ईश्वरप्रोक्तं शिवक्षेत्रप्रभावर्णनम्

ईश्वरप्रोक्तं शिवक्षेत्रप्रभावर्णनम्

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवपार्वतीसंवादे - ईश्वर उवाच । देवैश्च मुनिभिश्चैव सेवितानि विमुक्तये । क्षेत्रे तीर्थानि पुण्यानि चित्तशुध्यर्थमादरात् ॥ १॥ प्रकाश्यन्ते मया तानि श‍ृणु पद्मसमानने । रुद्रावतारस्थानानि शिवक्षेत्राणि दर्शयेत् ॥ २॥ मृतानां तत्र रुद्रत्वं शिवक्षेत्रेषु देहिनाम् । आधायाग्निं शिवक्षेत्रे सम्पूज्य परमेश्वरम् ॥ ३॥ स्वदेहं पिण्डवद्वह्नौ जुह्वन् पञ्चाक्षरेण तु । शिवक्षेत्रे महादेवि शिवसायुज्यमाप्नुयात् ॥ ४॥ छित्वा पदद्वयं वापि शिवक्षेत्रेषु यो वसेत् । स याति शिवतां देवि नात्र कार्या विचारणा ॥ ५॥ क्षेत्राणां दर्शनं पुण्यं प्रवेशस्तच्छताधिकः । तस्माच्छतगुणं पूजा जलस्नानं ततःपरम् ॥ ६॥ क्षीरस्नानमतो देवि शताधिकमनुत्तमम् । दध्ना सहस्रमाख्यातं मधुना तच्छताधिकम् ॥ ७॥ घृतस्नानेन चानन्त्यमुपवासेन सत्तमे । तस्मात्कोटिगुणं देवि देहान्तं शिवसन्निधौ ॥ ८॥ शिवक्षेत्रसमीपस्तथां नदीं वापि तटाककम् । कूपवापिप्रशस्येत शिवतीर्थमिति स्मृतम् ॥ ९॥ स्नात्वा तेषु नरो भक्त्या नरकं नैव विन्दति । शाम्भवान्भोजयेत्तत्र यथायोग्यं यथाबलम् ॥ १०॥ श्रद्धया श्राद्धदानेन पितॄन् तारयते हि सः । भस्मत्तिपुण्ड्ररुद्राक्षधृगेव निवसेच्छिवे ॥ ११॥ रुद्रपञ्चाक्षरपरो रुद्रलिङ्गार्चनप्रियः । नियतो नियमोपेतः शान्तो दान्तः स्थिरासनः ॥ १२॥ उमाकान्तपदध्यायी नितान्तं मुक्त एव सः । वस्त्रापदं रुद्रकोटिरविमुक्तं महाभयम् ॥ १३॥ गोकर्णभद्रकर्णौ च स्वर्णाक्षं त्र्यक्षदीप्तिमत् । स्थाण्वीश्वरं च विख्यातं त्रिषुलोकेषु विश्रुतम् ॥ १४॥ स्थानाष्टकमिदं देवि अष्टमूर्तिप्रियं परम् । वस्त्रापदादि स्थाण्वन्तं शिवसायुज्यदायकम् ॥ १५॥ छगण्डलो द्विरण्डश्च कामोदं माण्डलेश्वरम् । कालञ्जरं शङ्कुकर्णं स्थलेशश्च जलेश्वरः ॥ १६॥ पवित्राष्टकमित्येतच्छैवं क्षेत्रं महाघभित् । मृताः प्रयान्ति तत्रैव शिवस्य परमं पदम् ॥ १७॥ पिण्डारकं कुरुक्षेत्रं तथा कनखलं शिवे । विमलेशाट्टहासं च महाकालमहेन्द्रकम् ॥ १८॥ भीमेश्वराख्यं तत्पुण्यमेतद्गुह्याष्टकं शिवे । मृताः प्रयान्ति गणतां पापाः पुण्या अपि स्थिरम् ॥ १९॥ श्रीपर्वतो हरिश्चन्द्रः केदारो मन्त्रकेश्वरः । ओङ्कारो भैरवेशश्च मध्यमेशः सितेश्वरम् ॥ २०॥ एतद्गुह्याष्टकं क्षेत्रं शिवसायुज्यदायकम् । सन्तर्प्य च पितॄन् श्राद्धे प्रीणयेद्देवि शाम्भवान् ॥ २१॥ अमरेशं प्रभासं च नैमिशं पुष्करं तथा । आपाटं पडिमण्डी च हरभूमिर्भवानकः ॥ २२॥ एतच्छैवाष्टकं क्षेत्रं शिवसायुज्यदायकम् । लकुलीशः प्रवाजश्च करञ्ज त्र्यम्बकेश्वम् ॥ २३॥ नागेश्वरं वैद्यनाथं सोमेशं घुसृणीश्वरम् । क्षेत्राष्टकमिदं देवि मम प्रियकरं सदा ॥ २४॥ अत्र यान्ति मृताः सर्वे रुद्रस्य परमं पदम् । पञ्चाष्टकमिदं ज्ञेयं शिवक्षेत्रं सलक्षणम् ॥ २५॥ यत्रैव भावसंसक्ता भावा यान्त्यपुनर्भवम् । स्नानं दानं तथा श्राद्धं ये कुर्युश्चात्र भावतः ॥ २६॥ शिवावसथकूपाद्यं तदक्षय्यफलं भवेत् (व्रजेत्) । २७.१॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवक्षेत्रप्रभावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४९ सर्वक्षेत्रप्रभावकथनम् । १-२७.१॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 49 sarvakShetraprabhAvakathanam . 1-27.1.. Notes: Śiva शिव; while mentioning the names of some of the Śivakṣetra शिवक्षेत्र, outlines the effects and merits of being in and/or breathing one’s last in a Śivakṣetra शिवक्षेत्र especially in terms of attaining ŚivaSāyujya शिवसायुज्य. Details of several Śivakṣetra शिवक्षेत्र are described in various of the 12 Aṁśa- s १२ अंशाः of the ŚivaRahasyam शिवरहस्यम्. Selected Śloka-s from the chapter are given on this page. Proofread by Ruma Dewan
% Text title            : Ishvaraproktam Shivakshetraprabhavarnanam
% File name             : IshvaraproktaMshivakShetraprabhAvarNanam.itx
% itxtitle              : shivakShetraprabhAvarNanam IshvaraproktaM (shivarahasyAntargatam)
% engtitle              : IshvaraproktaM shivakShetraprabhAvarNanam
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 49 sarvakShetraprabhAvakathanam | 1-27.1||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org