ईश्वरप्रोक्तं शिवलिङ्गप्रतिष्ठामाहात्म्यम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
श्रीमहादेव उवाच ।
शृणु पद्मपलशाक्षि प्रतिष्ठाविधिमुत्तमम् ।
शिवलिङ्गस्य मे देवि जङ्गमस्थावरस्य च ॥ ८॥
शिवक्षेत्रे गिरौ नद्यां वने गङ्गातटे शुभे ।
हिमालये च केदारे वाराणस्यां महेश्वरि ॥ ९॥
गङ्गादिसङ्गमे वापि वैद्यनाथे कुरुस्थले ।
तथा भद्रवटे पुण्ये रुद्रकोटौ प्रभासके ॥ १०॥
पुष्करे च तथोङ्कारे लिङ्गं स्थाप्य सुपुण्यभाक् ।
कृष्णवेण्याः पयोष्ण्याश्च गोदावर्या महेश्वरि ॥ ११॥
तुङ्गायाश्चाथ पम्पाया वेगवत्यास्तथा तटे ।
क्षिप्राया नर्मदायाश्च गङ्गायमुनयोस्तटे ॥ १२॥
तटेषु भीमरथ्याश्च चर्मण्वत्या महेश्वरि ।
कवेरजायास्तीरेषु क्षेत्रेष्वेतेषु शङ्करि ॥ १३॥
श्रीकण्ठे च तृणावर्ते मातृरत्नगिरौ तथा ।
जम्बुकेशे पञ्चनदे कुम्भघोणेऽर्जुने तथा ॥ १४॥
श्वतारण्ये ब्रह्मवने पुण्ये छायावने शुभे ।
तथा दभ्रसभायां वा वृद्धाद्रौ गोणगे तथा ॥ १५॥
लिङ्गप्रतिष्ठादेशाः स्युर्नदीक्षेत्राण्यमूनि मे ।
पुण्यानि च प्रतिष्ठासु नवारण्यानि शङ्करि ॥ १६॥
नैमिशं दण्डकारण्यं ब्रह्मारण्यं महेश्वरि ।
कुशारण्यं देववनं रुद्राण्यं बृहद्वनम् ॥ १७॥
कालञ्जरं पद्मवनं सप्तपर्योऽत्र पुण्यदाः ।
प्रतिष्ठायां महादेवि शिवलिङ्गस्य सत्तमे ॥ १८॥
अयोध्या मधुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारवती देवि प्रतिष्ठासु महाफलाः ॥ १९॥
कुलाचलेष्वपीशीनी प्रतिष्ठा सुमहाफला ।
निषधः कुमुदो विन्ध्यः पारियात्रश्च नीलकः ॥ २०॥
मेरुदर्दरकैलासौ दक्षिणे हेमकूटकः ।
कुलाचलेष्वथैतेषु स्थाप्य लिङ्गं महाफलम् ॥ २१॥
महाकैलासमौलौ तु शिवलिङ्गप्रतिष्ठितिः ।
दुर्लभा सर्वदेवानां मनुष्याणां तु किं पुनः ॥ २२॥
सर्वक्षेत्रनदीतीरवनपर्वतमौलितः ।
विशिष्टाऽत्र महादेवि कोटिकोटिगुणाधिका ॥ २३॥
स्वायम्भुवं तथा दैवमार्षं मानुषमेव च ।
स्वायम्भुवस्य लिङ्गस्य परितः क्रोशमेव हि ॥ २४॥
तत्र वासो विशिष्टानां भवतीत्येव मे मनः ।
तत्रैव मरणाज्जन्तोः शिवलोको न संशयः ॥ २५॥
देवेचापि तदर्धंस्यात्परिमाणं च मानुषे ।
बाणं स्वयम्भुतुल्यं स्यात्क्षेत्रमानं सदैव हि ॥ २६॥
