवादित्रनिःस्वनैः ॥ ३४॥ तन्त्रीमधुरवाद्यैश्च स्वच्छन्दगमनालसैः । रुद्रकन्यासमाकीर्णैर्देवदानवकिन्नरैः ॥ ३५॥ चामरैर्वीज्यमानश्च स्तूयमानः सुरासुरैः । गच्छेच्छिवपदं दिव्यं यत्र वा रुचिरं भवेत् ॥ ३६॥ यस्तैर्वापीह कुसुमैर्जलस्थलरुहैः शिवम् । अन्वहं पूजयेद्भक्त्या शिवलोके महीयते ॥ ३७॥ शिवस्योपरि यः कुर्यात्सुखसत्पुष्पमण्टपम् । शोभितं पुष्पमालाभिरापीडनप्रलम्बिनम् ॥ ३८॥ अत्याश्चर्यमहायानैदिव्यपुष्पोपशोभितैः । सर्वोपरि चरन् श्रीमान् गच्छेच्छिवपुरं सुखी ॥ ३९॥ अनेकाकार विन्यस्तैः सुगन्धि कुसुमैर्गृहे । यः कुर्यात्पर्वकालेषु विचित्रकुसुमोज्ज्वलम् ॥ ४०॥ स पुष्पकविमानानां सहस्त्रैः परिवारितः । दिव्यस्त्रीसुखसम्भोगक्रीडारतिसमन्वितः ॥ ४१॥ अक्षयं मोदते कालमचिरात् (अवाप्य) शिवमन्दिरम् । शिवादिसर्वलोकेषु यत्रेष्टं तत्र याति सः ॥ ४२॥ पूजासु भक्तिविन्यासवद(च)नादिषु सर्वदा । फलमेव समासेन दातुर्वित्तानुसारतः ॥ ४३॥ फलमिष्टं समाप्नोति लिङ्गं सम्पूजयन्नरः । शिववत् ससुपुत्राद्यानन्दवान् मोदते चिरम् ॥ ४४॥ लिङ्गवेदी भवेद्देदी लिङ्गं साक्षान्महेश्वरः । (लिङ्गवेदी महादेवी) तयोः सम्पूजनं भक्त्या देवि देवश्च पूजितौ ॥ ४५॥ स्वयमुत्पाद्य पुष्पाणि यः शिवं पूजयेत्सदा । तानि साक्षात् प्रगृह्णति तद्भक्त्या सततं शिवः ॥ ४६॥ यः कुर्यात्तु शिवाराममाम्रबिल्वादिशोभितम् । जातीविजयराजाब्जकरवीरार्ककुब्जकैः ॥ ४७॥ पुन्नागवकुलैश्चैव अशोकोत्पलचम्पकैः । कदलीयूपहोमाद्यैस्तस्य पुण्य फलं श‍ृणु ॥ ४८॥ यावत्तत्पत्रकुसुमबीजमूलफलानि च । तावद्वर्षसहस्रेण रुद्रलोके महीयते ॥ ४९॥ न पर्युषितदोषोऽस्ति बिल्वपत्रस्य शङ्करि । बिल्वानां चूर्णमपि वा पातयेल्लिङ्गमूर्धनि ॥ ५०॥ नाबिल्वं पूजयेल्लिङ्गमन्यैस्तन्नामतो यजेत् । अपामार्गौर्दर्भपत्रैः पूज्य वेतससम्भवैः ॥ ५१॥ अहर्निशं कृतैः पापैर्मुच्यते नात्र संशयः । पत्रेषु बिल्वपत्रं स्यात् पुष्पे नीलोत्पलं प्रियम् ॥ ५२॥ तत्तत्कालभवं चान्यत्प्रियं मे परमेश्वरि । प्रहरं तिष्ठते जाती करवीरमहर्निशम् ॥ ॥ ५३॥ तुलस्यां बिल्वपत्रेषु सर्वेषु जलजेषु च । न पर्युषितदोषोऽस्ति बिल्वं स्याद्वर्षमीश्वरि ॥ ५४॥ पद्मं पञ्चदिनात्त्याज्यं शेषं पर्युषितं दिनात् । एभिर्यः पुष्पलक्षैर्मां समभ्यर्च्यैव मुक्तिभाक् ॥ ५५॥ तस्याहं मुक्तिदं ज्ञानं प्रयच्छाम्येव शङ्करि । ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवलिङ्गे पुष्पपत्रार्पणोपदेशं १ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ९ पुष्पाध्यायः । १-५६.१॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 9 puShpAdhyAyaH . 1-56.1.. Notes: Śiva शिव delivers Upadeśa उपदेश to Devī देवी about the various flowers i.e. Puśpa पुष्प and Leaves i.e. Patra पत्र etc. to be used for offering to Śivaliṅga शिवलिङ्ग. Proofread by Ruma Dewan
% Text title            : Ishvaraproktam 1 Shivalinge Pushpapatrarpanopadesham
% File name             : IshvaraproktaM1shivalingepuShpapatrArpaNopadesham.itx
% itxtitle              : shivaliNge puShpapatrArpaNopadesham IshvaraproktaM 1 (shivarahasyAntargatam puShpairaraNyasambhUtaiH patrairvA giri sambhavaiH)
% engtitle              : IshvaraproktaM 1 shivalinge puShpapatrArpaNopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 9 puShpAdhyAyaH | 1-56.1||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org