ईश्वरप्रोक्तं शिवलिङ्गार्चनोपदेशम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवगौरीसंवादे -
ईश्वर उवाच ।
अर्केन्दु बिम्बेष्वनले च लिङ्गे
हृद्युत्तमाङ्गे मम देवि पूजनम् ।
प्रशस्तमाहुर्निगमागमाः शिवे
तत्पूजनं मे सफलं भवेत्सदा ॥ १०॥
प्रातर्दर्शनमीश्वरस्य विपुलं नैशं विनश्येदघं
मध्याह्ने हयमेधपुण्यफलदं सायान्तने जन्महृत् ।
स्यादर्धेन्दुकलावतंसभजनं सम्पूजनं लोकनं
धन्यानां किल जायते त्रिभुवने पापौघतापौघहृत् ॥ ११॥
अर्वागामलकात्स्वतोलधुतरं लिङ्गं न शस्तं शिवे
सर्वद्रव्यभवं हि सूक्ष्ममपि तद्रत्नोद्भवं शस्यते ।
नैतत्स्फाटिकधातुमारकतके .....कोत्तुङ्गिनं(?)
लिङ्गनैव हि दोषभागकमलं तुङ्गं हि शस्येत मे ॥ १२॥
सूक्ष्मे स्फाटिक तथा मरकते सद्विद्रुमे कीटिते
त्रासस्त्रासकरो भवेत गिरिजे तुङ्गे न लिङ्गे त्वघम् ।
मृत्स्ना चापि चतुष्टयाङ्गुलहितं अर्वाक् ततो दोषकृत्
पाषाणप्रभवं गृहेषु निहितं हन्त्येव पुण्यं कृतम् ॥ १३॥
धातुभ्योऽप्यधिकं सुरत्नकलितं क्लृप्तं ततः पार्थिवं
तस्मादप्ययुताधिकोत्तमफलं स्याद्बाणलिङ्गं रसम् ।
शम्भोरुत्तमवीर्यजान्नहि परं लिङ्ग तथा वै चरं
दैवं च स्थिरमार्यमानुषकृतं स्वायम्भुवं स्यात्फलम् ॥ १४॥
पार्थप्रहाराङ्कितहेमबिन्दु-
चितं भवेन्नार्मदलिङ्गमीशे ।
त्रिपञ्चवारं तुलया न साम्यं
प्रयाति तद्बाण भवं प्रशस्तम् ॥ १५॥
श्वेतं मुक्तिदमम्बिकेऽसितमहो पुण्याभिवृद्धिप्रदं
रक्तं नार्मदलिङ्गमप्यघहरं दारिद्र्यदं पूजनात् ।
प्रादेशादधिकं चरार्चनविधौ नैतच्च तत्स्थावरम् ॥ १६॥
सपीठापीठं वा भवतु गिरिजे नार्मदभवं
प्रशस्तं हस्ताभ्यां स्पृशति यदि हस्तेन भयतः ।
तथैवार्चा बिल्वैर्यदि परममुक्तिं किल लभेत्
गृहे संस्थं क्षेत्रं प्रभवति ततः क्षेत्रममजे ॥ १७॥
चराचरे वा विपिने नगे वा
स्थितं च लिङ्गं यदि पूज्य दृष्ट्वा ।
तद्बाणलिङ्गं मम पूज्यमेव
तत्स्थावरार्चेक्षणपुण्यभाक् भवेत् (स्यात्) ॥ १८॥
यद्दत्तं नियमार्चनाय गुरूणा लिङ्गं प्रपूज्यं सदा
रत्नस्फाटिक धातुबाणकलिते तल्लिङ्गभङ्गे शिवे ।
प्राणानप्यसमीक्ष्य यस्त्यजति (यो यजति) स स्याद्भक्तवर्योऽम्बिके
तस्याहं वितरामि मुक्तिमधिकां तत्तुल्यमर्चेत वा ॥ १९॥
ईशार्चना विरहितं यदि भक्ष्यभोज्य-
मन्नं फलं कीटक सम्मितं भवेत् ।
त्यक्त्वा नरो यस्सतु पञ्चवत्सरं
प्रतप्तशैले निवसेत् शिवार्चनाम् ॥ २०॥
नियमाच्छिवलिङ्गमर्चयेत्
मरणे वापि त्यजन् स एव पापी ।
यदि सन्त्यजते प्रमादतोऽर्चां
स हि कुर्याच्च उपोष्य भक्तियुक्तः ॥ २१॥
न प्राणलिङ्गनियमः कलिजद्विजानां
शस्तः प्रशस्तमगजे किल हस्तबन्धम् ।
लिङ्गं गले च हृदये किल तान्त्रिकाणां
देवस्य धारणविधिं प्रवदन्ति वेदाः ॥ २२॥
नायं वैदिक सम्मतो विधिरयं लिङ्गार्चने केवलम् ।
भस्माक्षादि विधारणं च नियतं त्याज्यं न चैतत् द्विजैः ॥ २३॥
सर्वेन्द्रियादिरहितो यदि पुत्रकृत्यम् ।
तस्यार्चनं भवति शैलसुते त्रिसत्यम् ॥ २४॥
तुङ्गं यावच्चलिङ्गं परिणतिरपि सा तावती योनिरुक्ता
शक्ता विस्तीर्ण वृत्ता भवति गिरिसुते उन्मुखी पीठतोर्ध्वा ।
पीठं चापि चतुष्कवृत्तकलितं तल्लिङ्गमानाङ्गुलं
व्यायामोच्छ्रितवृत्तमध्यरहितं न्यूनाधिकं दोषकृत् ॥ २५॥
नेदं मानं मनोज्ञं भवति गिरिसुते लिङ्गमाने स्वयम्भौ (?)
