ईश्वरप्रोक्तं शिवपञ्चविंशतिमूर्तिकरणम्

ईश्वरप्रोक्तं शिवपञ्चविंशतिमूर्तिकरणम्

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवगौरीसंवादे - पञ्चविंशतिमूर्तीनामालयानि समन्ततः । श्लक्ष्णानि च मनोज्ञानि सुकुट्टिमयुतानि च ॥ २६॥ चित्रध्वजपताकाग्रस्वर्णकुम्भयुतानि च । कृत्वा यत्फलमाप्नोति तदेकाग्रमनाः श‍ृणुः ॥ २७॥ स्कन्दोमासहितं देवमासीनं परमासने । कृत्वा भक्त्या प्रतिष्ठाय सर्वान् कामानवाप्नुयात् ॥ २८॥ कैलासे संवसेदेव दक्षिणे विष्णुपञ्चकम् । यावत्कालेनसन्तिष्ठेत् तावद्भोगभुगव्ययः ॥ २९॥ एकपादं चतुर्बाहुं त्रिणेत्रं शूलसंयुतम् । दृष्ट्वास्थितं हरिं वामे दक्षिणेविधिमव्ययम् ॥ ३०॥ अष्टाविंशतिकोटीनां कारणं स्वाङ्गतो हरः । विनिर्मायाथ मूर्तीनां पञ्चविंशतिकं तथा ॥ ३१॥ पुरुषं हृदयाद्देवि सद्योजातं तु पादतः । अघोरं वक्त्रतः शम्भुर्हस्ताभ्यां वाममीश्वरम् ॥ ३२॥ ईशानमूर्ध्वतः शम्भुर्निर्मायाग्रे सचासृजत् । प्रकृतिं वामतश्चैव चेतनां बुद्धिदेशतः ॥ ३३॥ अहङ्कारादहङ्कारं तन्मात्राणि च मात्रया । इन्द्रियाणीन्द्रियाद्देवि लीलया परमेश्वरः ॥ ३४॥ पृथिवीं पाददेशात्स गुह्यदेशाज्जलं तथा । नाभिदेशान्महावनिं हृदयाद्भास्करं तथा ॥ ३५॥ कर्णात्सोमं तथात्मानं भ्रूमध्यान्मस्तकाद्दिवम् । सृष्ट्वैव संस्थितः साक्षाज्जगत्सर्वं चराचरम् ॥ ३६॥ पञ्चविंशतिमूर्तीश्च प्राविशत्स्वेन तेजसा एकांशेन महादेव एकधा बहुधा श्रुतः ॥ ३७॥ वामाङ्गस्थितलोकेशहरिभ्यां चैवसेवितः । सर्वज्ञं सर्वगं देवं कृत्वा भक्त्या विधानतः ॥ ३८॥ प्रतिष्ठाप्य यथान्यायं शिवसायुज्यमाप्नुयात् । त्रिपादं सप्तहस्तं च चतुःश‍ृङ्गं द्विशीर्षकम् ॥ ३९॥ वृ(कृ)त्वा यज्ञेशमीशानमग्निलोके महीयते । तत्र भुक्त्वा महाभोगान् कल्पलक्षं सुखी नरः ॥ ४०॥ क्रमादागत्य लोकेऽस्मिन् धराधीशो भवेन्नृपः । वृषारूढं तु यः कुर्यात् सोमं सोमार्धभूषणम् ॥ ४१॥ हयमेधायुतं पुण्यं कृत्वा प्राप्येन्द्रवल्लभः । काञ्चनेन विमानेन किङ्किणीजालमालिना ॥ ४२॥ गत्वा शिवपुरं दिव्यं तत्रैव स विमुच्यते । नन्दिना सहितं देवं साम्बं सगणमव्ययम् ॥ ४३॥ कृत्वा यत्फलमाप्नोति तत्ते वक्ष्याम्यनुत्तमम् । सूर्यमण्डलसङ्काशैर्विमानैर्वृषसंयुतैः ॥ ४४॥ अप्सरोगणसङ्कीर्णैः देवदानवदुर्लभैः । नृत्यद्भिरप्सरःसङ्घैः पुष्पगन्धमनोहरैः ॥ ४५॥ गत्वा शिवपुरं दिव्यं गाणपत्यमवाप्नुयात् । नृत्यन्तं देवदेवेशं शैलजासहितं प्रभुम् ॥ ४६॥ सहस्रबाहुं देवेशि चतुर्बाहुमथापि वा । नन्द्याद्यैर्भूतसङ्घैश्च संवृतं परमेश्वरम् ॥ ४७॥ कृत्वा भक्त्या प्रतिष्ठाप्य रुद्रलोके महीयते । शैलजासहितं साक्षात् वृषभध्वजमीश्वरम् ॥ ४८॥ ब्रह्मेन्द्रविष्णुसोमाद्यैः कृताञ्जलिपुटैर्गणैः । मातृभिर्मुनिभिश्चैव संवृतं परमेश्वरम् ॥ ४९॥ कृत्वा भक्त्या प्रतिष्ठाप्य यत्फलं तद्वदाम्यहम् । सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम् ॥ ५०॥ तत्फलं कोटिगुणितं लब्ध्वा याति शिवंपदम् । तत्र भुक्त्वा महाभोगान् यावदाभूतसंप्लवम् ॥ ५१॥ सृष्ट्यन्तरे ततः प्रात्ये(प्रेत्य) मानवं पदमाप्नुयात् । इभास्यदारकं देवं साम्बं सिद्धाकृतिं प्रभुम् ॥ ५२॥ धूम्रवर्णं रक्ताक्षं त्रिणेत्रं चन्द्रशेखरम् । बकपक्षधरं मूर्ध्ना नागरङ्कुधरं हरम् ॥ ५३॥ सिह्माजिनोत्तरीयं च मृगचर्माम्बरप्रियम् । तीक्ष्णदंष्ट्रं गदाहस्तं कपालोद्यतपाणिनम् ॥ ५४॥ हुं फट्कार महाशब्दशब्दिताखिलदिङ्मुखम् । पुण्डरीकाम्बरं दोर्भ्यां बिभ्रद्वै कम्बुकं यथा ॥ ५५॥ संहतं च नदन्तं च पिबन्तं सत्यसागरम् । नृत्यन्तं भूतसङ्घैश्च संवृतं सगणं प्रभुम् ॥ ५६॥ कृत्वा भक्त्या प्रतिष्ठाप्य यथाविभवविस्तरम् । अत्र विघ्नान्विनिर्जित्य शिवलोके महीयते ॥ ५७॥ तत्र भुक्त्वा महाभोगान् यावदाचन्द्रतारकम् । ज्ञानं विचारतो लब्ध्वा रुद्रेभ्यस्तत्र मुच्यते ॥ ५८॥ अर्धनारीश्वरं देवं चतुर्भुजमनुत्तमम् । वरदाभयहस्तं च शूलपद्मधरं प्रभुम् ॥ ५९॥ भावेन सर्वं संस्थाप्य सर्वाभरणभूषितम् । कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते ॥ ६०॥ तत्र भुक्त्वा महाभोगानणिमदिगुणैर्वृतः । आचन्द्रतारकं ज्ञानं ततो लब्ध्वा विमुच्यते ॥ ६१॥ यः कुर्याद्देवदेवेशं सर्वज्ञं लकुलीश्वरम् । वृतं शिष्यैः प्रशिष्यैश्च व्याख्यानोद्यतपाणिनम् ॥ ६२॥ कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोकं स गच्छति । भुक्त्वा तु विपुलांस्तत्र भोगानुग्रतरं नरः ॥ ६३॥ ज्ञानयोगं समासाद्य तत्रैव स विमुच्यते । पूर्वदेवामराणां च तदा स्वांशकलैः स्थितैः ॥ ६४॥ कृतमुद्रस्य रुद्रस्य चिताभस्मानुलेपितैः । पुम्मुण्डधारिणस्तेषां शिरोमालाधरस्य च ॥ ६५॥ ब्रह्मणः केशजेनैकमुपवीतं च बिभ्रतः । बिभ्रतो वामहस्तेन कपालं ब्रह्मणो वपुः ॥ ६६॥ विष्णोः कलेवरं चैव बिभ्रतः परमेष्ठिनः । कृत्वा भक्त्या प्रतिष्ठाप्य विष्णुलोके महीयते ॥ ६७॥ कालकूटं कराब्जान्ते निधायासीनमासने । कृत्वा भक्त्या प्रतिष्ठाप्य मुच्यते भवबन्धनात् ॥ ६८॥ ॐ नमो नीलकण्ठाय इति पुण्याक्षराष्टकम् । मन्त्रमाह सकृद्वा यः पातकैः स प्रमुच्यते ॥ ६९॥ मन्त्रेणानेन गन्धाद्यैर्भक्त्या वित्तानुसारतः । सम्पूज्य देवदेवेशं शिवलोके महीयते ॥ ७०॥ जलन्धरान्तकं देवं सुदर्शनकरं प्रभुम् । कृत्वा भक्त्या प्रतिष्ठाप्य विष्णुलोके महीयते ॥ ७१॥ तिष्ठतोऽथ निकुम्भस्य पततश्चरणाम्बुजे । वामेतरं प्रविन्यस्य वाम(मा)मालिङ्ग्य चाद्रिजाम् ॥ ७२॥ शूलं प्रकूर्परे स्थाप्य कङ्कणीकृतपन्नगम् । सम्प्रेक्ष्य चान्तकं पार्श्वे कृताञ्जलिपुटं स्थितम् ॥ ७३॥ रुपं कृत्वा यथान्याय्यं शिवसायुज्यमाप्नुयात् । यः कुर्याद्देवदेवेशं त्रिपुरान्तकमीश्वरम् ॥ ७४॥ धनुर्बाणसमायुक्तं सोमं सोमार्धभूषणम् । रथे तु संस्थितं देवं चतुराननसारथिम् ॥ ७५॥ तदाकारतया सोऽपि गत्वा शिवपुरं सुखी । क्रीडतो नात्र सन्देहो द्वितीय इव शङ्करः ॥ ७६॥ तत्र भुक्त्वा महाभोगान् यावदिच्छं द्विजोत्तमाः ! । ज्ञानं विचारितं लब्ध्वा तत्रैव स विमुच्यते ॥ ७७॥ गङ्गाधरं सुखासीनं चन्द्रशेखरमेव च । उमया सहितं देवं वामसङ्गाम्बिकायुतम् ॥ ७८॥ विनायकं तथा स्कन्दं ज्येष्ठां दुर्गां सुशोभनाम् । भास्करं च तथा सोमं ब्रह्माणीं च महेश्वरीम् ॥ ७९॥ कौमारीं वैष्णवीं देवीं वाराहीं वरदां तथा । इन्द्राणीं चैव चामुण्डां वीरभद्रसमन्विताम् ॥ ८०॥ विघ्नेशेन च यो धीमाञ्छिवसायुज्यमाप्नुयात् । लिङ्गमूर्तिं महाज्वालामालासंवृतमव्ययम् ॥ ८१॥ लिङ्गस्य मध्ये वै कृत्वा चन्द्रशेखरवत्तनुम् । व्योम्नि कुर्यात्तथा लिङ्गे ब्रह्माणं हंसरूपिणम् ॥ ८१॥ विष्णुं वराहरूपेण लिङ्गाधस्तात्त्वधोमुखम् । ब्रह्माणं दक्षिणे तस्य कृताञ्जलिपुटं स्थितम् ॥ ८२॥ विष्णुं महाबाहुं कृताञ्जलिपुटं तथा । मध्ये च लिङ्गं घोरं महाम्भसि सुसंस्थितम् ॥ ८३॥ कृत्वा भक्त्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात् । क्षेत्रसंरक्षकं देवं शिवलिङ्गार्चनं तथा ॥ ८५॥ यः करोति यथान्याय्यं शिवलोके महीयते ॥ ८६॥ ये (यः) पञ्चविंशत्परेमेशमूर्तीः कृत्वाऽऽलयाभ्यन्तरपीठसंस्थाः । सुरूपवर्णाभरणा मनोज्ञाः शिवे प्रतिष्ठाप्य सुपुण्यभाजनः(नम्) ॥ ८७॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवपञ्चविंशतिमूर्तिकरणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ६ शिवलिङ्गप्रतिष्ठा । २६-८७॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 6 shivalingapratiShThA . 26-87.. Notes: Upon being asked by Devī देवी; Śiva शिव describes the procedure and merits of installation of PañcaviṃśaMūrti पञ्चविंशमूर्ति, that are His Manifestations despite Him being One as Mahādeva महादेव and it is His Forms that permeate the Manifest Universe. Proofread by Ruma Dewan
% Text title            : Ishvaraproktam Shivapanchavimshatimurtikaranam
% File name             : IshvaraproktaMshivapanchaviMshatimUrtikaraNam.itx
% itxtitle              : shivapanchaviMshatimUrtikaraNam IshvaraproktaM (shivarahasyAntargatam)
% engtitle              : IshvaraproktaM shivapanchaviMshatimUrtikaraNam
% Category              : shiva, shivarahasya, viMshati
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 6 shivaliNgapratiShThA | 26-87||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org