ईश्वरप्रोक्तं शिवलिङ्गस्नापनोपदेशम्

ईश्वरप्रोक्तं शिवलिङ्गस्नापनोपदेशम्

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवगौरीसंवादे - ईश्वर उवाच । पात्राणि शिवपूजार्थमाहरेच्च यथाबलम् । मृद्वश्मदारुजानीशे धातुजान्यधरोत्तरम् ॥ ११॥ अश्मपात्राद्दारुमयं बिल्वौदुम्बरपर्णजम् । स्नानार्घ्यदानविधिषु प्रशस्तं शिवपूजने ॥ १२॥ दारवेणार्घ्यपात्रेण यद्दत्वा लभते फलम् । तस्माच्चतुर्गुणं पुण्यं शिवे मृत्पात्रदानतः ॥ १३॥ ताम्रपात्रादपि श्रेष्ठं कांस्यपैत्तलसम्भवम् । ताम्रपात्राभिषेकेण फलं शतगुणं लभेत् ॥ १४॥ पलाशपद्मपत्राभ्यामर्घ्यं ताम्रसमं भवेत् । रौप्यपात्रेण विज्ञेयं तस्माल्लक्षगुणाधिकम् ॥ १५॥ सुवर्णपात्रं च ततो देवि कोटिगुणोत्तमम् । एवं स्नानार्घ्य नैवेद्यबलिधूपादिभिः क्रमात् ॥ १६॥ पात्रोत्तरविशेषेण फलं स्यात्परमेश्वरे(रि) । मृत्कुम्भताम्रकुग्भेन स्नानं शतगुणोत्तमम् ॥ १७॥ रौप्यं लक्षाधिकं पुण्यं हैमं कोट्यधिकं भवेत् । अर्घ्यं पुष्पजलोपेतं यः शिवाय निवेदयेत् ॥ १८॥ स पूज्यः सर्वलोकेषु शिववन्मोदते भृशम् । गन्धतोयेन संमिश्रं पुष्पार्ध्यादुत्तरोत्तरम् ॥ १९॥ पञ्चगव्यसमायुक्तमर्घ्यं शतगुणोत्तरम् । आपः क्षीरकुशाग्राणि घृतं देवि च तण्डुलाः ॥ २०॥ तिलाः सिद्धार्थकाश्चैवमर्घ्यमष्टाङ्गमुच्यते । घृतं विनाक्षतं ग्राह्यमिति केचित्प्रचक्षते ॥ २१॥ यवतण्डुलगोधूममाषैरक्षतमादिशेत् । अर्घ्यमष्टाङ्गमापूर्य लिङ्गमूर्ध्नि विशोधयेत् ॥ २२॥ दशवर्षसहस्राणि शिवलोके महीयते । कपिलापञ्चगव्येन धृतक्षीरयुतेन च ॥ २३॥ स्नानं दशगुणं ज्ञेयमितरस्मान्नसंशयः । स्नानं फलशतं ज्ञेयमभ्यङ्गः पञ्चविंशतिः ॥ २४॥ फलानां द्वे सहस्रे तु महास्नानं शिवे विदुः । पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् ॥ २५॥ ईशादिमन्त्रैः संस्थाप्य शिवलोकमवाप्नुयात् । यः पुमान् तिलतैलेन करयन्त्रोद्भवेन च ॥ २६॥ शिवाभिषेकं कुरुते स मे प्रियतरो भवेत् । अभिषेको दशफलः स्नानार्थं शतमीश्वरि ॥ २७॥ महास्नाने ह्यशक्तस्य कुम्भं द्रोणत्रयं शिवे । पञ्चविंशत्पलेनैव लिङ्गेऽभ्यङ्गं तु कारयेत् ॥ २८॥ घृतेन वाऽथ तैलेन गन्धयुक्तेन वा शिवे । शिवस्य सर्पिषा स्नानं प्रोक्तं पलशतेन वै ॥ २९॥ पलानां द्विसहस्रेण महास्नानं विधीयते । तस्यार्धं मधुना देवि दध्ना तत्सममीश्वरि ॥ ३०॥ तत्पादतः शर्करया स्नानमेतच्छिवे मम । नीरस्नानयुतं देवि दध्ना घृतपयस्ततः ॥ ३१॥ मधुना सितया देवि पुण्यं स्यात्तच्छताधिकम् । पादस्नानं महादेवि कुम्भत्रयमितीरितम् ॥ ३२॥ क्षीरस्नानं महेशस्य कापिलेनेतरेण वा । कुर्यात्तस्यापराधानि(धांश्च)क्षमते शङ्करःशतम् ॥ ३३॥ खण्डदध्ना योऽभिषिञ्चेत् सहस्रं क्षमते शिवः । वर्षकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ॥ ३४॥ घृताभिषेको लिङ्गस्य दहेत्सर्वं न संशयः । लिङ्गस्य दर्शनं पुण्यं दर्शनात्स्पर्शनं वरम् ॥ ३५॥ स्पर्शनादर्चनं क्षेष्ठं घृतस्नामतः परम् । मधुस्नानेन देवेशि अश्वमेधफलं लभेत् (भवेत्) ॥ ३६॥ सितया स्नाप्य मां देवि सर्वजीववधोद्भवैः । पापैर्न लिप्यते गौरि पुण्यं महदवाप्नुयात् ॥ ३७॥ कृष्णाष्टम्यां सोमवारे प्रदोषे वा महेश्वरि । घृतस्नानकरो यश्च स फलं लभते शिवे ॥ ३८॥ कुलैकविंशमूर्तिश्च शिवलोके महीयते । क्षीरस्नानात् क्षरत्यंहः देवि जन्मशतार्जितम् ॥ ३९॥ क्षीरेण दध्नाज्येनापि सितया मधुना फलम् । अभिषिच्य मुदा लिङगं लभेत् (?) पर्वणि वा शिवे ॥ ४०॥ सङ्क्रान्तावयने पाते ग्रहणे सोमसूर्ययोः । अयुतं यो गवां दद्याच्छाम्भवेषु च यज्वसु ॥ ४१॥ वस्त्रहेमसवत्सानां द्विजवर्येषु तल्लभेत् (?) । नारिकेलोदकेनापि योऽभिषिञ्चेन्महेश्वरि ॥ ४२॥ चरं वा स्थिरलिङ्गं वा स्नानमात्रेण पुण्यभाक् । गवामयनयज्ञस्य कदलीफलमानतः ॥ ४३॥ फलानां च सहस्राणि स्नानं रम्भाफले विदुः । शतं वा दशकं वापि मध्यमाधममुच्यते ॥ ४४॥ स्नाप्य रम्भाफलैर्लिङ्गमुर्वरादानजं लभेत् । कोशैर्यः पानसानां तु अभिषेके शतं शिवे ॥ ४५॥ सहस्रं परमं देवि शतं मध्यममुच्यते । एषामेकतमं स्नानं गोदानदशकं फलम् ॥ ४६॥ स्नानमिक्षुरसेनापि यो लिङ्गे सकृदाचरेत् । लभेच्छिवं वंशशतैर्मम लोके महीयते ॥ ४७॥ पक्वाम्रसुरसैर्देवि अभिषिच्य महेश्वरम् । जम्बीरसारैर्यौ लिङ्गं स्नापयेद्भक्तिसंयुतः ॥ ४८॥ विधूय पापकलिलं सोमवद्राजते शिवे । कुशतोयेन यो लिङ्गं स्नापयेद्भक्तिमान्नरः ॥ ४९॥ काञ्चनेन विमानेन ब्रह्मलोके महीयते । गन्धचन्दनतोयेन यो लिङ्गं स्नापयेच्छिवे ॥ ५०॥ गन्धर्वलोकमाप्नोति दिवि गन्धर्वपूजितः । पुष्पोदकेन सावित्रं कौबेरं हिम(हेम)वारिणा ॥ ५१॥ रत्नोदकेन चाप्यैन्द्रं लोकं सम्प्राप्य मोदते । द्रोणयान्धसां राशिं द्रोणपुष्पनिभं शिवे ॥ ५२॥ दत्वा लिङ्गस्य मौलौ मे मत्समीप्यमुपैष्यति । पुण्यं स लभते गौरि शिवरात्रौ शताधिकम् ॥ ५३॥ सितेन भस्मना स्नाप्य गन्धिना शोधितेन च । द्रोणपञ्चकमानेन स मदग्रे प्रमोदते ॥ ५४॥ कूपोदकाच्च ताटाकं ताटाकाद्वाप्यमुत्तमम् । नदीनां चैव सर्वासां पुण्यानां चाब्धिसङ्गजम् ॥ ५५॥ वरं गङ्गा महादेवि स्नाने पर्युषितं न मे । वस्त्रपूतेन तोयेन यो लिङ्गं स्थापयेत् सकृत् ॥ ५६॥ सर्वकामसमृद्धात्मा वारुणं लोकमाप्नुयात् । पाटलोत्पलपद्मानि करवीराणि चम्पकम् ॥ ५७॥ स्नानकालेऽम्बुयोज्यानि कल्कानि सुरभीणि च । तेनाभिषिच्य लिङ्गे मे राजसूयफलं लभेत् ॥ ५८॥ कर्पूरागरुतोयेन यो लिङ्गं स्नापयेत् सकृत् । सर्वपापविनिर्मुक्तः प्रयाति शिवमन्दिरम् ॥ ५९॥ पितॄनुद्दिश्य यो लिङ्गं स्नापयेच्छीतवारिणा । तृप्ताः स्वर्गं प्रयास्यन्ति पितरो नरकादपि ॥ ६०॥ लिङ्गं स्नाप्य महादेवि जलाविच्छिन्नधारया । ग्रीष्मे गलन्तिकाभिर्वा नैरन्तर्यं दिवानिशम् ॥ ६१॥ स मे गणेशः स्कन्दः स्यात् अश्वमेधायुतं लभेत् । श्रीखण्डद्रवसारेण यो विलिम्पेदुमासखम् ॥ ६२॥ ग्रीष्मर्तौ सकल वा पौण्डरीकफलं लभेत् । कृष्णागरुं देवदारुं प्रभवं श्रीतरोरपि ॥ ६३॥ गन्धं दत्वा चन्द्रमौलौ द्वादशाहफलं लभेत् । त्रिफलं चन्दनं प्रोक्तं कुङ्कुमं तत्समं स्मृतम् ॥ ६४॥ कर्पूरं तु तदर्धं स्यात् घनसारश्च तत्समः । पलमेकं च कस्तूर्याः मेलनाद्यक्षकर्दमः ॥ ६५॥ यक्षकर्दमपङ्केन यो विलिप्य महेश्वरम् । सोऽग्निचित्याऽयुतमखफलमाप्नोति मानवः ॥ ६६॥ लिङ्गमूर्तेर्महेशस्य शिवस्य परमात्मनः । स्नानकाले प्रकुर्वीत तौर्यत्रिकरवं शिवे ॥ ६७॥ भेरीमद्दलशङ्खानां काहलं वरदुन्दुभीन् । वीणावेणुमहाढक्कापटहानकडम्बराः ॥ ६८॥ कांस्यझल्लरवाद्येभ्यश्चर्मवाद्यं विशिष्यते । ततो मुखेन चाध्मातं ततस्तन्त्रीभवं शिवे ॥ ६९॥ एवं वादित्रघोषं यः प्रकुर्यात्स्नान कर्मणि । वंशलक्षतो धीमान्मम लोके महीयते ॥ ७०॥ नाट्यार्थमङ्गनाजालं लयशिक्षासमन्वितम् । तरुणं रूपसम्पन्नं गेयवादित्रकोविदम् ॥ ७१॥ दत्वा लिङ्गालये भद्रे सर्वामृद्धिमवाप्नुयात् । घृताभ्यङ्गे घृतस्नाने यद्धिलिङ्गस्य रूषितम् ॥ ७२॥ यवगोधूमजैश्चूर्णैः कषायैर्गन्धयोजितैः । कवोष्णेनाम्बुना देवि स्नापयेत्तदनन्तरम् ॥ ७३॥ घर्षयेद्बिल्वपत्रैश्च लिङ्गपीठं सुशोधयेत् । दशधेनुसहस्राणि ददतः फलमाप्नुयात् ॥ ७४॥ कपिलापञ्चगव्येन कुशवारियुतेन च । स्नापयेन्मन्त्रपूतेन ब्रह्मस्नानमघापहम् ॥ ७५॥ ईश्वर उवाच । शङ्खानां च सहस्रकैरपि तथा धारा सहस्त्रीघटैः कुम्भैश्छिद्रशताष्टकैर्वरगवां श‍ृङ्गाग्रधारादिभिः । स्नाप्याम्बुप्रभवैः महेशजनिम श्रीरुद्रमन्त्रैःशिवे पुण्यं प्राप्य स मोदते गिरिसुते कैलासमौलौ गणः ॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवलिङ्गस्नापनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ८ । ११-७६॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 8 . 11-76.. Notes: Śiva शिव describes to Devī देवी, the various Pātra पात्र and Dravya द्रव्य to be used for ŚivaliṅgaSnāpana शिवलिङ्गस्नापन. More details of various are mentioned in ŚivaRahasyaṃ Ekādaśamāṃśaḥ Adhyāyaḥ 11 शिवरहस्यमेकादशमांशः अध्यायः ११ Proofread by Ruma Dewan
% Text title            : Ishvaraproktam Shivalingasnapanopadesham
% File name             : IshvaraproktaMshivalingasnApanopadesham.itx
% itxtitle              : shivaliNgasnApanopadesham IshvaraproktaM (shivarahasyAntargatam)
% engtitle              : IshvaraproktaM shivalingasnApanopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 8 | 11-76||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org