ईश्वरप्रोक्तं शतरुद्रीयमाहात्म्यम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवपार्वतीसंवादे -
उमा उवाच ।
देवदेव महादेव शूलपाणे जगत्प्रभो ।
श्रीरुद्राणां च माहात्म्यं वद मे करुणार्णव ॥ ७॥
अभिषेके जपे चैव महारुद्रातिरुद्रके ।
भूरिपापहरा शम्भो श्रुतिर्मे याजुषी वर ॥ ८॥
पापानां नाशिनी देव रुद्रैकादशिनी विधिः ।
स्कन्द उवाच ।
तदा देव्या वचः श्रुत्वा प्राह देवो महेश्वरः ॥ ९॥
रुद्रातिरुद्रमाहात्म्यं जाप्ये चैवाभिषेचने ।
ईश्वर उवाच ।
शतरुदीयमाहात्म्यमधुना सम्प्रवक्ष्यते ॥ १०॥
यस्य विज्ञानमात्रेण पापनाशः प्रजायते ।
ऋग्वेदे च यजुर्वेदे सामाथर्वणवेदके ॥ ११॥
सारात्सारतरं पुण्यं शतरुद्रीयमीरितम् ।
अनधीता श्रुतिर्येन स्यादधीतस्य नाशनम् ॥ १२॥
स वेदबा(ह्य) इत्युक्तः सर्वकर्मबहिष्कृतः ।
यस्य याऽऽतिमहाविद्या शतरुद्रीयनामिका ॥ १३॥
(येनाधीता महाविद्या शतरुद्रीयनामिका) ॥ १३॥
तेनाभ्यस्ताश्चतुर्वेदा अनधीता अपि द्विज ।
जप्यते शतरुद्रीयं येन नित्यं द्विजोत्तम ॥ १४॥
स एव देवपित्र्यादिकर्मण्यो नात्रसंशयः ।
उपास्य नित्यं गायत्रीं प्रजप्य शतरुद्रियम् ॥ १५॥
ब्रह्मर्षित्वमयं प्राप्य ब्रह्मभूयाय कल्पते ।
त्यक्त्वा यः शतरुद्रीयं अन्यज्जप्तुमिहेच्छति ॥ १६॥
स्वगृहे पायसं त्यक्त्वा भिक्षामटति दुर्मतिः ।
त्यक्त्वा यः शतरुद्रीयं अन्यज्जप्यमिहेच्छति ॥ १७॥
तटाकस्थं जलं त्यक्त्वा मृगतृष्णासु धावति ।
त्यक्त्वा यः शतरुद्रीयमन्यज्जप्यमिहेच्छति ॥ १८॥
कामधेनुपयस्त्यवत्वा खरक्षीराय धावति ।
त्यक्त्वा यः शतरुद्रीयं अन्यज्जप्तुमिहेच्छति ॥ १९॥
स हेमभारं त्यक्त्वासावयः पिण्डाय धावति ।
ब्रह्मादयःसुराः सर्वे वसिष्ठाद्या ऋषीश्वराः ॥ २०॥
सनकाद्याश्च योगीन्द्रा जीवन्मुक्ताःशुकादयः ।
ब्रह्मर्षयो मरीच्याद्या नारदाद्याः सुरर्षयः ॥ २१॥
यक्षकिन्नरगन्धर्वसिद्धविद्याधरादयः ।
प्रजप्य शतरुद्रीयं श्रुतिसार महोदयम् ॥ २२॥
अवाप्य सकलान् कामान् जपन्त्यद्यापि सर्वदा ।
कृते युगेतु ऋग्वेदमन्त्रा जप्याः सदा द्विजैः ॥ २३॥
अथर्वाङ्गिरसा विद्या जप्यास्त्रेतायुगे सदा ।
प्रजप्तव्यानि सामानि युगे द्वापरनामके ॥ २४॥
प्रजप्तव्यो यजुर्वेदो युगेऽस्मिन् कलिनामके ।
वेदाः सर्वेऽपि जप्तव्या युगेषु त्रिषु च द्विजैः ॥ २५॥
शतरुद्रीयमभ्यस्येत्सततं नियमेन यः ।
स एव विप्रो लोकेषु पूज्यो वन्द्यो न संशयः ॥ २६॥
स व्रती स तपस्वी च स्तोतव्यः स यतिः प्रियः ।
स चाचार्यः स मतिमान् स ज्ञानी स च साधकः ॥ २७॥
स यज्वा स च पूतात्मा स दैवज्ञः स मान्त्रिकः ।
स योगी स च देवर्षिः स ब्रह्मर्षिः सुरोत्तमः ॥ २८॥
स ब्रह्मा स विधाता च स विष्णुः शङ्करो द्विजाः ।
तत्कुलं पावनं नित्यं धन्या तज्जननी सदा ॥ २९॥
तत्पिता च कृतार्थः स्यान्मुक्तास्तत्पितरो द्विजाः ।
पुण्यास्तद्वंशजाः सर्वे पूतास्तन्मित्रबान्धवाः ॥ ३०॥
किमत्र बहुनोक्तेन सारं वक्ष्ये मुनीश्वराः ।
शतरुद्रीयजप्तारं दृष्ट्वा स्पृष्ट्वा स्मरन्नपि ॥ ३१॥
