ईश्वरप्रोक्तं शिवलिङ्गार्चनविध्युपदेशम् २

ईश्वरप्रोक्तं शिवलिङ्गार्चनविध्युपदेशम् २

(शिवरहस्यान्तर्गते ईश्वराख्ये) - शिवगौरीसंवादे - ईश्वरः (उवाच) अतः परं प्रवक्ष्यामि नित्यनैमित्तिके फलम् । कालं लिङ्गविशेषं च ब्रह्मक्षत्रविशां तथा ॥ १॥ आश्रमाणां च सर्वेषां एष लिङ्गार्चने विधिः । नित्यलिङ्गार्चन शस्तं धातुस्फटिकसम्भवम् ॥ २॥ बाणलिङ्गं मारकतं रसेन्द्रककृतं शिवे । पार्थिवं कामदं ज्ञेयं सर्वकर्मसु शोभने ॥ ३॥ न यस्य शिवलिङ्गार्चा गृहे भवति शङ्करि । स नित्यसूतकी ज्ञेयो ब्राह्मणो वान्त्यजोऽपि वा ॥ ४॥ बाणलिङ्गं न यस्यास्ति गृहे बिल्वादिपूजितम् । तद्गृहे जलमल्पं वा न पेयं सर्वथा बुधैः ॥ ५॥ एककालं द्विकालं वा त्रिकालं नित्यमेव वा । येऽर्चयन्त्येव नियतं मम लिङ्गं महेश्वरि ॥ ६॥ ते वै गणेन्द्रा विज्ञेया मम तोषप्रदाः शिवे । प्रदोषेषु विशेषेण यः पूजयति शङ्करम् ॥ ७॥ स महापातकैर्मुक्तो भविष्यति न संशयः । ऋणदारिद्र्यनाशाय प्रदोषे पूजयेच्छिवम् ॥ ८॥ घृताभिषेकं कुर्वीत कुर्यात्पलदशेन(दशपलेन) वै । उत्पलैर्बिल्वपत्रैश्च पूजनीयो महेश्वरः ॥ ९॥ सोमवारेऽर्चने शम्भोर्नक्तमायुष्यवर्धनम् । क्षीरेण स्नापयेद्देवं कपिलासम्भवेन वा ॥ १०॥ कमलैर्बिल्वपत्रैश्च पूजनीयो भवो मुने । चतुर्दश्यां निशीयिन्यामपामार्गौश्च बिल्वकैः ॥ ११॥ पूजयेल्लिङ्गमेकाग्रो दध्ना संस्नापयेच्छुचिः । कालाष्टम्यां कालकालमर्चयेन्नियतव्रतः ॥ १२॥ मधुना स्नाप्य देवेशं बिल्वपत्रैः प्रपूजयेत् । बोधायनोक्तविधिना सर्वनक्तव्रतं शिवे ॥ १३॥ तत्रावाहनपूजां च प्रवक्ष्यामि शिवे तव । यथाभिरुचिरे(ते) लिङ्गे धातुजे स्फाटिकेऽपि वा ॥ १४॥ बाणे(णं) रसेन्द्रकलिते(तं) तथा मरकतोद्भवम् । स्थाप्य पीठे रङ्गवल्लीमण्डिते चोपलेपिते ॥ १५॥ भूमौ नक्तव्रतो मौनी स्नात्वा भस्मत्रिपुण्ड्रधृक् । रुद्राक्षमालाभरणो जपेत्पञ्चाक्षरं मनुम् ॥ १६॥ करे करतले चैव हृदये च न्यसेद्बुधः । ध्यायेत्तत्र महादेवं पूजादौ जपकर्मणि ॥ १७॥ मूले कल्पद्रुमस्य द्रुतकनकनिभं हेमसिह्मासनस्थं वामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम् । सर्वालङ्कारदीप्तं वरपरशुमृगाभीतिहस्तं त्रिणेत्रं वन्दे चन्द्रार्धचूडं गुहगणपशिवाश्लिष्टपार्श्वं महेशम् ॥ १८-१९॥ ध्यात्वैवं मूलमन्त्रं तु जपेदष्टोत्तरं शतम् । सोदकं कलशं पूज्य गन्धपुष्पाक्षतैर्युतम् ॥ २०॥ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले चास्य स्थितो ब्रह्मा मध्ये मातृगणाः स्थिताः ॥ २१॥ कुक्षौ तु सागराः सर्वे कलशस्य(शाम्बु) समाश्रिताः । आयन्तु शिवपूजार्थं दुरितक्षयकारकाः ॥ २२॥ एवं कलशमभ्यर्च्य पश्चाच्छङ्खं समर्चयेत् । त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ॥ २३॥ पूजितस्सर्वदेवैश्च पाञ्चजन्य नमोऽस्तुते । ततः शङ्खस्थतोयं तु समन्तात् परितः क्षिपेत् ॥ २४॥ गङ्गे च यमुने चेति कलशस्य जलं स्पृशेत् । पीठपूजां ततः कुर्याद्गुरुं गणपतिं तथा ॥ २५॥ दक्षवामे तथाधारशक्तिं च प्रकृतिं पराम् । अनन्तं पृथिवीं चैव कैलासं रत्नमण्टपम् ॥ २६॥ कल्पवृक्षं रत्नवरसिह्मासनमनुत्तमम् । श्वेतच्छत्रं चामरं च प्रागादिक्रमयोगतः ॥ २७॥ धर्मज्ञानादिवैराग्यैश्वर्यं च प्राक्समर्चयेत् । अधर्मं च तथाऽज्ञानमवैराग्यमनैश्वरम् ॥ २८॥ दक्षिणे पूजयेदेतान् सत्यं चैव रजस्तमः । मायां विद्यां च वह्नि च अर्कसौमौ तथैव च ॥ २९॥ आत्मानं च ज्ञानपद्मे प्रागादिदलके यजेत् । वामां ज्येष्ठां तथा रौद्री कालीं कलविकारिणीम् ॥ ३०॥ बलां बलप्रमाथां च सर्वभूतदमन्यकाम् । मनोन्मनीं तथैवान्त्यां पूजयेत्साक्षतादिभिः ॥ ३१॥ आवाह्य क्षणिके लिङ्गे पार्थिवे धातुजेऽथवा । वाणवर्जं रसेन्द्रे वा स्फाटिके रत्नजेषु वा ॥ ३२॥ साक्षतं च सपुष्पं तु गृह्य स्वहृदयान्तरे । ध्यायेदेवं विरूपाक्षं निमील्याक्षीणि सत्तम ॥ ३३॥ वन्दे महेशं सुरसिद्धसेवितं सुरद्रुमैः पूजित पादपद्मम् । विद्याप्रदं भक्तजनैश्च सेवितं ध्यायेत्सदा साम्बशिवं प्रसन्नम् ॥ ३४॥ सर्वाधारे धरे देवि पूजार्थं शङ्करस्य हि । स्थानं देहि महादेवि पूजिता भव मे सदा ॥ ३५॥ इत्यक्षताभिः सम्पूज्य घण्टामाताडयेत्ततः । आगमार्थं तु देवस्य गमनार्थं तु रक्षसाम् ॥ ३६॥ घण्टानादं करोम्यद्य तेन प्रीतो भवेच्छिवः । लिङ्गं पीठे च संस्थाप्य देव्या सह ततो यजेत् ॥ ३७॥ सपुष्पं साक्षतं गृह्य प्रार्थयेत महेश्वरम् । आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः ॥ ३८॥ आराधयामि शक्त्या त्त्वं गृहाण परमेश्वर । आत्वावहं त्वनीशान्ते सोदकेनाभिषेचयेत् ॥ ३९॥ मधुपर्कं ततो दद्यात् मूलेनैव तदा मुने । आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥ ४०॥ घृतं मिमिक्षेति घृतं मधुवातेतिवै मधु । स्वादः पवस्वेति सितां नारिकेलजलं तथा ॥ ४१॥ रम्भापानस आम्रादिजम्बीरैक्षुरसैरपि । षडक्षरेण संस्नाप्य गन्धरत्नसुमाम्बुभिः ॥ ४२॥ अभिषिच्य ततो न्यस्य अन्धसस्पतयेत्यपि । कुर्वीतान्नाभिषेकान्तं तन्निर्वर्त्य सुशीतलैः ॥ ४३॥ धारापात्रगताम्भोभिरविच्छिन्नाम्बुधारया । गोश‍ृङ्गैरपि वा सम्यग्रुद्रावृत्त्याऽभिषेचयेत् ॥ ४४॥ एकवारं त्रिवारं वा तथैकादशिनीमपि । संस्नाप्यासाद्य पीठे च वासश्चैवोपवीतकम् ॥ ४५॥ दद्यात् त्रियम्बकेनैव भूतिं गन्धाक्षतांस्तथा । उत्तानैरुत्तराग्रैश्च बिल्वैः सङ्क्षालितैर्यजेत् ॥ ४६॥ मालाभिः कुसुमैश्चैव शताष्टोत्तरनामभिः । भवायेति तथैवाष्टौ निधनेत्यादिभिस्तथा ॥ ४७॥ धूपं दीपं च नैवेद्यं ताम्बूलं च विशेषतः । देवीपार्श्वे यजेच्छम्भोः वामे दक्षेऽथवा मुने ॥ ४८॥ देवीमन्त्रेणाभिषिच्य गन्धधूपादिवाससा । पूजयेल्लिङ्गपार्श्वे तु स्कन्दं च गणपं तथा ॥ ४९॥ नीराजयेत्ततो लिङ्गे देवीं स्कन्दविनायकौ । कांस्यवादित्रनिनदैर्घोषयेच्छिवमन्दिरम् ॥ ५०॥ प्रदक्षिणात्रयं कृत्वा नमस्कारादिपञ्चकम् । षडक्षरेण मन्त्रेण कुर्वीत मुनिसत्तम ॥ ५१॥ छत्रं च चामरे दिव्ये व्यजनादर्शकं ततः । नृत्तं गीतं तथा वाद्यं प्रदद्यान्मूलमन्त्रतः ॥ ५२॥ स्तोत्रमेतत् पठेद्विद्वान् वेदत्रयगतं द्विज । नमो नाथात्मने तुभ्यं नमो बिन्दुकलात्मने ॥ ५३॥ अलिङ्गलिङ्गरूपाय रूपातीताय ते नमः । त्वं माता सर्वलोकानां त्वमेव जगतां पिता ॥ ५४॥ त्वं भ्राता त्वं सुहन्मित्रं त्वमेव प्रपितामहः । नमः सद्याय देवाय नमस्तत्पुरुषाय च ॥ ५५॥ अघोराय नमस्तेऽस्तु वामदेवाय ते नमः । ईशानाय नमस्तेऽस्तु देवदेवाय ते नमः ॥ ५६॥ शर्वाय क्षितिरूपाय शुद्धमात्राय ते नमः । नमः पशूनां पतये पावकायामितौजसे ॥ ५७॥ भीमाय वाक्स्वरूपाय शब्दरूपाय ते नमः । महादेवाय सोमाय अमृताय नमो नमः ॥ ५८॥ उग्राय यजमानाय नमोऽस्त्वाकाशमूर्तये । त्वदष्टमूर्तिभिर्व्याप्तं जगत्सर्वं चराचरम् ॥ ५९॥ मया ज्ञानतः शम्भो यत्कृतं पूजनं तव । तत्क्षमस्व महादेव शरणागतवत्सल ॥ ६०॥ इति स्तुत्वा जपेन्मन्त्रं षडक्षरमतन्द्रितः । न्यासं दिङ्मोचनं कृत्वा शङ्खतोयं भ्रमेत च ॥ ६१॥ तेनैव प्रोक्षयेद्देहं निर्माल्याम्बु पिबेत् त्रिधा । एक कालं द्विकालं वा त्रिकालं वा यथा बलम् ॥ ६२॥ अष्टम्यां सोमवारेषु प्रदोषे दोषवर्जिते । चतुर्दश्यां तथा नक्तं नित्यनैमित्तिकेऽपि च ॥ ६३॥ ग्रहणे विषुवे चैव पूजेयं कथिता तव । नास्ति शम्भोः पूजनेन सदृशं कर्म पावनम् ॥ ६४॥ पूजया भोगमोक्षौ च सिध्यतः किं बहूक्तितः । उत्तुङ्गमातङ्गतुरङ्गपङ्क्तिः स्यात्तुङ्गलिङ्गार्चकगेहनिष्ठा । धनं च धान्यं वरवस्त्ररत्न- भोगांश्च लब्ध्वेह विमुक्तिमन्ते ॥ ६५॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवलिङ्गार्चनविध्युपदेशं २ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४६ । १-६५॥ - .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 46 . 1-65.. Notes: Śiva शिव describes the procedures of worshipping Him through Śivaliṅga शिवलिङ्ग made of various materials, using various Dravya द्रव्य; especially during Pradoṣa प्रदोष, Somavāra सोमवार, Night of Caturdashī चतुर्दशी, KālāAṣṭami कालाष्टमी, Grahaṇa ग्रहण, Viṣuva विषुव etc. Proofread by Ruma Dewan
% Text title            : Ishvaraproktam Shivalingarchanavidhyupadesham 2
% File name             : IshvaraproktaMshivalingArchanavidhyupadesham2.itx
% itxtitle              : shivaliNgArchanavidhyupadesham 2 (IshvaraproktaM shivarahasyAntargatA)
% engtitle              : IshvaraproktaM shivalingArchanavidhyupadesham 2
% Category              : shiva, pUjA, upadesha, advice, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshvarAkhyaH dashamAMshaH | adhyAyaH 46 | 1-65||
% Indexextra            : (Scan)
% Latest update         : September 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org