ईश्वरप्रोक्तं ४ शिवार्चनोपदेशम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
श्रद्धया सकृदेवापि समभ्यर्च्य महेश्वरम् ।
गायत्र्या च समभ्यर्च्य सोमस्थानमवाप्नुयात् ॥ ७॥
पञ्चाक्षरेणाभिपूज्य रुद्रलोके वसेन्नरः ।
कल्पमेकं दिव्यदेहः शिवरूपेण सङ्गतः ॥ ८॥
पञ्चभिर्ब्रह्मभिः पूज्य शिवं शिवगणो भवेत् ।
संशोध्य च शुभं लिङगं हेमपीठं शुभोदकैः ॥ ९॥
अद्भिः पूते तथा पीठे लिङ्गे चावाह्य शङ्करम् ।
दृष्ट्वा देवं तथा लिङ्गे सुपुष्पं मस्तके क्षिपेत् ॥ १०॥
कल्पिते चासने तत्र निर्माल्यमपनोद्य च ।
पाद्यमाचमनं चार्घ्यं दत्वा रुद्राय शम्भवे ॥ ११॥
स्नापयेद्गन्धतोयेन पाटलीमिश्रितेन च ।
क्षीरेण च गवां नित्यं घृतेन च सुगन्धिना ॥ १२॥
दध्ना च मधुना चैव कीटहीनेन शङ्करि ।
ऐक्षव्या सितया चापि स्नापयेद्देवमीश्वरम् ॥ १३॥
नारिकेलोदकैः स्नाप्य मोचाम्ररकसुपानसैः ।
जम्बीरसारैर्गन्धोदैः कुशपुष्पहिरण्यजैः ॥ १४॥
अखण्डनीरधाराभिः स्नापयेत्परमेश्वरम् ।
रुद्रेण चमकेनैव तथा पौरुषसूक्तकैः ॥ १५॥
कद्रुद्रैः पवमानैश्च वामदेवादिसामभिः ।
रथन्तरैस्तथा रौद्रैः शिवेऽथर्वशिखादिभिः ॥ १६॥
स्नापयेद्देवदेवेशं तर्पयेदष्टनामभिः ।
शुद्धवस्त्रेण सम्मृज्य पीठे स्थाप्य महेश्वरम् ॥ १७॥
भस्मना चन्दनाद्यैश्च लेपयेत्साक्षतादिभिः ।
रोचनाद्यैश्च सम्पूज्य चन्द्रैश्चैव महेश्वरम् ॥ १८॥
बिल्वपत्रैरखण्डैश्च दूर्वापामार्गदर्भकैः ।
नीलोत्पलैस्तथा पद्मैर्नन्द्यावर्तशिरीषकैः ॥ १९॥
मल्लिकाचम्पकैर्जाजीवकुलार्कशमीसुमैः ।
करवीरैश्च कुटजैः पाटलैर्द्रोणसम्भवैः ॥ २०॥
केतकी बृहतीपुष्पैः पुष्पैरारग्वधोद्भवैः ।
पूजयेन्नामभिर्देवि निधनेत्यादिभिः शिवे ॥ २१॥
दत्वा पञ्चविधं धूपं तगजागरुकेसरम् ।
देवद्रुसद्घजैर्बैल्वगुग्गुलं सधृतं शिवे ॥ २२॥
दीपान् प्रज्वाल्य घृतजान् पायसं च निवेदयेत् ।
दधिभक्तं च मध्वाज्यपरिप्लुतमुमापतेः ॥ २३॥
शुद्धान्नं चैव मुद्गान्नं माषान्नं च निवेदयेत् ।
माषापूपं गुडापूपं गोधूमापूपमेव च ॥ २४॥
खेजिका लड्डुकाष्चैव मोदकाः फेणिकाः शिवे ।
मण्डकाभक्ष्यभोज्यं च निवेद्यं स्यात्सदा शिवे ॥ २५॥
शाकसूपादिदध्यन्नं गुडान्नं विनिवेदयेत् ।
क्रमेणैव फलैः श्रेष्ठैः पानकैर्मजिकां तथा ॥ २६॥
ताम्बूलमथ गन्धाढ्यं सकलं विनिवेदयेत् ।
नीराजयेत्ततो दीपैः शतसाहस्रवर्तिकम् ॥ २७॥
वृषकुम्भगजाकारं नागमानुषरूपकम् ।
नाक्षत्रं दीपकं दत्वा सद्योजातादिपञ्चकैः ॥ २८॥
पञ्चपात्रेषु देयं स्यात्ततः कर्पूरखण्डजम् ।
रक्षाबन्धं ततः कुर्याद्भस्मना त्रिः क्रमेण तु ॥ २८९॥
ऋक्सामयाजुषाथर्वमन्त्रैःस्तुत्वा महेश्वरम् ।
पौराणैर्वा तथा वाक्यैः स्तुवीत परमेश्वरम् ॥ ३०॥