सम्भाष्य वा समाप्नोति राजसूयाधिकं फलम् ।
यस्मिन्देशे स्थिता विप्राः शतरुद्रीयजापकाः ॥ ३२॥
दिव्यक्षेत्रं तदुद्दिष्टं समन्ताद्योजनायुतम् ।
तत्रैव देवास्तिष्ठन्ति वेदा यज्ञाः समन्त्रकाः ॥ ३३॥
मुनयः सिद्धयस्तत्र ऋषयः पितृभिः सह ।
(मुनयश्चैव सिद्धास्च ऋषयः पितृभिः सह ।)
इदं च परमं श्रेयः इदमेव परं तपः ॥ ३४॥
इदमेव परं तीर्थं इदमेव महद्व्रतम् ।
इदमेव परा दीक्षा इदमेव परा गतिः ॥ ३५॥
(इदमेव परा दीक्षा इयमेव परागतिः) ॥ ३५॥
इदमेव परो योगः इदमेव परं सुखम् ।
(अयमेव परो योगः इदमेव परं सुखम् ।)
इदमेव परं पुण्यमिदमेव महत्फलम् ॥ ३६॥
अयमेव सदाचारः अयमेव महामखः ।
अयं सर्वोपनिषदां सारभूतार्थसङ्ग्रहः ॥ ३७॥
निर्मलं निर्गुणं नित्यं निष्कलं च निरञ्जनम् ।
अनन्तमव्ययज्योमिर्मनोवाचामगोचरम् ॥ ३८॥
आदिमध्यान्तरहितं सर्वभूतहृदि स्थितम् ।
स्वप्रकाशं परं ब्रह्म सत्यानन्दचिदात्मकम् ॥ ३९॥
सततं शतरुद्रीयजपात् साक्षात्प्रकाश्यते ।
ब्रह्महत्याशतं वापि सुरापानशतं तु वा ॥ ४०॥
मातृहत्यादिकं वापि पितृहत्यादिकं तथा ।
शतरुद्रीयजपतो विनश्यति न संशयः ॥ ४१॥
शतरुद्रीयमभ्यस्य नियतो नियताशनः ।
पुत्रपौत्रमयीमृद्धिमणिमादिगुणान्विताम् ॥ ४२॥
अवाप्य जीवन्मुक्तः सन् राजते नात्र संशयः ।
नाष्टाङ्गयोगाभ्यासेन न दानेन नचेज्यया ॥ ४३॥
न वैदैर्न्नागमैः शास्त्रैर्न पुराणैः सुविस्तरैः ।
गतिर्भवति मर्त्यानां शतरुद्रीयजापिनाम् ॥ ४४॥
(या गतिर्भविता नॄणां शतरुद्रीयजापिनाम्) ॥ ४४॥
वेदसारमिदं गुह्यं पावनं सर्वदेहिनाम् ।
महापापक्षयकरं महापुण्यफलप्रदम् ॥ ४५॥
यजुर्वेदे चतुर्थेऽस्मिन्काण्डे प्रश्नो हि पञ्चमः ।
अस्मिन्प्रश्नेशतरुद्रमन्त्रास्तिष्ठन्ति सिद्धिदाः ॥ ४६॥
(प्रश्नेऽस्मिन् शतरुद्रीयमन्त्रास्तिष्ठन्ति सिद्धिदाः) ॥ ४६॥
तस्मादेतद्वेदसारे शतरुद्रीयमीरितम् ।
शतरुद्रीयजपतो ब्रह्म साक्षात्प्रकाश्यते ॥ ४७॥
जातिस्मरत्वमासाद्य भवेत्साक्षात्परः शिवः ।
शतरुद्रीयमाहात्म्यं किञ्चिदेतन्मयोदितम् ॥ ४८॥
सर्वपाप प्रशमनं किं भूयः श्रोतुमिच्छथ ॥ ४९॥
वेदक्षीरमहार्णवोद्यतदधिप्रोद्यत्सुमन्थानव-
च्छ्रीरुद्रान्तरमध्यसंस्थितमहापञ्चाक्षरावृत्तिभाक् ।
तन्मध्यस्थशिवाभिधानमसकृज्प्त्वा जनो मुक्तिभाक्
दूरात्पापमपाकरोति सततं शम्भोः प्रसादाद्द्विजः ॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शतरुद्रीयमाहात्म्यं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः २६ । ७-५०॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 26 . 7-50..
Notes:
Śiva शिव, upon being asked by Umā उमा; describes the Śatarudrīya Māhātmyam शतरुद्रीयमाहात्म्यम्. He mentions that in the middle of the Śatarudrīya शतरुद्रीय occurs the Pañcākṣara पञ्चाक्षर (i.e. Namaḥ Śivāya नमः शिवाय), within which is the Name Śiva शिव that Grants Mukti मुक्ति.
Proofread by Ruma Dewan