ईश्वरप्रोक्तं रुद्राक्षवृक्षोत्पत्तिवर्णनम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवपार्वतीसंवादे -
देवी उवाच ।
रुद्राक्षमहिमा शम्भो न श्रुतो विस्तरान्मया ।
तन्मे कौतुकमुत्कृष्टं श्रोतुं तन्महिमां विभो ॥ ११॥
तवामृतमुखाम्भोज चञ्चरीकायते मनः ।
कथासुधारसं पातुमिच्छा स्वच्छास्ति मे शिव ॥ १२॥
रहस्यमपि मे ब्रूहि सावधानास्मि साम्प्रतम् ।
स्कन्द उवाच ।
इत्युक्तं गिरिजावाक्यं श्रुत्वा चन्द्रकलाधरः ॥ १३॥
प्रहस्याह महादेवः कैलासे गिरिजां तदा ।
ईश्वरः उवाच ।
शृणु त्वमगजे जाये फुल्लहल्लकगन्धिनि ॥ १४॥
धम्मिल्लमल्लीविमलगन्धबन्धकचे शिवे ।
रौच्ये मनोरन्तरे ते दितिजा वरदर्पिताः ॥ १५॥
कश्यपस्यान्वये जाता महाबलपराक्रमाः ।
देवाञ्जिग्युश्च सङ्ग्रामे तेऽसकृन्मत्परायणाः ॥ १६॥
ब्रह्मविष्ण्वादयो देवास्तैर्जिता बलवत्तरैः ।
ऐरावतसमारूढः सुरबृन्दैः पुरन्दरः ॥ १७॥
रणे निराकृतो दैत्यैर्मद्दत्तवरदर्पितैः ।
विध्वस्ता मुनयः सर्वे लोकाश्चैव चतुर्दश ॥ १८॥
अधरोत्तरमुद्भ्रान्तं जगच्चक्रुर्बलोद्धताः ।
यज्ञभागभुजः सर्वे कृतास्ते बलिभोजनाः ॥ १९॥
पितरः कातरा जाता मरुतो मरुतोऽभवन् ।
वसवश्चासुभिर्हीना वायुरायुर्निराशवान् ॥ २०॥
गोविन्दो मन्दगर्वीऽभूद्ब्रह्माऽजिह्मत्वमाप्तवान् ।
आदित्या वसुमत्यां हि विचरन्ति पृथग्जनैः ॥ २१॥
विश्वासहीनो भगवान् विश्वेदेवास्तदाऽबलाः ।
रुद्रा दरिद्रा ह्यभवन्मार्तण्डा मूढतां गताः ॥ २२॥
यक्षाश्च ध्वंसिता दैत्यैर्ध्वाङ्क्षा इव महाबलैः ।
समीरणोऽथ वरुणो रणे दैत्यैः पराजितौ ॥ २३॥
अश्विनौ श्वासहीनौ तौ कान्दिशीकौ दिशासु वै ।
कृशः कृशानुरेताश्च गन्धर्वा धैर्यवर्जिताः ॥ २४॥
मुनयो मनवश्चैव वामनाः प्राद्रवंस्तदा ।
अपसर्पन्ति सर्पास्ते दैत्यभीत्या दिशोदश ॥ २५॥
दिशागजा मदोद्भूता मदधाराविवर्जिताः ।
तर्जिताः पर्वताः सर्वे पक्षगर्वविवर्जिताः ॥ २६॥
वेदा निर्वेदमापन्नाः शक्रस्तक्रमयाचत ।
दीना हीनबलाः सर्वे सुरा दैत्यपराजिताः ॥ २७॥
प्रणवः प्राणहीनोऽभूत्कुबेरो बेरवर्जितः ।
त्रिविष्टपनिविष्टा ये ते भूमौ कष्टजीविनः ॥ २८॥
एवं ब्रह्माण्डमुद्भ्रान्तं दैत्यदण्डेन पीडितम् ।
निःस्वाध्यायवषट्कारं सदा मखमुखोज्झितम् ॥ २९॥
लेखदुःखप्रदं चैव जगदासीच्चराचरम् ।
सन्तप्ता व्यथिताश्चैव गीर्वाणाश्चर्णवं गताः ॥ ३०॥
सागरा गरवेगेन बडवाग्निमुखेऽर्पिताः ।
न वाति वातपोतोऽपि दैत्यभीत्याऽनिशं शिवे ॥ ३१॥
अग्निरूर्ध्वशिखश्चापि विशिखश्चाप्यधःशिखः ।
विद्युतो द्युतिहीनाश्च सोमो म्लानवपुर्धरः ॥ ३२॥
चण्डरश्मिर्मन्दरश्मिरभूद्दैत्यपराजितः ।
क्रूराक्षेणापि ते देवि ताराक्षेण पराजिताः ॥ ३३॥
ताराभाराइवापेतुर्मकराक्षेण पीडिताः ।
कल्पवृक्षाः क्षितितले समानीताश्च नन्दनात् ॥ ३४॥
बलवद्विकृतं लोकं तदा विद्युत्सुमालिना ।
एवं क्रूररणक्षोण्यां बाणासिपरिधैः शरैः ॥ ३५॥
ऐरावतो रावितश्च शक्रो विक्रमवर्जितः ।
असकृत्तर्जिता देवा जगच्चक्रं च भर्जितम् ॥ ३६॥
न वीर्यवीर्याः सर्वेऽपि आर्यधर्मविवर्जिताः ।
तत्र देवैःस्तुतो देवि ब्रह्मविष्णुपुरोगमैः ॥ ३७॥
त्रिपुराणां वधार्थाय मतिं कृत्वाऽहमास्थितः ।
ब्रह्मादिस्तुतितोषितोऽहमगजे त्रैलोक्यरक्षाक्षमैः
मन्नेत्रप्रभवाश्रुभिः प्रभविता रुद्राक्षवृक्षाः क्षितौ ।
द्वात्रिंशत्प्रभवा भवन्ति नियतं तद्वीजमेवामले
धार्यं वैदिकसम्मतं श्रुतिशिरोवार्तासु निर्वर्तितम् ॥ ३८॥
त्र्यक्षानुक्षण वीक्षणेन भगदृक्सन्धुक्षलिङ्गार्चको
रुद्राक्षोरुवलक्षदिव्यभसितालङ्कारपुण्ड्राङ्क धृक्
पापध्वाङ्क्षनिवारणाय सकरासङ्गाश्मसङ्क्षेपको
मोक्षश्रीकरसङ्गसम्भवमहानन्दाम्बुपानोद्यतः ॥ ३९॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं रुद्राक्षवृक्षोत्पत्तिवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः १५ । ११-३९॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 15 . 11-39..
Notes:
Upon being asked by Devī देवी about how the Rudrākṣa Vṛkṣa रुद्राक्ष वृक्ष manifested, Śiva शिव describes the related story of TripuraSaṃhāra त्रिपुरसंहार.
Proofread by Ruma Dewan