ईश्वरप्रोक्तं शिवलिङ्गपूजाकथनम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवगौरीसंवादे -
देव्युवाच ।
देव देव महादेव कैलासशिखरप्रिय ॥ २॥
तव प्रियकराणीह कानि लिङ्गानि शङ्कर ।
तेषामुत्कर्षतः शम्भो पूजां चैवाधिकारिताम् ॥ ३॥
वद लिङ्गानि कानि स्युस्तव पूजाविधौ शिव ।
ईश्वर उवाच ।
शृणु पद्मपलाशाक्षि गिरिजे विरजेऽमले ॥ ४॥
नित्ये नैमित्तिके काम्ये वक्ष्ये लिङ्गान्यनुक्रमात् ।
तेषां पूजाविधिं चापि मानं लक्षणमीश्वरि ॥ ५॥
पार्थिवात्तैजसं लिङ्गं वरिष्ठं परिकीर्तितम् ।
तैजसाद्रत्नलिङ्गानि वरिष्ठान्यर्चनाविधौ ॥ ६॥
चराचरविभागेन लिङ्गं द्वेधा विनिर्मितम् ।
पाषाणं स्थावरं प्राहुर्बाणलिङ्गविवर्जितम् ॥ ७॥
तत्स्थूलं स्थावरं प्राहुश्चरं तु चतुरङ्गुलम् ।
सर्वाण्यपि च लिङ्गानि स्थूलान्येव प्रशस्यते ॥ ८॥
रत्नानि सूक्ष्मलिङ्गानि प्रशस्तानि शुभानने ।
सत्रासान्यपि लिङ्गानि शस्तानि मम पूजने ॥ ९॥
रत्नलिङ्गेषु देवेशि फलं वक्ष्येऽनुपूर्वशः ।
आयुर्वृद्धिकरं हीरं रोगहृन्मौक्तिकोद्भवम् ॥ १०॥
सुखकृत्पुष्यरागोत्थं वैडूर्यं शत्रुनाशकम् ।
पद्मरागं च लक्ष्मीदं इन्द्रनीलं यशःप्रदम् ॥ ११॥
वैद्रुमं धनदं नित्यं गोमेदं पुत्रपौत्रदम् ।
लिङ्गं मारकतं पुष्टौ स्फाटिकं सर्वकामदम् ॥ १२॥
हेमजं मुक्तिदं देवि राजतं ज्ञानदं नृणाम् ।
पूजयेत्ताम्रलिङ्गं तु पुष्टितुष्टिपशुप्रदम् ॥ १३॥
पुत्रदं पैत्तलं लिङ्गं कांस्यं कीर्तिप्रदं शिवे ।
शत्रुमारणकामस्तु लिङ्गं लोहमयं जपेत् (यजेत्) ॥ १४॥
तथा सीसमयं लिङ्गमायुष्कामो यजेत्सदा ।
शिवे रसमये लिङ्गे सदा सन्निहितोऽस्म्यहम् ॥ १५॥
तत्पूजया कोटिलिङ्गपूजा ह्यह्नैव लभ्यते ।
न प्रतिष्ठादिसंस्कारस्तल्लिङ्गस्य महेश्वरि ॥ १६॥
रत्नधातुजलिङ्गेषु शताब्दान्ते प्रतिष्ठितिः ।
प्रतिमायां चित्रपटे तथादर्शे महेश्वरि ॥ १७॥
अयने पर्वयोर्देवि तत्र कुर्यात्प्रतिष्ठितिम् ।
पार्थिवादीनि लिङ्गानि वक्ष्यामि परमेश्वरि ॥ १८॥
मृद्भवं दारुजं लिङ्गं सैकतं पिष्टनिर्मितम् ।
गान्धं सौभाग्यदं विद्धि छन्नमायुर्विवर्धनम् ॥ १९॥
पौष्पं सर्वार्थदं देवि मानदं शृङ्ग निर्मितम् ।
सेनापत्यप्रदं पुंसां नागदन्तमयं शिवे ॥ २०॥
शालिपिष्टोद्भवं लिङ्गं पशुदं यवजं बलम् ।
गोधूमजं वातहरं मौद्गं स्त्री माषजं सुखं (?) ॥ २१॥
तिलकल्कोद्भवं पुण्यं सिध्यर्थमघनाशनम् ।
गौडं प्रीतिकरं पुंसां नवनीतं सुखप्रदम् ॥ २२॥
गोमयं रोगनाशाय भस्मोत्थं पापहृच्छिवे ।
लवणं मैत्रदं देवि मूलजं शत्रुनाशनम् ॥ २३॥
वंशाङ्कुरोत्थं वंशादिवृद्धिप्रदमनुत्तमम् ।
पुरक्षोभकरं पौरं रामठं कुष्ठनाशनम् ॥ २४॥
अस्थिजं मारणं प्रोक्तं केशजं भयदं त्वरेः ।
कुङ्कुमं धनदं देवि हारिद्रं मङ्गलप्रदम् ॥ २५॥
सौभाग्यदं च कर्पूरं कस्तूरीसम्भवं सुखम् ।
यावत्कामं पूजयेत्तु लिङ्गान्येतानि सुन्दरि ॥ २६॥
विधिः पार्थिवलिङ्गस्य समासान्न तु विस्तरात् ।
मृल्लिङ्गार्चाविधिं वक्ष्ये शृणु देवि मयोदितम् ॥ २७॥
मृदाहारणसङ्घट्टप्रतिष्ठावानमीश्वर ।
स्नपनं पूजनं चैव विसर्जनमतः परम् ॥ २८॥
हरः सोमेश्वरश्चैव शूलपाणिः पिनाकधृक् ।
