ईश्वरप्रोक्तं अष्टषष्टिनामशिवस्तोत्रम्
ईश्वर उवाच ।
वाराणस्यां महादेवं प्रयागे च महेश्वरम् ।
नैमिषे देवदेवं च गयायां प्रपितामहम् ॥ ५॥
कुरुक्षेत्रे विदुः स्थाणुं प्रभासे शशिशेखरम् ।
पुष्करे तु ह्यजागन्धिं विश्वं विश्वेश्वरे तथा ॥ ६॥
अट्टहासे महानादं महेन्द्रे च महाव्रतं (१०)।
उज्जयिन्यां महाकालं मरुकोटे महोत्कटम् ॥ ७॥
शङ्कुकर्णे महातेजं गोकर्णे च महाबलम् ।
रुद्रकोट्यां महायोगं महालिङ्गं स्थलेश्वरे ॥ ८॥
हर्षिते च तथा हर्षं वृषभं वृषभध्वजे ।
केदारे चैव ईशानं शर्वं मध्यमकेश्वरे (२०)॥ ९॥
सुपर्णाक्षं सहस्राक्षे सुसूक्ष्मं कार्तिकेश्वरे ।
भवं वस्त्रापथे देवि ह्युग्रं कनखले तथा ॥ १०॥
भद्रकर्णे शिवं चैव दण्डके दण्डिनं तथा ।
ऊर्ध्वरेतं त्रिदण्डायां चण्डीशं कृमिजाङ्गले ॥ ११॥
कृत्तिवासं तथैकाम्रे छागलेये कपर्दिनं (३०)।
कालिञ्जरे नीलकण्ठं श्रीकण्ठं मण्डलेश्वरे ॥ १२॥
विजयं चैव काश्मीरे जयन्तं मरुकेश्वरे ।
हरिश्चन्द्रे हरं चैव पुरश्चन्द्रे च शङ्करम् ॥ १३॥
जटिं वामेश्वरे विन्द्यात्सौम्यं वै कुक्कुटेश्वरे ।
भूतेश्वरं भस्मगात्रे ओङ्कारेऽमरकण्टकं (४०)॥ १४॥
त्र्यम्बकं च त्रिसन्ध्यायां विरजायां त्रिलोचनम् ।
दीप्तमर्केश्वरे ज्ञेयं नेपाले पशुपालकम् ॥ १५॥
यमलिङ्गं च दुष्कर्णे कपाली करवीरके ।
जागेश्वरे त्रिशूली च श्रीशैले त्रिपुरान्तकम् ॥ १६॥
रोहणं तु अयोध्यायां पाताले हाटकेश्वरं (५०)।
कारोहणे नकुलीशं देविकायामुमापतिम् ॥ १७॥
भैरवे भैरवाकारममरं पूर्वसागरे ।
सप्तगोदावरे भीमं स्वयम्भूर्निर्मलेश्वरे ॥ १८॥
कर्णिकारे गणाध्यक्षं कैलासे तु गणाधिपम् ।
गङ्गाद्वारे हिमस्थानं जल लिङ्गे जलप्रियम्(६०)॥ १९॥
अनलं वाडवेऽग्नौ च भीमं बदरिकाश्रमे ।
श्रेष्ठे कोटीश्वरं चैव वाराहं विन्ध्यपर्वते ॥ २०॥
हेमकूटे विरूपाक्षं भूर्भुवं गन्धमादने ।
लिङ्गेश्वरे च वरदं लङ्कायां च नरान्तकं (६८)॥ २१॥
अष्टषष्टिरियं देवि तवाख्याता विशेषतः ।
पठतां शृण्वतां वापि सर्वपातकनाशिनी ॥ २२॥
तस्मात्सर्वप्रयत्नेन कीर्तनीया विचक्षणैः ।
कालत्रयेऽपि शुचिभिर्विशेषाच्छिवदीक्षितैः ॥ २३॥
लिखितापि वरारोहे यस्यैषा तिष्ठते गृहे ।
न तत्र जायते दोषो भूतप्रेतसमुद्भवः ॥ २४॥
न व्याधेर्न च सर्पाणां न चौराणां वरानने ।
नान्येषां भूभुजादीनां कदाचिदपि कुत्रचित् ॥ २५॥
इति श्रीस्कन्दपुराणे नागरखण्डे नवाधिकशततमाध्यायान्तर्गतं
ईश्वरप्रोक्तं अष्टषष्टिनामशिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । नागरखण्ड । अध्याय १०९/५-२५॥
skandapurANa . nAgarakhaNDa . adhyAya 109/5-25..
Proofread by PSA Easwaran