क्षेत्रे लिङ्गस्थापनाच्च पुण्यं नद्यास्तटे शतम् ।
वनेषु स्थापितं तस्मात्ततोऽपि गिरिमौलिगम् ॥ २७॥
नवधातुजलिङ्गानि समुत्कृष्टानि शङ्करि ।
नवरत्नोद्भवान्येव महोत्कृष्टानि शैलजे ॥ २८॥
ततो रसेन्द्रकलितं बाणलिङ्गं ततोऽधिकम् ।
न प्रतिष्ठा न च स्पर्शो बाणलिङ्गेषु विद्यते ॥ २९॥
सपीठमस्त्वपीठं वा बाणलिङ्गं प्रपूजयेत् ।
बाणलिङ्गं तु शूद्रेण यदि देवि प्रतिष्ठितम् ॥ ३०॥
सर्वेषां दर्शनार्चासु अधिकारो भविष्यति ।
केवलं स्याच्छिलालिङ्गं न दृश्यं सर्वथा द्विजैः ॥ ३१॥
सर्वथामरकतं लिङ्गं न कार्यं रत्नवर्जितम् ।
धातुजं चाङ्गुलैः षड्भिःस्फाटिकं स्याद्यथोचितम् ॥ ३२॥
वितस्तिमात्रं मृल्लिङ्गं कार्यं वै सर्वदा शिवे ।
ततो न्यूनं हरेदायुर्बाणं प्रादेशसंमितम् ॥ ३३॥
गृहस्थैश्च गृहे पूज्यं स्थावरेषु ततोऽधिकम् ।
लिङ्गमस्तकविस्तारो लिङ्गोच्छायसमः शिवे ॥ ३४॥
वेधा च तद्द्विगुणिता तद्वत्पीठमुमे स्थितम् ।
गोमुखी तद्द्विगुणिता पञ्चसूत्रं विदुःशिवे ॥ ३५॥
पञ्चपातकनाशाय पञ्चसूत्रं विदुःसदा ।
न्यूनाधिके हरेदायुः कीर्त्यारोग्यविनाशनम् ॥ ३६॥
सर्वद्रव्यकृतं लिङ्गं पञ्चसूत्रं प्रशस्यते ।
नैवायं नियमो देवि स्वयम्भूतेऽथ शस्यते ॥ ३७॥
अरत्निमात्रादूर्ध्वं यत्स्थावरं लिङ्गमेव हि ।
न स्थाप्यं तद्गृहे गौरि स्थाप्यं तच्च शिवालये ॥ ३८॥
प्रतिमा वा महेशस्य देवतानां महेश्वरि ।
वितस्तिमात्रादूर्ध्वं चेन्नार्च्याऽसौ वै गृहे सदा ॥ ३९॥
मृद्धातुनिर्मिता वा स्यात् पाषाणप्रभवाऽथवा ।
प्रतिष्ठाप्यार्चयेत्सा तु तदूर्ध्वा स्याच्छिवालये ॥ ४०॥
मूर्तयोऽष्टौ महेशस्य पञ्चविंशत्परीमिताः ।
समाकारा स्य(स्व)नेत्रान्ताः प्रतिष्ठाप्य गणो भवेत् ॥ ४१॥
गृहे शिवालये वापि मूर्तयोऽमी(मूः) महेशितुः ।
उमासहायो नृत्तेशो दक्षिणामूर्तिरेव वा ॥ ४२॥
कङ्कालो लिङ्गभागस्थस्तथा शूलधरोहरः ।
चन्द्रचूडो वृषाङ्कस्थोऽप्यर्धनारीश्वरः शिवे ॥ ४३॥
कपालपाणिर्वरदो विष्णवे ब्रह्मणे शिवे ।
दिगम्बरः कालनाशो गजचर्मपरीवृतः ॥ ४४॥
कैलासवासोऽघोरात्मा सद्योजातोऽथपूरुषः(तत्पूरुषः) ।
वामदेवस्तथेशानस्त्रिपुरान्तकरो हरः ॥ ४५॥
एताश्चान्याश्च यो मूर्तीः प्रतिष्ठाप्यार्चयेच्छिवे ।
धातुजानां च लिङ्गानां प्रतिमानामपीश्वरि ॥ ४६॥