शिवः पशुपतिश्चैव महादेव इति प्रिये ॥ २९॥
केचित्पञ्चोपचारांस्तु पञ्चब्रह्मादिभिः शिवे ।
षडक्षरेणोपचारान् कुर्युर्देवि पृथक् पृथक् ॥ ३०॥
प्रणवदिचतुर्थ्यन्तैर्नमोऽन्तैर्हरनामभिः ।
सर्वमन्त्रमयश्चायमोङ्काराद्यैः षडक्षरैः ॥ ३१॥
यं यं काममभिध्यायेत्तत्तत्सङ्कल्प्य पूजयेत् ।
यावत्कामसमाप्तिर्हि कुर्यान्मृल्लिङ्गपूजनम् ॥ ३२॥
ध्यानं तस्यैव विहितं पूजने परमेश्वरि ॥ ३३॥
ध्यायेदेवं महेशं रजतगिरिवसं(चरं)चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं हि देव्या वृतममरवरैः पार्षदैस्त्वम्ब देवं
विश्वेशं विश्ववन्द्यं निखिलभयहरं भावयेत्पञ्चवक्त्रम् ॥ ३४॥
पञ्चोपचारैः सम्पूज्य स्नानादीनि सुरेश्वरि ।
मूर्तयोऽष्टौ शिवस्यैव पूजनीयाश्च दिक्क्रमात् ॥ ३५॥
शर्वाय क्षितिरूपाय भवाय जलमूर्तये ।
रुद्राय वह्निरूपाय वायवे चोग्रमूर्तये ॥ ३६॥
भीमायाकाशमूर्त्ये च यजेत पशुपाय च ।
महादेवाय सोमाय सूर्यमूर्त्यात्मनेति दिक् ॥ ३७॥
स्तुत्वा ध्यात्वा नमस्कृत्य पार्थिवं तद्विसर्जयेत् ।
एवं पापहरं प्रोक्तं द्विलिङ्गं सर्वसिद्धिदम् ॥ ३८॥
त्रिलिङ्गं पूजयेन्नित्यं सर्वदं पार्थिवं शिवे ।
लिङ्गानामयुतं पूज्यं महाराजभयापहम् ॥ ३९॥
सहस्रमेकं लिङ्गानां पूज्यं रोगहरं शिवे ।
सहस्राणि तथा पञ्च पुत्रदं पार्थिवार्चनम् ॥ ४०॥
कारागृहविमुक्त्यर्थं शतमष्टोत्तरं यजेत् ।
लिङ्गानां पार्थिवानां तु लक्षं स्यान्मोक्षसिद्धिदम् ॥ ४१॥
कोटिपार्थिवलिङ्गानां मुक्तिदं स्यान्न संशयः ।
सर्वपार्थिवलिङ्गानां नित्यकाम्येष्वयं विधिः ॥ ४२॥
मृल्लिङ्गं पार्थिवं लक्षं भुक्तिमुक्तिफलप्रदम् ।
देशं कालं बलं ज्ञात्वा फलं चैव विशेषतः ॥ ४३॥
विद्यार्थी लिङ्गसाहस्रं धनार्थी च तदर्धकम् ।
पुत्रार्थीचार्धसाहस्रं कन्यार्थी च शतत्रयम् ॥ ४४॥
विद्वान् लिङ्गायुतं कुर्यात्सर्वपापहरं परम् ।
सुहृत्कामः सहस्रं तु धनार्थी च सहस्रकम् ॥ ४५॥
मरणार्थी सप्तशतं मोहनार्थी शताष्टकम् ।
उच्चाटनार्थी साहस्रं वश्यार्थी द्विसहस्रकम् ॥ ४६॥
दारिद्र्यनाशनार्थं तु पञ्चसाहस्रमीरितम् ।
पार्थिवेन तु लिङ्गेन बहवः सिद्धिमागताः ॥ ४७॥
तत्रापि पार्थिवं लिङ्गं क्षिप्रसिद्धिप्रदं शिवे ।
कृते रत्नमयं लिङ्गं त्रेतायां हेमसम्भवम् ॥ ४८॥
द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ।
रत्नधातुस्फटिकजपार्थिवे नैव चण्डभाक् ॥ ४९॥
नैवेद्यं चैव निर्माल्यं ग्राह्यमेव न संशयः ॥ ५०॥
लिङ्गान्यमूनि किल शैलसुतेऽमलानि
तुङ्गानि पार्थिवसुधातुजतैजसानि ।
सम्पूजितानि नियमेन फलेच्छुभिर्वा
निष्काममुक्तिपरमाणि सदैव गौरि ॥ ५१॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवलिङ्गपूजाकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४३ लिङ्गपूजाकथनम् । २-५१॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 43 li~NgapUjAkathanam . 2-51..
Notes:
Upon being asked by Devī देवी; Śiva शिव outlines the merits of worshipping Him through Śivaliṅga शिवलिङ्ग made of various materials.
Proofread by Ruma Dewan