ईश्वरप्रोक्तं शिवार्चनोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
नित्यमव्यभिचारेण पूजयध्वं ततः शिवम् ।
पूजितः श्रीमहादेवो मोक्षं दास्यत्यसंशयम् ॥ ४९४॥
श्रीरुद्राय निवेद्यान्नं भोक्तव्यं प्रत्यहं द्विजाः ।
रुद्राभिषिक्तमेवाम्भः पीतव्यं प्रत्यहं द्विजैः ॥ ४९५॥
श्रीरुद्राघ्रातमाघ्रेयं पत्रपुष्पादिकं द्विजैः ।
परिधेयं नवं वस्त्रं श्रीरुद्राय समर्पितम् ॥ ४९६॥
सर्वदा शिवनामैव जपनीयं द्विजैर्द्विजाः ।
सर्वदा शिवपूजैव कर्तव्या मुक्तिकाङ्क्षिभिः ॥ ४९७॥
शिवपूजैव सर्वेषां मुक्तिदा मङ्गलावहा ।
शिवार्चनं विहायान्यन्नास्ति मोक्षस्य साधनम् ॥ ४९८॥
शिवार्चनविहीनानामपि मुक्तिर्भवेद्यदि ।
तदा विन्ध्योऽपि जलधिं तरेदेव न संशयः ॥ ४९९॥
शिवार्चनं विना मोक्षो न भविष्यति सर्वथा ।
सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ५००॥
शिवस्यैव प्रसादेन मुक्ताः पूर्वं मुनीश्वराः ।
स शिवस्य प्रसादात्तु न शिवाराधनं विना ॥ ५०१॥
शिवाराधनहीनानां शिवो नैव प्रसीदति ।
शिवप्रसादविरहे मोक्षोऽपि न भविष्यति ॥ ५०२॥
येनैवाव्यभिचारेण कृतं शङ्करपूजनम् ।
तेनैव शाङ्करः प्राप्यः प्रसादो मुक्तिदायकः ॥ ५०३॥
अत्यन्तदुर्लभा मुक्तिः सा तु शङ्करपूजया ।
अत्यन्तसुलभा जाता शङ्करैकरतात्मनाम् ॥ ५०४॥
शङ्करैकरता धन्याः शङ्करैकार्चनप्रियाः ।
अतस्तैः प्राप्यते मोक्षो दुर्लभोऽप्यतिलीलया ॥ ५०५॥
यथा गृहपतिः स्वीयं गृहं गृहपतिर्यथा ।
शिवैकशरणो मर्त्यः शिवं प्राप्नोति लीलया ॥ ५०६॥
स्वाधीनमन्नं क्षुधितो यथा भुङ्क्ते मुदा तथा ।
शिवैकशरणो मर्त्यः शिवं प्राप्नोति लीलया ॥ ५०७॥
युवा यथा स्वकां कान्तां प्राप्नोति मुदितस्तथा ।
शिवैकशरणो मर्त्यः शिवं प्राप्नोति लीलया ॥ ५०८॥
मुक्तिदः शिव एवातः स शिवः शैववत्सलः ।
शैवेभ्य एव सन्तुष्टो मुक्तिमिष्टां प्रयच्छति ॥ ५२१॥
कल्पान्ते मुच्यते मर्त्यो ब्रह्महापि मुनीश्वराः ।
अशैवस्त्वशिवाचारः कल्पान्तेऽपि न मुच्यते ॥ ५२२॥
अतो यत्नेन सतत यूयं मुक्त्यर्थिनो द्विजाः ।
पूजयध्वं महादेवं सर्वदेवशिखामणिम् ॥ ५२३॥
अतो भजध्वमनिशं भगवन्तमुमापतिम् ।
यूयं विना विलम्बेन पशुपाशविमोचकम् ॥ ५३१॥
भगवान् श्रीमहारुद्रादपरो नास्ति सर्वथा ।
सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ५३२॥
यो वै रुद्रः स भगवानित्यथर्वशिरः स्वयम् ।
भगवान् रुद्र एवेति वदत्येव मुहुर्मुहुः ॥ ५३३॥
तस्मात्स एव भगवानिति `वै' कारतो द्विजाः ।
निर्णयोऽपि कृतस्तेन दुष्टसंशयहारकः ॥ ५३४॥
