ईश्वरप्रोक्तं शिवषडक्षरमन्त्रमाहात्म्यम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवपार्वतीसंवादे -
ईश्वर उवाच ।
पञ्चाक्षरस्य माहात्म्यं कल्पकोटिशतैरपि ।
न शक्यं विस्तराद्वक्तुं तस्मात्सङ्क्षेपतः शृणु ॥ ६॥
वेदे शिवागमे चायं उभयत्र षडक्षरः ।
मन्त्रस्थितः सदा मुख्यो लोके पञ्चाक्षरः स्मृतः ॥ ७॥
सर्वमन्त्राधिकश्चायमोङ्काराद्यः षडक्षरः ।
सर्वेषां शिवभक्तानामशेषार्थप्रसाधकः ॥ ८॥
तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ।
आज्ञासिद्धमसन्दिग्धं वाक्यमेतच्छिवात्मकम् ॥ ९॥
नानासिद्धियुतं दिव्यं लोकचित्तानुञ्जनम् ।
सुनिश्चितार्थगम्भीरं वाक्यं तत्पारमेश्वरम् ॥ १०॥
मन्त्रं सुखमुखोच्चार्यमशेषार्थप्रसिद्धये ।
प्राहोन्नमः शिवायेति सर्वज्ञः सर्वदेहिनाम् ॥ ११॥
तद्बीजं सर्वविद्यानां मन्त्रमाद्यं षडक्षरम् ।
अतिसूक्ष्ममहार्थं च ज्ञेयं तद्वटबीजवत् ॥ १२॥
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत् प्रभुः ।
ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ १३॥
ईशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षरेण च ।
मन्त्रे ॐ नमः शिवायेति सुस्थितो नियतः क्रमः ॥ १४॥
मन्त्रे षडक्षरे सूक्ष्मः पञ्चब्रह्मतनुः शिवः ।
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥ १५॥
वाच्यः शिवः प्रमेयः स्यात् मन्त्रस्तद्वाचकः स्मृतः ।
वाच्यवाचकभावोऽयमनादिः सुस्थितस्तयोः ॥ १६॥
यथानादिप्रवृत्तोऽयं घोरः संसारसागरः ।
शिवोऽपि हि तथाऽनादिः संसारान्मोचकः स्थितः ॥ १७॥
व्याधीनां भेषजं यद्वत् प्रतिपक्षस्वभावतः ।
तद्वत्संसारदोषाणां प्रतिपक्षः स्थितः शिवः ॥ १८॥
असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ।
आदित्येन यथा हीनं निरालोकमिदं जगत् ॥ १९॥
अभावे हीश्वरस्येयं जगत्सृष्टिः कथं भवेत् ।
अचेतनत्वात्प्रकृतेरज्ञत्वादीश्वरस्य च ॥ २०॥
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ।
मत्कर्तृत्वं स्वयं दृष्टं बुद्धिमत्करणं विना ॥ २१॥
धर्माधर्मोपदेशश्च बन्धमोक्षविचारणा ।
न सार्वज्ञ्यं विना पुंसां आदिसर्गे प्रसिध्यति ॥ २२॥
वैद्यं विना निरानन्दाः क्लिश्यन्ते रोगिणो यथा ।
शिवं विना निरानन्दं क्लिश्यते हि जगत्तथा ॥ २३॥
तस्मादनादिः सर्वज्ञः परिपूर्णः सदाशिवः ।
अस्ति नाथः परित्राता पुंसां संसारसागरात् ॥ २४॥
आदिमध्यान्तनिर्मुक्तः स्वभावविमलः प्रभुः ।
सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागमे ॥ २५॥
तस्याभिधानमन्त्रोऽयमभिधेयः ततः स्मृतः ।
अभिधानाभिधेयत्वान्मन्त्रार्थः परमः शिवः ॥ २६॥
एतावद्धि शिवज्ञानं एतावद्धि परं पदम् ।
तदोन्नमः शिवायेति शिववाक्यं षडक्षरम् ॥ २७॥
विधिवाक्यमिदं शैवं नार्थवादः शिवात्मकम् ।
यः सर्वज्ञः सुसम्पूर्णः स्वभावविमलः शिवः ॥ २८॥
लोकानुग्रहकर्ता यः स मृषार्थः कथं भवेत् ।
यद्यथाऽवस्थितं वस्तु गुणदोषैःस्वभावतः ॥ २९॥
यावत्फलं च यत्पुण्यं सर्वज्ञत्वं तथा भवेत् ।
राजा गानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ॥ ३०॥
ते चेश्वरे न विद्यन्ते ब्रूयात्स कथमन्यथा ।
अजाताशेषदोषेण सर्वज्ञेन शिवेन यत् ॥ ३१॥
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ।
तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता ॥ ३२॥
यथार्थं पुण्यपापेषु तदश्रद्धो व्रजत्यधः ।
स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् ॥ ३३॥
वाक्यं मुनिवरैः शान्तैस्तद्विज्ञेयं सुभाषितम् ।
रागद्वेषात्मकक्रोधकामतृष्णानुसारि यत् ॥ ३४॥
वाक्यं निरयहेतुत्वात् तद्दुर्भाषितमुच्यते ।
संस्कृतेनापि किं तेन मृदुना ललितेन वा ॥ ३५॥
अविद्यारागवाक्येन संसारक्लेशहेतुना ।
यच्छ्रुत्वा जायते श्रद्धा रागादीनां च सङ्क्षयः ॥ ३६॥
विरूपमपि तद्वाक्यं विज्ञेयमतिशोभनम् ।
बहुत्वेनापि मन्त्राणां सर्वज्ञेन शिवेन यत् ॥ ३७॥
प्रणीतममलं मन्त्रं न तेन सदृशं क्वचित् ।
सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा ॥ ३८॥
मन्त्रः षडक्षरो भिन्नः सूत्रवृत्यात्मना यथा ।
शिवज्ञानानि यावन्ति विद्यास्थानानि यानि च ॥ ३९॥
षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ।
किं तस्य बहुभिर्मन्त्रैःशास्त्रैर्वा बहुविस्तरैः ॥ ४०॥
यस्यों नमःशिवायेति मन्त्रोऽयं हृदि सुस्थिरः ।
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥ ४१॥
येनोन्नमः शिवायेति मन्त्राभ्यासःस्थिरीकृतः ।
नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ॥ ४२॥
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ।
अन्त्यजो वाऽधमो वापि मूर्खो वा पण्डितोऽपि वा ॥ ४३॥
पञ्चाक्षरजपे निष्ठो मुच्यते पापबन्धनात् । ४४.१
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवषडक्षरमन्त्रमाहात्म्यं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ३४ । ६-४४.१॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 34 . 6-44.1..
Notes:
Upon being asked by Devī देवी; Śiva शिव describes the Māhātmyam माहात्म्यम् of the ŚivaṢaḍakṣaraMantra शिवषडक्षरमन्त्र i.e. Om̐ Namaḥ Śivāya ॐ नमः शिवाय, while also referring to the ŚivaPañcākṣaraMantra शिवपञ्चाक्षरमन्त्र i.e. Namaḥ Śivāya नमः शिवाय.
Proofread by Ruma Dewan