ईश्वरप्रोक्तं पञ्चविंशतिमूर्तिकथनम्

ईश्वरप्रोक्तं पञ्चविंशतिमूर्तिकथनम्

(शिवरहस्यान्तर्गते ईश्वराख्ये) - शिवगौरीसंवादे - देव्युवाच । देव देव महादेव करुणाकर शङ्कर । वेदान्तैर्निर्गुणो देवः कथितस्त्वं महेश्वर ॥ २॥ त्वल्लिङ्गं निर्गुणं साक्षात्पूजितं मुक्तिदायकम् । अमूर्तस्यापि मूर्तत्वं कथं देव महेश्वर ॥ ३॥ स्कन्द उवाच । इति देव्या तया पृष्टस्तुष्टो देव उवाच ताम् । रहस्यं गोपनीयं ते नारव्येयं यस्य कस्यचित् ॥ ४॥ शिव उवाच । श‍ृणुष्व गिरिजे धन्यं मूर्तीनामुद्भवं मम । अमूर्तस्यापि मे लोक हेतवे मूर्तयः कृताः ॥ ५॥ लिङ्गं मे निर्गुणं साक्षात् परमानन्ददायकम् । सद्योजातोद्भवाः पञ्च पञ्च तत्पुरुषोद्भवाः ॥ ६॥ अघोरसम्भवाः पञ्च वामदेवभवाः शिवे । ईशानसम्भवाः पञ्च तेषां नामानि मे श‍ृणु ॥ ७॥ महालिङ्गोद्भवं(ः) श्रीमान् दक्षिणामूर्तिमी(री)श्वरि । एकपादं(दः)सुखासीनं(नः) विघ्नेशानुग्रहे रतम्(ः) ॥ ८॥ सदोभवा मूर्तयो मी(मूः) तत्पूरुषभवाः श‍ृणु । सोमास्कन्दो वृषारूढः पुरत्रयविदारणः ॥ ९॥ चण्डेश्वरानुग्रहदकामघ्नः कालदारणः । अघोरसम्भो देवि कालदारणतः प्रिये ॥ १०॥ गजसंहरणो वीरभद्रो भिक्षाटनेश्वरः । किरातरूपी कङ्कालः कल्याणाकृतिसुन्दरः ॥ ११॥ वामदेवभवाः पञ्च मूर्तयोऽमी(मूः) गिरीन्द्रजे । विष्णुचक्रप्रदाता च देवः कान्तार्धविग्रहः ॥ १२॥ गौरीसहायो वैकुण्ठनेत्रार्च्यश्चन्द्रशेखरः । ईशानवक्त्रसम्भूता मूर्तयोऽमी(मूः) ममैव हि ॥ १३॥ जलधरान्तको नाट्यकोविदः कालभैरवः । शरभो विधिगोविन्दजनको नागभूषणः ॥ १४॥ अन्धकारिर्विरूपाक्षो विरापो दिगम्बरः । कैलासनाथः कल्पान्तरुद्रः कर्पूरसुन्दरः ॥ १५॥ कालाग्निरुद्रः शूलासिधरो व्याघ्राजिनाम्बरः । पञ्चवक्त्रो वृद्धविप्ररूपी च मुनिरूपधृक् ॥ १६॥ षोडशाब्दाकृतिः साक्षादघोराग्निनिवारणः । ज्वरार्तिशमनो विष्णुवल्लभो भक्तवत्सलः ॥ १७॥ विधिमस्तकसंहर्ता पार्वतीप्रणयात्मकः । गङ्गाधरश्चन्द्रधरो मृगहस्तश्चतुर्भुजः ॥ १८॥ भूतेश्वरः कोटिरुद्रमूर्तिःशक्तिलसत्करः । पञ्चब्रह्मोद्भवाः सर्वे कामदाः शान्तविग्रहाः ॥ १९॥ एवं ध्यायन्ति ये मूर्तीः तेषां ज्ञानं भवेच्छिवे । तेभ्यो विशिष्टा देवेशि तिस्रः स्युर्मूर्तयो मम ॥ २०॥ ज्ञानदा दक्षिणामूर्तिः सच्चिद्रूपा निरामया । मुनीनां ज्ञानदात्री च मूर्तिः सोपनिषच्छ्रुता ॥ २१॥ कैवल्यश्रुतिबोध्या श्रीमूर्तिर्मम महेश्वरि । उमासहाया त्र्यक्षा च नीलकण्ठा विमुक्तिदा ॥ २२॥ श्रीरुद्रकथिता चेयं सभापतिरिति स्थिरा । आसां(सु) मूर्तिषु चोत्कृष्टा कैवल्यश्रुतिदर्शिता ॥ २३॥ मूर्तिः परतरा शम्भोरमूर्तस्याप्यसङ्गिनः । कल्पयन्ति कथा जोषं स्वाधिकारानुरूपतः ॥ २४॥ ध्यायेत ज्ञानमित्याघाः श्रुतयो ध्यानकर्मणि । प्रवृत्तास्ता महादेवि ध्यानमीशे विमुक्तिदम् ॥ २५॥ विष्णुब्रह्मेन्द्ररुद्राणां जननीया परा शिवा । सैवोमा प्रोच्यते वेदैस्तया युक्तो महेश्वरः ॥ २६॥ असङ्गोऽपि परानन्दसच्चिद्धर्मसुखोऽद्वयः । माया सा प्रकृतिर्ज्ञेया ऊस मायी परमेश्वरः ॥ २७॥ तस्यावयवभूतं यज्जगदेतत्प्रकाशते । नैव(नेह) नानास्ति भूतेभ्योऽप्यतिरिक्तं जगन्मुने ॥ २८॥ तपसैव मनोज्ञेयं निष्क्रियं शान्तमव्ययम् । अगन्धरसरूपादिस्पर्शं यत्तन्मनोऽतिगम् ॥ २९॥ ध्यानध्येयादिरहितं निष्कलं तत्तुरीयकम् । मनोधर्मोध्यानविधिस्तन्मनोऽतिममं मुने ॥ ३०॥ तत्तस्मात्सकलं शम्भुं निष्कलं सम्प्रपूजयेत् । हृदाकाशे भासमानं नीवारांशकणाकृति ॥ ३१॥ ज्वलन्तमनिशं वह्निं तच्छिखायां महेश्वरम् । आकाशे निर्मले शुद्धे भासमानं सुशीतलम् ॥ ३२॥ सोममण्डलमापूर्णमचलं दृष्टिगोचरम् । ध्यात्वा मध्ये महादेवमुमया सहितं शिवम् ॥ ३३॥ शुद्धस्फटिकसङ्काशं चन्द्ररेखावतंसकम् । त्रिलोचनं चतुर्बाहुं नीलग्रीवं परात्परम् ॥ ३४॥ ध्यायेन्नित्यं धारणाया घटिकापञ्चकं मुने । आदित्यमण्डले वापि सोऽहमित्यपि सत्तम ॥ ३५॥ हिरण्मयश्मश्रुकेशं हिरण्मयनखं शिवम् । हिरण्यबाहुं वरदमम्बिकापतिमीश्वरम् ॥ ३६॥ ध्यायेन्नित्यं सदाभ्यस्य सोऽहमस्मीति भावयन् । स्थानेष्वेतेषु विप्रेन्द्र ध्यायेत परमेश्वरम् ॥ ३७॥ श्रीपर्वतं शिरःस्थानं केदारं तु ललाटकम् । वाराणसी भ्रुवेर्मध्ये विज्ञेया ध्यानकर्मणि ॥ ३८॥ कुरुक्षेत्रं कण्ठमेतत्प्रयागं कुचमुच्यते । चिदम्बरं तु हृन्मध्यमाधारः कमलालयः ॥ ३९॥ एषु स्थानवरेष्वीशं भावयेद्देहगेषु च । हृदये नृत्यमानं मां निध्यायेत त्वया सह ॥ ४०॥ आत्मतीर्थानिरतो भौतिकं तीर्थमुत्सृजेत् । अत्यल्पोऽपि यथा वह्निः शुष्कमार्द्रं च नाशयेत् ॥ ४१॥ ध्यानाभ्यासस्तथाल्पोऽपि महत्पापं व्यपोहति ॥ ईश उवाच । ध्यानमेतदगजे विमुक्तिदं चन्द्रचूडचरणस्य केवलम् । यस्य तस्य हृदये वसतीश- स्तस्य मुक्तिमहमेव दिशामि ॥ ४२॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं पञ्चविंशतिमूर्तिकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४७ पञ्चविंशतिमूर्तिकथनम् । २-४२॥ - .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 47 pa~nchaviMshatimUrtikathanam . 2-42.. Notes: Upon being asked by Devī देवी; Śiva शिव explains about His Manifest Form i.e. Mūrta मूर्त despite Him being Formless i.e. Amūrta अमूर्त. Śiva शिव describes about His Twenty Five Fold Form i.e. PañcaviṃśatiMūrti पञ्चविंशतिमूर्ति that manifested as each of His Five Aspects/Faces (viz. Sadyojāta सद्योजात, Vāmadeva वामदेव, Aghora अघोर, Tatpuruṣa तत्पुरुष and Īśāna ईशान multiplied five times. Proofread by Ruma Dewan
% Text title            : Ishvaraproktam Panchavimshatimurtikathanam
% File name             : IshvaraproktaMpanchaviMshatimUrtikathanam.itx
% itxtitle              : panchaviMshatimUrtikathanam (IshvaraproktaM shivarahasyAntargatam)
% engtitle              : IshvaraproktaM panchaviMshatimUrtikathanam
% Category              : shiva, viMshati, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshvarAkhyaH dashamAMshaH | adhyAyaH 47 | 2-42||
% Indexextra            : (Scan)
% Latest update         : September 14, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org