नमस्ते अस्तु भगवन्नित्येषापि श्रुतिः श्रुता ।
नित्योऽयं भगवच्छब्दः शङ्करस्यैव वाचकः ॥ ५३५॥
अत एव महारुद्रान्नापरो भगवांस्तुतः ।
पूजयध्वं महारुद्रं भगवन्तमुमापतिम् ॥ ५३६॥
नित्यं श्रीरुद्रमाराध्य रुद्राध्यायेन योऽर्चयेत् ।
स निर्मुक्तो महापापैः शिवसायुज्यतामियात् ॥ ५३७॥
सर्वाङ्गोद्धूलनं कृत्वा कृत्वा रुद्राक्षधारणम् ।
यः श्रीरुद्रं जपेन्नित्यं स रुद्रो भवति ध्रुवम् ॥ ५३८॥
रुद्रावर्तनशीलानां श्रीरुद्राविष्टचेतसाम् ।
नित्य बिभेति कालोऽपि सत्यमेवोच्यते मया ॥ ५३९॥
रुद्राध्यायजपे योग्यो भस्मरुद्राक्षभूषणः ।
तज्जपे नेतरो योग्यो यागे पुल्कसवद्ध्रुवम् ॥ ५४३॥
रुद्राध्यायजपे योग्योः शैव एव न चापरः ।
शैव एव यतो योग्यः शैवमन्त्रानुवर्तने ॥ ५४४॥
शिवमन्त्रपरिक्रान्तो रुद्राध्यायोऽत एव सः ।
जपनीयोऽतियत्नेन शैवैरेव शिवार्चकैः ॥ ५४६॥
शिवैकशरणो यस्तु मनोवाक्कायकर्मभिः ।
स शैव इति विज्ञेयो वेदविद्भिर्मुनीश्वराः ॥ ५५०॥
भवन्तोऽपि महादेवं मनोवाक्कायकर्मभिः ।
अनन्यमनसो नित्यं पूजयध्वं (न्तु) प्रयत्नतः ॥ ५५१॥
भस्मनोद्धूलनं कृत्वा सभ्यगापादमस्तकम् ।
रुद्राध्यायेन गौरीशं तोषयन्तु प्रयत्नतः ॥ ५५२॥
ततो बिल्वदलैरीशमर्चयध्वं मुनीश्वराः ।
बिल्वार्चनाद्रुद्रजपात्तोषयध्वं महेश्वरम् ॥ ५५३॥
क्रियते येन सततं केवलं भस्मधारणम् ।
येनेशः पूज्यते बिल्वैः स याति शिवसन्निधिम् ॥ ५५४॥
यो भस्मोद्धूलितवपुर्यो रुद्राक्षविभूषितः ।
स एव योग्यो विप्रेन्द्राः श्रीमहादेवपूजने ॥ ५५५॥
त्यक्त्वा श्रुतिस्मृतं शुद्धं केवलं भस्मधारणम् ।
कुर्वन्वैदिककर्माणि यात्येव नरकं ध्रुवम् ॥ ५५६॥
इदं तु वैदिकं कर्म श्रीमहादेवपूजनम् ।
रुद्राक्षधारणं नित्यं केवलं भस्मधारणम् ॥ ५५७॥
शिवार्चनं च विप्रेन्द्रा वैदिकं मोक्षसाधनम् ।
महादेवार्चनं कार्यं न विना भस्मधारणम् ॥ ५५८॥
शैववर्ममुपाश्रित्य रुद्राध्यायपरो द्विजाः ।
रुद्रलोकमवाप्यान्ते श्रीरुद्रमधिगच्छति ॥ ५५९॥
अविच्छिन्नाम्बुधारावद्रुद्रमावर्तयेद्द्विजाः ।
शिवलिङ्गं योऽभिषिञ्चेत्स निष्पापो भविष्यति ॥ ५६०॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। वावृत्तश्लोकाः॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . vAvRRittashlokAH..
Notes:
Īśvara ईश्वर delivers a detailed Upadeśa उपदेश about the merits worship of Rudra-Śiva रुद्र-शिव.
The Rudrastavaḥ रुद्रस्तवः ``Yo vai Rudraḥ यो वै रुद्रः,'' can be referred to from two of the links given below.
Proofread by Ruma Dewan