चराणां चास्थिराणां च शतवर्षात्प्रतिष्ठितिः ।
वैदिकी चागमी याञ्च प्रतिष्ठा द्विविधा शिवे ॥ ४७॥
खण्डस्फुटितदग्धेषु पाषण्डपतितान्त्यजैः ।
शूद्रैः स्पृष्टे प्रतिष्ठा स्यात् पुनः संस्कारपूर्वकम् ॥ ४८॥
अन्त्यजोपहतानां तु परित्यागो जले भुवि ।
चराणां स्थावराणां वा तथा स्वायम्भुवेऽपि वा ॥ ४९॥
स्वायम्भुवीयलिङ्गस्य शकलं वेदिकास्वपि ।
अष्टबन्धकद्रव्येण योज्य बध्वा प्रतिष्ठितिः ॥ ५०॥
आगामी चागमीयानां तुलो चन्द्र विभूषिते ।
वसन्तोऽथ ऋतुर्देवि वार्षिकः शशिरोधकः ॥ ५२॥
उत्तराशागते भानौ लिङ्गं स्थाप्यार्चयेच्छिवे ।
माघफाल्गुनवैशाखे ज्येष्ठ आषाढ एव च ॥ ५३॥
मासेषु शुक्ल पक्षेषु लिङ्गस्थापनमुत्तमम् ।
अष्टम्यां वा चतुर्दश्यां पर्वणोर्वा महेश्वरि ॥ ५४॥
सोमवारेऽथवा भद्रे रविभौमबुधेष्वपि ।
स्थिरप्रतिष्ठा च स्थिरर्थं च चरे वरम् ॥ ५५॥
शान्तैर्द्विजवरैर्देवि शिवभक्तैर्जितेन्द्रियैः ।
शतावरैः स्थावरेषु ऋत्विजः परिकीर्तिताः ॥ ५६॥
दश त्रयो वा विप्रेन्द्राः शिवभक्ताः सुवाससः ।
भस्मरुद्राक्षसम्पन्नास्त्रिपुण्ड्रपरिमण्डिताः ॥ ५७॥
चरलिङ्गप्रतिष्ठायां वरणीया द्विजोत्तमाः ।
ब्रह्मा सदस्याश्चाचार्यो मधुपर्केण पूजिताः ॥ ५८॥
वासोभिरहतैश्चैव गोभिः पूज्या यथाबलम् ।
वस्त्रालङ्करणै रत्नैर्धनैर्धान्यैर्गृहैरपि ॥ ५९॥
पूजनीयाः प्रतिष्ठादौ ब्रह्मणा वेदपारगाः ।
धान्याधिवासः कर्तव्यो जलवासश्च शङ्करि ॥ ६०॥
प्रतिमायाश्च लिङगस्य कर्तव्योऽथ विजानता ।
द्रोणत्रयं धान्यमिति जलकुम्भं सपल्लवम् ॥ ६१॥
नदीनदाहृतैस्तोयैर्वापीकूपाहृतैस्तथा ।
नवधान्यानि वासांसि समाहृत्य द्विजैः सह ॥ ६२॥
तथैवौषधयः पुण्या विष्णुक्रान्तापमार्गकाः ।
दर्भाग्राश्च तथा दूर्वा यवाग्राण्यथ मेण्डि(थि)काः ॥ ६३॥
पल्लवाः स्युरुमे पञ्च कल्कान्यपि सुमध्यमे ।
समाहृत्य शुभे देशे गोमयेनोपलेपिते ॥ ६४॥
रङ्गवल्यादिशोभाढ्ये मण्डपे पुष्पमण्डिते ।
गणेशमादौ सम्पूज्य नान्दीश्राद्धं विधाय च ॥ ६५॥
ततः प्रतिसरं कृत्वा ब्राह्मणाननुमन्त्र्य च ।
पल्या सह समासीन अरजे वाससी दधत् ॥ ६६॥
सङ्कल्प्य वरयेद्विद्वान् आचार्यं च सदस्यकम् ।
ब्रह्माणं च प्रतिष्ठाप्य दिनत्रयेमथेश्वरि ॥ ६७॥
