ईश्वरप्रोक्तं लिङ्गोत्पत्तिकथनम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
ईश्वर उवाच ।
विवादः सुमहानासीत् ब्रह्मविष्ण्वोः परस्परम् ।
अहं कर्ता ह्यहं कर्ता न मत्तोऽन्यो जगत्पिता ॥ ३॥
एवमाह हरिं ब्रह्मा ब्रह्माणं च हरिस्तदा ।
तयोर्दर्पापहाराय प्रबोधार्थं च देवयोः ॥ ४॥
मध्ये समभवल्लिङ्गम्मैश्वरं तैजसं परम् ।
ज्वालामालावृतं दिव्यमप्रमेयमनूपमम् ॥ ५॥
योजनायुतविस्तीर्णं स्थितं तत्राऽमलाम्भसि ।
ज्वालाभिर्मोहितौ तस्य लिङ्गस्यासुरसत्तमे ॥ ६॥
तदा विस्मयमापन्नौ अद्राष्टाममराधिपौ ।
गतावूर्ध्वमधस्तस्य सम्प्रधार्य परस्परम् ।
अधो द्रष्टुं गतो विष्णुरगादूर्ध्वं पितामहः ॥ ७॥
अदृष्ट्वा तमधश्चोर्ध्वं तौ समेत्य परस्पम् ।
कृताञ्जलिपुटौ भूत्वा लिङ्ग तत् तुष्टुवतुस्तदा ॥ ८॥
ब्रह्मविष्णू समापन्नौ भक्त्या परमया युतौ ।
लिङ्गमध्ये परंलिङ्गं स्थितं प्रादेशसम्मितम् ॥ २२॥
समाधिस्तोत्रसम्पन्नौ दृष्टवन्तौ शिवात्मकम् ।
नैव तत्काञ्चनं रौप्यं नाभूत् स्फाटिकमौक्तिकम् ॥ २३॥
लक्षमात्रं स्थितं शान्तं केवलं तच्छिवात्मकम् ।
तयोस्तुष्टो महादेवः प्रदाय वरमुत्तमम् ॥ २४॥
कारणत्वमनुज्ञाय तत्रैवान्तरधीयत ।
तदा प्रभृति ब्रह्माद्या प्रतिष्ठाप्य सुरासुराः ॥ २५॥
तल्लिङ्गानुकृतं लिङ्गं पूजयेयुस्तपोधनाः ।
परं शुद्धशरीरं च लिङ्गक्षेत्रमनादिमत् ॥ २६॥
यदेतदैश्वरं तेजस्तल्लिङ्गं पञ्चसंज्ञितम् ।
कल्पान्ते तस्य लिङ्ग्ङ्गस्य लीयन्ते सर्वदेवताः ॥ २७॥
दक्षिणे लीयते ब्रह्मा वामतस्तु जनार्दनः ।
हृदये चैव गायत्री सर्ववेदोत्तमोत्तमा ॥ २८॥
लीयन्ते मूर्ध्नि वै वेदाः सषडङ्गपदक्रमाः ।
जठरे लीयते सर्वं जगत्स्थावर जङ्गमम् ॥ २९॥
उत्पद्यते पुनस्तस्मात् ब्रह्मादि सचराचरम् ।
आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका ॥ ३०॥
आलयः सर्वभूतानां लयनाल्लिङ्गमुच्यते ।
तस्माल्लिङ्गं प्रतिष्ठाप्य सर्वदेवभवोद्भवम् ॥ ३१॥
स्थापितं तेन सर्वं स्यात्पूजितं च न संशयः ।
कृताञ्जलिपुटो विष्णुर्ब्रह्मा चापि विशेषतः ॥ ३२॥
लिङ्गोत्पत्तिस्तवमिममुमे यः शृणोतीह भक्त्या
तस्यापारमहाघसङ्घनिचयः सद्यो विनाशं व्रजेत् ।
लिङ्गस्थापनपुण्यमप्यतितरां सम्प्राप्य गाणत्वम-
प्यन्ते याति ममाद्रिराजशिखरे सत्यं वदाम्यद्रिजे ॥ ७१॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं लिङ्गोत्पत्तिकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४ लिङ्गोत्पत्तिस्तवः । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 4 lingotpattistavaH . vAvRRittashlokAH ..
Notes:
Śiva शिव narrates to Devī देवी, the story of Liṅgodbhava लिङ्गोद्भव; i.e. the Manifestation of Śiva शिव as the Jvālāliṅga ज्वालालिङ्ग - whose beginning and end could not be detected by Brahmā ब्रह्मा and Viṣṇu विष्णु.
Proofread by Ruma Dewan