ईश्वरप्रोक्तं २ शिवलिङ्गे पुष्पपत्रार्पणोपदेशम्

ईश्वरप्रोक्तं २ शिवलिङ्गे पुष्पपत्रार्पणोपदेशम्

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवगौरीसंवादे - ईश्वर उवाच । बिल्वापामार्गजाजीतुलसिशमिबृहत्कानकं भृङ्गदूर्वा- मन्दाम्भोजाहिदर्भामुनितिलकतगारब्रह्मकत्वारमल्ली । चापाश्वारातिकुम्भीदमनमरुवकाबिल्वतोहानिशस्ता- त्रिंशत्र्येकार्यरीशोदधिनिधिवसुभभूयमाभूययेव ॥ ५७॥ यत्तत्पर्युषितं न चैव कलितं वृन्तैर्विहीनं शिवे दुर्गन्धाद्युपहन्तृकेतकमहापद्मादि नार्च्यं शिवे । छित्वा नैव निपातयेत्सुममुपे सम्पूर्णमेवार्चयेत् सौवर्णेषु च रत्नगर्भकलि ते नो पर्युषितत्वे विधिः ॥ ५८॥ स्वारामोद्भवमेव पुष्पमगजे मत्पूजनार्हं भवेत् नो वा शूद्रकलब्धमाहतमधो यात्येव तत्पूजनात् । भूमौ वा पतितैरपि स्पृशति चेत्स्नानादिहीनो नरः पुष्पेष्वेवमयं विधिर्भवति मे नो बिल्वपत्रोत्तमे ॥ ५९॥ शुक्राख्य पत्रं च कपित्थ पत्रं निर्गुण्डिकावारणबिल्वपत्रम् । पञचैव बिल्वानि ममेशि पूजने प्रशस्तरूपं प्रियमेव बिल्वम् ॥ ६०॥ वसुधाराधिप मित्रपादपूज्या वसुधाधृग्वरहारपादसाराः । सकृदारग्वधपुष्पतोऽर्च्य लिङ्गे सकलप्राणिवधोत्थपापमुक्ताः ॥ ६१॥ गौरीयल्लकलिङ्गपूजनरतोमल्लीभिरेवांदयं- मल्लीभिर्नियमेन मल्लयरतो गल्लस्य वाद्यं चरन् । हल्लीलास्यलयानुगौ मम कृपावल्ली प्ररोहं गता तस्मिन्नेव समुल्लसत्यनुदिनं सल्लापतस्तस्य हि ॥ ६२॥ पारिभद्रसुमपूजया शिवे- वीरभद्रगणपोपमलीलः । भद्रमेव लभते जिततन्द्रो रुद्र एव स भवेन्न दरिद्रः ॥ ६३॥ शिवे मरुबकैर्बकैरपि तथैव सच्चम्पकै- स्तथा कुरवबकैर्धवैःकनकनागपुन्नागकैः । समर्च्य शिवमंहसा प्रवरराशिपारङ्गतो जनो भवति मुक्तिभागतुलतुङ्गलिङ्गे मम ॥ ६४॥ कदलीफलपुष्पपूजया दलितान्येव भवन्ति पातकानि । दलितान्यथ तस्य दुःखजाला- न्यमितान्यप्यथ सत्यमेव गौरि ॥ ६५॥ कुशकाशसमर्चको यदि स्या- न्मयि भक्तोऽम्बरकेशलिङ्गके मे । यमपाशकशाभिघातदुःखं न भवेज्जातु कदाचिदस्य गौरि ॥ ६६॥ भूतास्वपामार्गदलैः समर्च्य लिङ्गं ममाङ्गं विशते स धन्यः । कनिष्ठजन्मापि स गर्भदुःखं- नैवाप्नुयाज्जातु सुदर्भतोऽर्च्य ॥ ६७॥ जितैणमदसौरभैरसमबिल्वपुष्पैर्दलैः सुसौरभसुमैः शिवे नववसन्तकालोत्थितैः । जनो जनि विवर्जितां गतिमुपैति भाग्योदयै- र्निशासु वरकेतकीकुसुमपूजकोधन्यधीः ॥ ६८॥ यः पुण्डरीककुसुमैर्नवचन्द्रखण्ड- लीलालकावलितलिङ्गसुपूजकश्चेत् । आखण्डलादिमुखवन्दितपादपीठ- श्चण्डांशुजातवदनं न स जातु पश्येत् ॥ ६९॥ कमलैरमलैर्महेशलिङ्गं शतपत्रैःशतपत्रमित्रनेत्रम् । परिपूज्य लभेत्कलत्रपुत्रं मखसत्रादधिकां तु पुण्यवृद्धिम् ॥ ७०॥ बिम्बाभदाडिमकदम्बकदम्बपुष्पै- रम्बापतेः प्रियतमोत्तमचारुलिङ्गम् । वृन्दारवृन्दवरनायकमौलिवन्द्यो बन्धाद्विमुक्तिमुपयाति न पापगन्धम् ॥ ७१॥ अतसीतुलसीभिरीशलिङ्गं कुमुदैरप्यमदैर्मुदा भवानि । सकृदीश्वर पूज्य वन्य पुष्पैः यदि सामान्य नरो भवेत्स धन्यः ॥ ७२॥ अर्कद्वयं च करवीरमुनीन्द्रपुष्पै- धात्री पवित्रसुमैर्वरजातिकाभिः । द्रोणैश्च नन्दिकुसुमैरसमैः कदम्बैः शेवन्तिकात्रयमुमे परिपूज्य धन्यः ॥ ७३॥ जातेन किं तेन हि पारिजात- पूजारतं यस्य न मानसं स्यात् । मन्दोऽपि मन्दार सुमं समर्प्य वाचस्पतिं धिक्कुरुते सभासु ॥ ७४॥ शमीकुसुमपूजया सुमशरारिलिङ्गे शिवे शरारिरिवनीरगोऽप्युरगवैरिवेगातिगः । भवेसुचिरसम्भृतैरघसहस्रकैरावृतो- ऽप्यनारतमनुस्मरेत् शमनजातभीत्युज्झितः ॥ ७५॥ सौवर्णवर्णसमदिव्यसुकर्णिकारैः सम्पूज्य लिङ्गमगजे सकलोऽपि वर्णः । पर्वण्यपि प्रथितदोपहर प्रदोषे- ऽपर्णापतेः प्रियतरो गणपः स तूर्णम् ॥ ७६॥ सितासितसुपाटलीपटलपुष्पसम्पूजया स पाटयति पातकद्रुमसहस्रमेव द्रुतम् । स सङ्कटकुलं सदा न हि कदापि पश्येन्नरः सकण्टकपथं शिदे यमभटोरुदण्डाहतः ॥ ७७॥ ईषच्छिरीषकुसुमैर्ममलिङ्गमौलौ (ईशा)एषोऽनुरक्तहृदयःसुविशेषयेच्चेत् । हित्वाघसङ्घमगजे गणपुङ्गवेन्द्रो भद्राणि सोऽद्य(देवि) लभते स सुरेन्द्रवन्द्यः ॥ ७८॥ उत्फुल्लहल्लकुसुमैर्मृगबालपाणि- लिङ्गार्चनेन कलयेन्न स जातु कालम् । रङ्कोऽप्यसौ भवति सर्वधराधिनाथ- वन्द्याङ्घ्रियुग्मनखचन्द्ररुचिर्भवानि ॥ ७९॥ मन्दाराम्बुजमल्लिकाविरचितां मालां च नीलोत्पलैः युक्तां यः प्रददाति शङ्करमहालिङ्गे सहस्रैः कृताम् । तस्यार्धार्धसुसङ्ख्यया सुविहिता स्यात्प्रीतये मुक्तिद (स्याद्भुक्तिमुक्तिप्रदा) मुक्तापुष्पसमर्चनादपि सदा सम्प्रीतये मे (मत्प्रीतये सा) परा ॥ ८०॥ पुष्पाध्यायमिदं सदैव हृदये धार्यं हि वर्यैः सदा कार्यं स्यान्मम पूजनं सुविहितं वीर्योन्नतैः शैलजे । गर्वं चाप्यपहृत्य धैर्यपरमैर्हस्तार्चितैः पावनै- रर्च्योऽहं भुवि सादरं सुमगणैर्हीनो भवेत्पातकैः ॥ ८१॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवलिङ्गे पुष्पपत्रार्पणोपदेशं २ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ९ पुष्पाध्यायः । ५७.८१॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 9 puShpAdhyAyaH . 57.81.. Notes: Śiva शिव delivers Upadeśa उपदेश to Devī देवी about the various flowers i.e. Puśpa पुष्प and Leaves i.e. Patra पत्र etc. to be used for offering to Śivaliṅga शिवलिङ्ग. Proofread by Ruma Dewan
% Text title            : Ishvaraproktam 2 Shivalinge Pushpapatrarpanopadesham
% File name             : IshvaraproktaM2shivalingepuShpapatrArpaNopadesham.itx
% itxtitle              : shivaliNge puShpapatrArpaNopadesham IshvaraproktaM 2 (shivarahasyAntargatam bilvApAmArgajAjItulasishamibRihatkAnakaM)
% engtitle              : IshvaraproktaM 2 shivalinge puShpapatrArpaNopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 9 puShpAdhyAyaH | 57\-81||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org