ईशानं पुरुषं चैवमघोरं वाममेव च ।
सद्योजातं जपेत्पश्चात्पञ्चभिः पूजयेच्छिवम् ॥ ३१॥
छत्रं च चामरे दिव्ये व्यजनादर्शकध्वजम् ।
वीणावेणुमृदङ्गादीन् शङ्खदुन्दुभिकाहलम् ॥ ३२॥
चार्मं तन्त्रीमयं श्रेष्ठं तथैव च मुखोद्भवम् ।
वाद्यं च श्रेष्टमित्याहुः शिवार्चासु महेश्वरि ॥ ३३॥
अलाभे सर्ववाद्यानां घण्टाघोषः प्रशस्यते ।
रत्नस्वर्णोद्भवं पात्रं राजतं ताम्रजं तथा ॥ ३४॥
कांस्यपैत्तलसम्भूतं दारवं चाश्मसम्भवम् ।
शौक्तिकं पत्रसम्भूतं मृन्मयं वाप्यलाभतः ॥ ३५॥
कल्पयेच्छिवपूजायां फलं स्यादुत्तरोत्तरम् ।
पञ्चामृतं चान्यगवां कापिलं स्यात्ततोऽधिकम् ॥ ३६॥
नारिकेलं तथैवान्यत् श्वेतं तत्र प्रशस्यते ।
रम्भाः सुवृत्तपीताच्छाः प्रशस्तास्त्वभिषेचने ॥ ३७॥
इक्षुभ्यः पौण्ड्रकं चेक्षु प्रशस्तं स्नपने शिवे ।
गुलवल्मीकसम्भूतान्मधु पार्वतमुत्तमम् ॥ ३८॥
कृष्णं निषिद्धं देवेशि पैतृके विनियोजयेत् ।
ताटाकात्कूप्यमुत्कृष्टं ततः कुल्योद्भवं शिवे ॥ ३९॥
ततो नदीभवं पुण्यं सागराभिमुखासु च ।
शङ्खोदकं ततोत्कृष्टं सर्वपात्रजलैरपि ॥ ४०॥
सर्वतैलैरपि शिवे तिलजं श्रेष्ठमुच्यते ।
प्रहरं तिष्ठते जाती दिवारात्रौ च मल्लिका ॥ ४१॥
पद्मं नीलोत्पलं चैव मुकुलं वा दिनत्रयम् ।
न पर्युषितदोषोऽस्ति बिल्वपत्रे शिवप्रिये ॥ ४२॥
न पर्युषितदोषोऽस्ति हैमे रत्नोपकल्पिते ।
अलाभे बिल्वपत्राणां निर्माल्यैः क्षालितैर्यजेत् ॥ ४३॥
पुष्पाणामप्यलाभे तु तत्पत्राणि निवेदयेत् ।
कुटजैर्नार्चयेदीशं यस्य कस्य सुमस्य च ॥ ४४॥
विना नीलोत्पलं देवि साम्बं मन्दारकैर्यजेत् ।
मल्लिकाभिर्जातिकाभिः प्रातश्चम्पकनन्दिकैः ॥ ४५॥
मध्याह्ने कर्णिकारैश्च करवीरैश्चपाटलैः ।
पुन्नागैः पारिजातैश्च पुष्पैरन्यैर्यथाबलम् ॥ ४६॥
कनकं केतकीपुष्पं निशि कादम्बजैर्यजेत् ।
सर्वदा बिल्वपत्रं मे प्रियं शैलेन्द्रकन्यके ॥ ४७॥
बिल्वपत्रे च कमले कमला सुप्रतिष्ठता ।
नीलोत्पलेऽम्बिका साक्षात् अल्लकेरक्तसन्धितः ॥ ४८॥
पुण्डरीके महादेवो गणेशः शतपत्रके ।
कर्णिकारे स्थितो वेधा मल्लिकासु हरिः स्थितः ॥ ४९॥
कर्णिकारे स्थितो नन्दी दुर्गा पाटलकेषु च ।
श्वेतार्के चैव चण्डीश पुष्पेषु गणपाः स्थिताः ॥ ५०॥
यमो नीलेषु पुष्पेषु रक्तेऽपर्णा प्रतिष्ठिता ।
श्वभ्रपुष्पार्चने मुक्तिर्भुक्तिरत्र समर्चने ॥ ५१॥
पीतं वश्यकरं देवि नीलकं मारणे भवेत् ।
अनेन विधिना देवः प्रसीदति महेश्वरः ॥ ५२॥
कृष्णागरूद्भवं धूपं सर्वपापनिकृन्तनम् ।
साम्राणिजं गुग्गुलुजं धूपं वश्यकरं भवेत् ॥ ५३॥
सर्वरोगहरं बैल्वं सधृतं धूपमुत्तमम् ।
मारणोच्चाटने नैव धूपो दीपोऽपि सत्तमे ॥ ५४॥
कौसुम्भतैलं वश्यं स्यात् शिवदीपप्रदानतः ।