बोधायनोक्तविधिना प्रतिष्ठाप्य महेश्वरम् ।
हावयेत्पायसैर्विद्वान् चरुणा सधृतेन वा ॥ ६८॥
स्वस्वशाखोक्तमार्गेण प्रतिष्ठाप्य हुताशनम् ।
कुम्भाभिषेकं कृत्वैव मूलेन प्रणवेन वा ॥ ६९॥
नेत्रोन्मीलनवर्जं च लिङ्गे च प्रतिमास्वपि ।
कुर्यान्नेत्रोन्मीलनादि प्रतिमास्वपि शङ्करि ॥ ७०॥
महाभिषेकविधिना पूजयेल्लिङ्गमैश्वरम् ।
पञ्चामृतैः पञ्चगव्यैस्तथा फलरसैरपि ॥ ७१॥
श्रीरुद्रेणाभिषेकोऽत्र कर्तव्यश्चमकैरपि ।
वस्त्रैर्गन्धैश्च धूपैश्च दीपनैवेद्यकल्पनैः ॥ ७२॥
ताम्बूलनीराजनतः पूजयेच्छत्रचामरैः ।
प्रदक्ष्णानमस्कारैः संस्तुवीत महेश्वरम् ॥ ७३॥
नमस्ते देवदेवाय शिवायाकाशमूर्तये ।
भवाय भव्यरूपाय हरभूम्यात्मने नमः ॥ ७४॥
व्यक्ताव्यक्ताय सोमाय जलरूपाय ते नमः ।
उग्राय भीमरूपाय वायुमूर्त्यात्मने नमः ॥ ७५॥
व्योमकेशाय नित्याय तेजोमूर्त्यात्मने नमः ।
एवं संस्तुत्य देवेशि प्रार्थयेच्छङ्करे क्षमाम् ॥ ७६॥
जानताऽजानता वापि प्रतिष्ठा या मया कृता ॥ ७७॥
तां क्षमस्व महादेव लिङ्गेऽस्मिन् सुस्थिरो भव ।
ततोऽर्चयेद्गन्धपुष्पैर्धनैर्गोभिः प्रपूजयेत् ॥ ७८॥
आचार्यं ऋत्विजश्चैव दीनाऽनाथान् द्विजोत्तमान् ।
भोजयेच्छिवभक्तांश्च दक्षिणाभिः प्रतोषयेत् ॥ ७९॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवलिङ्गप्रतिष्ठामाहात्म्यं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ५ शिवलिङ्गप्रतिष्ठाविधिः । ८-७९॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 5 shivalingapratiShThAvidhiH . 8-79..
Notes:
Upon being asked by Devī देवी; Śiva शिव describes the procedure of installing of and worshipping Him through Śivaliṅga शिवलिङ्ग wrt Stationary i.e. a Sthāvaraliṅga स्थावरलिङ्ग and Moveable i.e. a Caraliṅga चरलिङ्ग. He outlines the optimal timings (tithi तिथि, vāra वार, māsa मास etc. for the installation of the Śivaliṅga शिवलिङ्ग.
Śiva शिव mentions about the extension/unfolding of His Eight (8) Forms i.e. Aṣṭamūrti अष्टमूर्ति to Twenty-Five (25) Forms i.e. PañcaviṃśaMūrti पञ्चविंशमूर्ति.
Proofread by Ruma Dewan