ईश्वरप्रोक्तं शिवधर्माचारकथनम्

ईश्वरप्रोक्तं शिवधर्माचारकथनम्

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवपार्वतीसंवादे - सन्ध्यामुपास्य विधिवद्वैताने जुहुयाद्यजेत् । पञ्चाक्षरं च गायत्रीं श्रीरुद्रं प्रणवं तथा ॥ ४०॥ लिङ्गेऽर्चयन् महादेवं त्रिसन्ध्यं बिल्वपल्लवैः । देवर्षीन् पितृमुख्यांश्च सन्तर्प्यधीतवेदकः ॥ ४१॥ कन्दमूलफलान्नैश्च वर्तयेदतिथिप्रियः । त्रिसन्ध्यमाचरेद्यस्तु शिवार्चनमनुत्तमम् ॥ ४२॥ सन्ध्ययोर्भोजनं देवि मन्नैवेद्याविशेषतः । निषिद्धं शोषयेद्देहं स्वीयं वाप्यतिथेरपि ॥ ४३॥ एवमाचरते धन्यः शिवभक्तः शिवार्चकः । पापकञ्चुकमुत्सृज्य जीर्णां त्वचमिवोरगः ॥ ४४॥ स्ववंश्यपितृभिः सार्धं शिवलोके महीयते । कुर्याद्वर्षं चतुर्मासं महापूजाप्रवर्तते ॥ ४५॥ आषाढ श्रावणे देवि कार्तिके मार्गशीर्षके । एकभक्तेन नक्तेन भुक्तिकामी शिवार्चकः ॥ ४६॥ भोजयेच्छिवभक्तांश्च शक्त्या दानं च दापयेत् । आषाढे फलपूजा स्यात् यस्य कस्य शताष्टकम् ॥ ४७॥ श्रावणे पारिजातैश्च पूजयेल्लक्षसङ्ख्यया । कार्तिके दीपमालाभिर्द्योतयेच्छिवमन्दिरम् ॥ ४८॥ सेवन्तिभिर्मार्गशीर्षे भक्त्या सम्पूजयेच्छिवम् । वसेच्छिवपुरे रम्ये चातुर्मास्यांर्चको नरः ॥ ४९॥ त्रिः सप्तकुलसंयुक्तः सर्वभोगसमृद्धिभाक् । एवं पर्वोत्सवे श्राद्धे मासेषु नियताशनः ॥ ५०॥ भोजयञाछिवनैवेद्यं शिवं सम्पूज्य वाग्यतः । पितरः सर्वदेवाश्च शिवमाश्रित्य संस्थिताः ॥ ५१॥ प्रीते शिवे तु ते सर्वे सुप्रीताः स्युर्नसंशयः । वृक्षस्य मूलसेकेन शाखाः पुष्प्यन्ति वै यथा ॥ ५२॥ शिवे शिवार्चनप्रीते पुष्प्यत्यस्य वपुर्जगत् । नाऽनिष्टमाचरेत् किञ्चित् सर्वदेहेषु सर्वदा ॥ ५३॥ मनोवाक्कायजैर्दोषैर्नियतात्मापि पापिषु । यदि कुर्यात्प्रमादेन सोऽष्टमूर्तेरनिष्टकृत् ॥ ५४॥ किम्पुनः सर्वदेहेषु शिवात्मसु महेश्वरि । ज्ञानवैराग्यसम्पन्नं भस्मनिष्ठं जितेन्द्रियम् ॥ ५५॥ वश्यात्मानं यतात्मानं शान्तं दान्तं तपस्विनम् । भोजयेच्छाम्भवं देवि वेदवेदान्तपारगम् ॥ ५६॥ पङ्क्तिपावनमूर्धन्यं श्राद्धेषु शिवयोगिनम् । यतीश्वरादितत्वानां परिज्ञातारमीश्वरि ॥ ५७॥ नानिष्टं द्वेष्टि सम्प्राप्तं न चेष्टमभिनन्दति । भवेत्साधर्म्यवैधर्म्यमेतज्ञानस्य लक्षणम् ॥ ५८॥ वर्णेष्वप्यधिको विप्रो विप्राद्वेदविदुत्तमः । वेदविद्भ्योऽर्थविच्छ्रेष्ठस्तस्माद्याजी विशिष्यते ॥ ५९॥ ततोऽपि सत्रयाजीस्याद्वर्णिभ्योऽप्यधिको गृही । वनी गृहिभ्योऽप्यधिकः सन्न्यासी च ततोऽधिकः ॥ ६०॥ ततो वेदान्तनिष्कृष्टो रुद्रजापी ततोऽधिकः । सर्वेषामेव वर्णानां त्रैवर्णपुरुषा नराः ॥ ६१॥ पुरुषेभ्यो द्विजश्रेष्ठस्ततो वै ग्रन्थपारगः । ग्रन्थज्ञाद्वेदविद्वांसस्तेभ्यस्तत्वार्थचिन्तकाः ॥ ६२॥ तत्त्वविद्भ्योऽपि देवज्ञो विशिष्ट इति मे मतिः । वेदान्तविद्भ्यः कोटिभ्यो विशिष्टाः शिवयोगिनः ॥ ६३॥ योगज्ञा योगनिष्ठाश्च पितरो योगसम्भवाः । भुङ्क्ते (भुक्त्वा) प्रीणाति (प्रीणन्ति) ते तस्माद्विशिष्टाः शैपिविष्टकाः ॥ ६४॥ सर्वयज्ञतपोदानैः कृतैः साङ्गैश्च यत्फलम् । शाम्भवो वेदविप्रो यो भस्मनिष्ठोऽत्रभुज्यते (शाम्भवो वेदविप्रो यो भुङ्क्ते भस्मसुनिष्ठधीः) ॥ ६५॥ नतेन किं गृहस्थेन प्राप्तं क्रतुशतैरपि । त्रिविद्यावेदिनः श्रेष्ठा नियमाध्यायिनोऽपि च ॥ ६६॥ ततोऽपि याजुषाः श्रेष्ठास्तोवाजसनेयिनः । साम्नां पदस्वराभिज्ञाश्छन्दोगास्तु ततोऽम्बिके ॥ ६७॥ ततोऽथर्वविदः श्रेष्ठास्ततो मन्त्रविदः स्मृताः । कद्रुद्रजाप्यनिरताः शतरुद्रीयजापकाः ॥ ६८॥ भस्मनिष्ठा रुद्रजाप्यनिरताः पापवर्जिताः । ज्येष्ठार्चनरतो विद्वान् ततो वैज्येष्ठसामगः ॥ ६९॥ षडङ्गवित्ततो देवि ततोऽप्युपनिषत्परः । बृहज्जाबालनिरतः पुराणेषु च निष्ठितः ॥ ७०॥ इतिहासार्थविच्छ्रेष्ठस्ततो धर्मविदुत्तमः । तथाऽथर्वशिरोऽध्येता शिखाध्यायी ततोऽपि च ॥ ७१॥ कैवल्योपनिषद्ध्यानाध्यायी मेऽद्य विशिष्यते । कालाग्निरुद्रजापी स्यात्ततोदेवि विशिष्यते ॥ ७२॥ ततः शिवरहस्यज्ञः शाम्भवः श्रेष्ठ उच्यते । वश्येन्द्रियः प्रसन्नात्मा यो न द्वेष्टि न काङ्क्षते ॥ ७३॥ शब्दादिविषयान् भोगान् यो जानाति गुणागुणम् । ज्ञानवैराग्यसम्पन्नः प्रसन्नः संयतेन्द्रियः ॥ ७४॥ युक्तो ह्यष्टाङ्गयोगेन संज्ञानी श्रेष्ठ उच्यते । शिवधर्मोद्भवज्ञानाज्ज्ञानवैराग्यसम्भवः ॥ ७५॥ ज्ञानवैराग्ययुक्तस्य शिवयोगः प्रवर्धते । शिवयोगेन सर्वज्ञः परिपूर्णः स्थिरो भवेत् ॥ ७६॥ स्वात्मन्यवस्थितः सर्वः शिववत्सर्वगो भवेत् । स्वात्मारामस्त्वसङ्गश्च सर्वत्रैव न संशयः ॥ ७७॥ तादृशं भोजयित्वा तु जगद्भोज्य फलं लभेत् । यो वा दोषविनिर्मुक्तां गां च दद्यात्पयस्विनीम् ॥ ७८॥ घण्टाभरणवस्त्राढ्यां सवत्सां च दृढाङ्गकाम् । दद्याद्गोदानमुत्कृष्टं शाम्भवेषु यतात्मसु ॥ ७९॥ मध्यमोत्तमवसत्राणि यो दद्यात्तु नवानि च । शिवभक्तेषु वस्त्राणि यावत्तत्तन्तुसङ्ख्यया ॥ ८०॥ तावद्वर्षशतं देवि स्वर्गलोके महीयते । ब्रह्मचर्यसमोपेतः शान्तः शीलपरायणः ॥ ८१॥ अहोरात्रं न भुञ्जीत उपवासस्य लक्षणम् । अहःसु चाप्युपोष्यैव सायं यामे च भोजयन् ॥ ८२॥ तन्नक्तमिति च प्रोक्तं छायानक्तं दिनान्तिमे । अयाचितं केनचिद्वा दत्तं यद्भुज्यते हि तत् ॥ ८३॥ सक्तून् प्राश्य न दुष्येत वचनात् ब्राह्मणस्य हि । षाण्मासं च हविः क्षारवर्जितं संस्तुतं व्रतम् ॥ ८४॥ चन्द्रायणं तद्विज्ञेयं ह्रासवृद्ध्या तु पक्षयोः । शिशुचन्द्रायणं देवि पक्षयोः शुक्लकृष्णयोः ॥ ८५॥ कुर्वन् कृच्छ्रं शिवं पूज्य लभते फलमुत्तमम् । एवं कुर्वन् शिवाचारं वसेतैवं गृहाश्रमे ॥ ८६॥ वर्णी वनी गृहस्थो वा यतिश्चैव विशेषतः । शिवलोके महीयेत यावद्ब्रह्मा दिवा शिवे ॥ ८७॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवधर्माचारकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४८ शिवधर्माचारः । ४०-८७॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 48 shivadharmAchAraH . 40-87.. Notes: Śivaशिव outlines the procedures for worshipping Him including those via the Śivaliṅga शिवलिङ्ग?; and mentions about the CandrāyaṇaVratam चन्द्रायणव्रतम्. Several other procedures are mentioned throughout the 12 Aṁśa- s १२ अंशाः of the ŚivaRahasyam शिवरहस्यम्. Selected Śloka-s from the chapter are given on this page. Proofread by Ruma Dewan
% Text title            : Ishvaraproktam Shivadharmacharakathanam
% File name             : IshvaraproktaMshivadharmAchArakathanam.itx
% itxtitle              : shivadharmAchArakathanam IshvaraproktaM (shivarahasyAntargatam)
% engtitle              : IshvaraproktaM shivadharmAchArakathanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 48 shivadharmAchAraH | 40-87||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org