ईश्वरप्रोक्तं शिवप्रासादकरणम् १

ईश्वरप्रोक्तं शिवप्रासादकरणम् १

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवगौरीसंवादे - ईश्वर उवाच । मृद्दार्विष्टकपाषाणैर्यः कुर्याद्वै शिवालयम् ॥ ३॥ त्रिःसप्तकुलसंयुक्तः शिवलोके महीयते । मृन्मयात्कोटिगुणितं पुण्यं स्याद्दारुभिः कृतम् ॥ ४॥ त्रिगुणं चेष्टकादिभ्यः सुधया परिकल्पितम् । शैलैरनन्तं देवेशि कल्पितं शिल्पिभिर्दृढम् ॥ ५॥ कोटिकोटिगुणं पुण्यमुत्तरत्र महेश्वर । मृच्छैलयोः समं ज्ञेयं फलमाढ्यदरिद्रयोः ॥ ६॥ यत्र क्वापि शिवे भक्त्या कुर्याच्छैलेष्टकादिभिः । नवं पुराणरहितं जीर्णं पतितमेव वा ॥ ७॥ नवादपि सदोत्कृष्टं जीर्णोद्धारं महेश्वरि । अष्टेष्टकाभिर्वा कुर्यात्क्रीडमानः शिवालयम् ॥ ८॥ सोऽपि रुद्रगणो भूयात् भक्त्या युक्तानुसारतः । गर्भगेहं महेशस्य यः कुर्याद्युक्तधातुभिः ॥ ९॥ पट्टिकाकुमुदोपेतं देव कोष्ठैश्च शोभितम् । रुद्रावतारचरितैर्वृषकुम्भविराजितम् ॥ १०॥ तावद्युगसहस्राणि रुद्रलोके महीयते । तत्पाषाणसुधालेपकणैः साहस्रसङ्ख्यया ॥ ११॥ तावत्कालं वसेत्स्वर्गे यावदिन्द्राश्चतुर्दश । मण्टपं दशभिः स्तम्भैर्युतं यःकारयेच्छिवे ॥ १२॥ शतस्तम्भं ततोऽपीशे सहस्रस्तम्भमण्डितम् । सुपीठवेदिकोपेतं वलभीकुम्भमण्डितम् ॥ १३॥ जालकीतोरणोपेतं चित्रविद्रुमपुत्रिकम् । तावद्युगसहस्राणि शिवलोके महीयते ॥ १४॥ गोपुरैर्भूधराकारैः सहस्रतलमण्डितैः । कारयेच्छिल्पशास्त्रज्ञै रुद्ररूपविचित्रितैः ॥ १५॥ दशैकादशसाहस्रतलैः शतपरीमितैः । कुम्भैर्वृषैरुद्ररूपैर्योऽलङ्कुर्याच्च रङ्गतः ॥ १६॥ यावन्ति रुद्ररूपाणि तानि सर्वाण्यपि लेखयेत् । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ १७॥ शिवालयस्य परितश्चतुर्दिक्षु विराजितैः । प्राकारं कारयेद्युक्तं मारमारस्य शङ्करि ॥ १८॥ यावत्तस्मिन् विरचिता पाषाणा इष्टकास्तथा । तावद्वर्षसहस्राणि मम लोके महीयते ॥ १९॥ खण्डस्फुटितसंस्कारं यः कुर्वीत शिवालये । प्राकारं गोपुरं वापि मण्टपं वा सपीठकम् ॥ २०॥ नूतनादपि चोत्कृष्टं जीर्णोद्धारं प्रशस्यते । दूरतः शिखरं दृष्ट्वा गोपुरस्य महेशितुः ॥ २१॥ सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति । पश्चात्प्राङ्मुखलिङ्गस्य गर्भागारं तु कारयेत् ॥ २२॥ देवालयं ततः कृत्वा देवीमूर्तिभिरन्वितम् । शिवलोके गणो भूत्वा मोदते शाश्वतीःसमाः ॥ २३॥ स्कन्दालयं गणेशस्य भैरवस्य महात्मनः । चण्डेश्वरालयं कृत्वा स लभेत्पुण्यमद्भुतम् ॥ २४॥ वृषालयं प्रकुर्वीत तदग्रे बलिपीठकम् । तस्याग्रतो ध्वजस्तम्भं कुर्यादूर्ध्वसवर्तुलम् ॥ २५॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवप्रासादकरणं १ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ६ शिवलिङ्गप्रतिष्ठा । ३.२-२५॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 6 shivalingapratiShThA . 3.2-25.. Notes: Upon being asked by Devī देवी; Śiva शिव describes the procedure and merits of construction, reconstruction and resurrection i.e. jīrṇoddhāra जीर्णोद्धार of ŚivaPrāsāda शिवप्रासाद i.e. Śivālaya शिवालय and mentions about installation of the Śivaliṅga शिवलिङ्ग. Selected Śloka-s श्लोकाः are presented on this page. Proofread by Ruma Dewan
% Text title            : Ishvaraproktam Shivaprasadakaranam 1
% File name             : IshvaraproktaMshivaprAsAdakaraNam1.itx
% itxtitle              : shivaprAsAdakaraNam 1 IshvaraproktaM (shivarahasyAntargatam mRiddArviShTakapAShANairyaH kuryAdvai shivAlayam)
% engtitle              : IshvaraproktaM shivaprAsAdakaraNam 1
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 6 shivaliNgapratiShThA | 3.2-25||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org