सार्षपं रोगनाशाय माधूकं राजवश्यकम् ॥ ५५॥
नारीकेलोद्भवं तैलं स्त्रीवशीकरणं शिवे ।
नीलतैलं ज्ञानदायि शिवाग्रे दीपदापने ॥ ५६॥
हैरण्डे बुद्धिमान्द्यं स्यात् शिवाग्रे दीपदानतः ।
गव्यमाज्यं मुक्तिदायि माहिषं पुष्टिकृद्भवेत् ॥ ५७॥
एवं धूपादिदीपेषु पुष्पेषु फलमम्बिके ।
यथालाभं प्रकुर्वीत तानयुक्तो न दुष्यति ॥ ५८॥
वृक्षाः पुष्पाणि पत्राद्यै वल्लयश्च महेश्वरि ।
उपयुक्त शिवार्चायां गावो या लोकमातरः ॥ ५९॥
गतिं प्रयान्ति परमां किम्पुनर्मानवाः शिवे ।
द्विजाः क्षत्रा विशः शूद्राः स्त्रियो वापि च शाङ्कराः ॥ ६०॥
शङ्करार्चासु निरताः प्रयान्ति परमं पदम् ।
पूजयेद्यः शिवं रुद्रं शर्वं शिवमजं सकृत् ॥ ६१॥
स याति शिवसायुज्यं त्रिः सप्तकुलसंयुतः ।
पूजितं वा महादेवं पूज्यमानमथापि वा ॥ ६२॥
दृष्ट्वा प्रयाति वै मर्त्यो रुद्रलोकं न संशयः ।
अर्चितं प्रातरीक्षेत लिङ्गं देवमुमापतिम् ॥ ६३॥
नैशपापं द्विमुच्येत मध्याह्ने हयमेधभाक् ।
सायं जन्मायुतोद्भूतं दृष्ट्वा तत्पापनाशकृत् ॥ ६४॥
निशीथे तु महादेवमभिवीक्ष्य विमुक्तिभाक् ।
दृष्ट्वा नत्वाभिगच्छेद्वा स याति गणतां मम ॥ ६५॥
स कृत्प्रसङ्गतो लिङ्गमनघः स्याद्धरस्य हि ।
दृष्ट्वा नत्वाभिगच्छेद्वा प्रादक्षिण्येन शङ्करि ॥ ६६॥
एकप्रदक्षिणं लिङ्गे चण्डेशादर्शनं तथा ।
अदीपदर्शनं चैव शिवस्यार्धनमस्क्रिया ॥ ६७॥
ब्राह्मणानां परीवादो हन्ति पुण्यं पुराकृतम् ॥
ईश्वरः उवाच ।
इत्येष ते समासेन फलाफलविनिर्णयः ॥ ६८॥
पुण्यं च दर्शनं शम्भोर्धूपदीपनिवेदने ।
कथितं प्रथितं देवि महितं शाम्भवं वरम् ॥ ६९॥
नानायोनिषु सञ्चरन् विधिवशाद्विप्रत्वमेत्यादरात्
वर्णित्वेऽखिलवेदजालकलनाद्दाराग्निहोत्रे रतः ।
अग्निष्टोममखादिभिः क्रतुवरैरिद्वेष्टिभिश्चान्तिमे
वानप्रस्थगतो विरज्य विषये त्यक्तेषणो मस्करी ॥ ७०॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं ४ शिवार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४७ । ७-७०॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 47 . 7-70..
Notes:
Śivaशिव outlines the procedures for worshipping Him including those via the Śivaliṅga शिवलिङ्ग?; and mentions about the various Dravya द्रव्य for Abhiṣekam अभिषेकम्; Puṣpa पुष्प, Patra पत्र, Dhūpa धूप, Dīpataila दीपतैल, Naivedya नैवेद्य etc. for offering during Pūjā पूजा.
Several other procedures are mentioned throughout the 12 Aṁśa- s १२ अंशाः of the ŚivaRahasyam शिवरहस्यम्.
Selected Śloka-s from the chapter are given on this page.
Proofread by Ruma Dewan