वार्षेऽपि वदन्ति मानुषविधौ तत्स्थावरे वा चरे ।
रत्नेधातुविनिर्मिते स्फटिकजे स्यान्मृत्तिकाकल्पिते
सूत्रीपञ्चकमेतदेव कथितं स्याद्भोगमोक्षप्रदम् ॥ २६॥
न्यूनाधिकं भवति दोषकरं हि लिङ्गं
आयुः प्रजाधनपशून् प्रविनाशयेत ।
तस्मात्समाङ्गुलमिदं प्रविचार्य कुर्यात्
लिङ्गं मनोज्ञमगजे विधिरेष शुद्धः ॥ २७॥
शम्भोर्लिङ्गे स्वयम्भौ(?) ऋषिसुरनिहिते बाणलिङ्गे चरे वा
रत्नस्फाटिक धातुसम्भवमहालिङ्गे मृदा पारदे ।
ध्यात्वा वा हृदयाम्बुजे द्विजवरश्चण्डेशनिर्माल्यभाक्
नो भूयादितरेषु वैदिकवरः तन्न स्पृशेद्दूषकम् ॥ २८॥
एतेषामघहारि निर्मलतरं निर्माल्यमप्यद्रिजे
चण्डेशाधिकृतिर्न तत्र कलिता न ग्राह्यमेव द्विजैः
तन्त्रेष्वागमयन्त्रमन्त्रसहितं स्त्रीशूद्रसम्पूजितं
न ग्राह्यं किल चण्डभुक्तमगजे तद्वैदिकैः केवलम् ॥ २९॥
बाणस्फाटिक धातु लिङ्ग निवहे पुण्ये रसेन्द्रोद्भवे
स्वायम्भौ (?) हृदयाब्जकोशकलिते दत्तम्पुरस्ताद्धि यत् ।
नैवेद्यं च वरान्न भक्ष्य फलजं ग्राह्यं तथा वैदिकैः
अन्यत् प्रक्षाल्यमेषां फलरसगणजं त्याज्यमन्नं तथान्यत् ॥ ३०॥
शावे चापिसूतकेऽपि गिरिजे मल्लिङ्गसङ्गोज्झितः
दूराद्बिल्वदलं त्यजन्ति सुधियः(?) नित्यार्चना तेन हि ।
स्यादेवं नियमोऽप्यजायत शिवस्तेनैव सन्तुष्यति ॥ ३१॥
पत्रं त्रिणेत्रप्रियमेव बिल्व-
मपात्रमप्यद्रिसुते सुपात्रम् ।
करोति मल्लिङ्ग समर्चनासु
शुष्कं तथा पर्युषितं पवित्रम् ॥ ४२॥
रत्नस्वर्णविनिर्मितोरुकुसुमं यादृक् च सङ्क्षालितं
पूर्वद्युः प्रतिपादितं गिरिसुते सम्यक् पुनः पूजयेत् ।
तद्वत् क्षालितमेवबिल्व मगजे सङ्क्षालितं पूजेत्
पत्रालाभविधौ शिवार्चकजनैर्निर्माल्यता नोचिता ॥ ४४॥
प्रदोषकाले शशिखण्डचूड-
लिङ्गं विलोक्यं वृषगोविषाणयोः ।
तद्दण्डसंस्पृष्टकरो नरोवरः
स सर्वतीर्थाप्लुतविग्रहो भवेत् ॥ ४५॥
मन्दप्रदोषेषु विशेषदर्शिनो
विभूतिभूषाः सहयोषवर्गाः ।
सानन्दमिन्दुशकलाभरणोत्तमाङ्ग-
लिङ्गार्चनेन ससुराश्च नयन्ति कालम् ॥ ४७॥
ऋणत्रयापाकरणाय शस्तं
प्रदोषकालीनशिवार्चनं मे ।
तद्दुःखदारिद्र्य विनाशकं शिवे
नित्यं च नैमित्तिककामदं च ॥ ४८॥
वारव्रते द्विजगणैश्च निषेधितेऽपि
न त्याज्य एव नगजे किल सोमवारः ।
सर्वेषु मासगणनासु विशिष्टमासो
यः श्रावणोर्जपरमोऽपि सुपुण्यभाक् स्यात् (?) ॥ ४९॥
सोमामास्वपि नक्तभोजनरतो भक्तोऽथ मुक्तो भवेत्
युक्तो वाप्यघसञ्चयेन गिरिजे सुव्यक्तमेवोच्यते ।
सक्तश्चाप्युपवासकर्मणि सदा नो चेत् दिवान्त्यक्षणे
क्षीणाघः किल शङ्करार्चनरतो भुक्त्वैव मुक्तो भवेत् ॥ ५०॥
कालाष्टम्यां निशीथे शतपथगदिते यामिनीनाथचूड-
ध्यानानन्देन लिङ्गार्चनविधिविधुरो मूढ एव दृढं सः ।
तस्यां पञ्चास्यलिङ्गं हृदि भुवि विहितं पूज्य बिल्वैस्तथाज्यैः
हुत्वा मां नगकन्यके शिखिमुखे सायुज्यमाप्नोति ॥ ५१॥
चतुर्दश्यां ईशे शशिरहितपक्षान्त्य दिवसे
निशीथव्यापिन्यां यदि यजति लिङ्गं मम परम् ।
प्रशस्तं हस्ताभ्यां परिदलितबिल्वच्छदवरैः
स मुक्तः पापौघैर्भजति च विमुक्तिं द्विजवरः ॥ ५२॥
क्षीरेणैव शतापराधमगजे दध्ना सहस्रं धृतैः
साहस्रं दशकं तथैव मधुना तच्चायुतं वा सिताम् ।
दत्त्वा मल्लिङ्गमौलौ फलकुलजरसैः सर्वमीशे सहेऽहं
तस्मै तद्वितरामि भक्तिपरमानन्दं मुहुः शाम्भवम् ॥ ५३॥
नद्यां गोष्ठे गृहे वा शिखरिशिखरके पुण्यदेशे वने वा
बिल्वस्याधः शिवाग्रे मम यदि विमलं लिङ्गमर्चन् प्रशस्तः ।
तत्त्वेकाधिकमुत्तरोत्तरगुणं प्राहुः शिवार्चा विधौ
गङ्गायां यदि लिङ्गपूजनविधिःस्यात्कोटिगुण्यः शिवे ॥
धातुभ्यो रत्नलिङ्गं किल विमलमहो पूजयेद्बाणलिङ्गे
तस्मादप्यगजे रसेन्द्रककृते स्यात्कोटिलिङ्गार्चनम् ।
पुण्यं चापि दिशेत (?) मुक्तिमपि वै नातोऽधिकं कीर्त्यते
शुद्धं चेद्यदि मुक्तिदायकमतो नोचेत्सुखायुः प्रदम् ॥ ६२॥
मस्तं यद्भसितत्रिपुण्ड्रकलितं विश्वेश्वरे यन्नतं
हस्तौ तौ शिवलिङ्ग पूजनरतौ शस्तौ च बिल्वार्चकौ ।
नस्तं यच्छिवपादपङ्कजलसत्पुष्पाम्बुजाघ्रेयकं
तन्नेत्रे सफले त्रिणेत्रविलाल्लिङ्गावलोके तते ॥ ६८॥
तत्पादौ शिवलिङ्गधामगतिदा तत्प्रक्रमेषूद्यतौ
चित्तं तच्छिवमूर्ति चिन्तनरतं वाणी शिवाख्यास्तुतौ ।
शस्तं तस्य समस्तभाग्यमगजे पापं विशस्तं भवेत् ॥ ६९॥
धन्यास्त एव सितभस्मलसत्त्रिपुण्ड्राः
मान्यास्त एव शिवलिङ्गसमर्चका मे ।
अन्ये पुनर्भुविसुखैकपरा भवन्ति
वन्या वनीप्रभवकोलखराजतुल्याः ॥ ७०॥
विहाय शिवपूजनं किमिति कायदुःखाधिक-
श्रमाश्रमनिषेवणैर्नियमयोगसंसेवनैः ।
अपायदमिदं शिवे विमलमुक्तिसन्दर्शने
उपायमिदमेव यच्छिवकथासु सक्तं मनः ॥ ७१॥
सुगमोऽयं विधिरेव केवलो
निगमान्तेषु नितान्तबोधितः ।
अगमानाधिकपापवर्गहर्ता
भगनेत्रघ्नमुदे भवेद्धि कर्ता ॥ ७१॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवलिङ्गार्चनोपदेशम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ५० । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 50 . vAvRRittashlokAH ..
Notes:
Śiva शिव details to Devī देवी about worshipping Him especially through Śivaliṅga शिवलिङ्ग.
Proofread by Ruma Dewan