ईश्वरप्रोक्तं शिवप्रासादकरणम् २
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
ईश्वर उवाच ।
कैलासाचलसङ्काशं गोपुरावलिभासुरम् ।
प्राकारवरशोभाढ्यं महामण्टपसुन्दरम् ॥ १॥
पर्यन्तराजद्वृषभं चित्रविद्रुमवेदिकम् ।
गवाक्षतोरणयुतं वलभीकुलभूषितम् ॥ २॥
नानाद्रुमलतोपेतं वापीकूपशतावृतम् ।
सरोभिः फुल्लकल्हारकमलोत्पलमण्डितैः ॥ ३॥
नानाविहगशोभाढ्यं नृत्यच्छिखिलाकुलम् ।
कृत्वा नगोर्ध्वशिखरजालजालकिताम्बरम् ॥ ४॥
रम्यनिर्झरकं मञ्जुरङ्गवल्लीविचित्रितम् ।
तन्मध्ये मम देवेश कुर्यात्प्रासादमुन्नतम् ॥ ५॥
शतं सहस्रमयुतं स्तम्भकुम्भविराजितम् ।
वेदिकापट्टिकोपेतं चित्रविद्रुमपुत्रिकम् ॥ ६॥
प्रतोलीवलभीनिर्यद्धारासारगृहान्तरम् ।
पुष्पमालापरिक्षिप्तं धूपदीपविराजितम् ॥ ७॥
मध्ये सिह्मासनयुतं डोलास्तरणशोभितम् ।
वितानशोभितोर्ध्वान्तमुपधानशतावृतम् ॥ ८॥
तस्मिन्नासनपर्यङ्के मूर्ति सोमां महेश्वरि ।
त्रिणेत्रां चारुचन्द्रार्कां त्वत्सहायां सुशोभनाम् ॥ ९॥
स्कन्दान्वितां नीलकण्ठां त्रिपुण्ड्रपरिशोभिताम् ।
प्रतिष्ठाप्य च कैलासप्रासादे परमेश्वरि ॥ १०॥
स यत्फलमवाप्नोति तदेकाग्रमनाः शृणु ।
सूर्यकोटिप्रतीकाशैर्यानैः कैलाससप्रभैः ॥ ११॥
औमं कौमारमैशानं वैष्णवं ब्राह्ममेव च ।
प्राजापत्यं महातेजोजनोलोकं महस्तथा ॥ १२॥
ऐन्द्रमासाद्य चेन्द्रत्वं कृत्वा कल्पायुतं दिवि ।
मन्वन्तर परीवृत्तं यावदिन्द्रशतं शिवे ॥ १३॥
भुक्त्वा चैव भुवर्लोकभोगान् देवसुदुर्लभान् ।
यावदायुर्ब्रह्मणोऽयं वसेत् कैलासपर्वते ॥ १४॥
मेरुमासाद्य देवानां भवनेषु प्रमोदने ।
किम्पुरुषाप्सरोलोके यक्षविद्याधरालये ॥ १५॥
भुक्त्वा भोगान् स विपुलान् पदे स्यादैच्छिके भुवि ।
आखण्डलाधिको भूयात् महीमण्डलमण्डनः ॥ १६॥
एकछत्राधिपो राजा भवेद्वीजितचामरः ।
जातिस्मरो भवेद्भूम्यां कृत्वा धर्मं शिवस्य तु ॥ १७॥
पुनर्मद्गणपो भूयान्नास्यान्तो धर्मवर्त्मनः ।
मन्दिराद्रिं(मन्थराद्रौ मन्दराद्रौवा) प्रकुर्वीत मम प्रासादमुत्तमम् ॥ १८॥
शिखरायुत संयुक्तं प्रासादं दिव्यवेदिकम् ।
रुद्रावतारक्रीडाभिरप्सरोगणचित्रितम् ॥ १९॥
देवदानवगन्धर्वप्रतिमापरिशोभितम् ।
सन्तानपारिजातादिमन्दराद्यैरलङ्कृतम् ॥ २०॥
देवोद्यानोद्भवैर्वृक्षैः समन्तादुपशोभितम् ।
सुधाविचित्रिताः सर्वाः कारयेत्प्रतिमाः शुभाः ॥ २१॥
रञ्जिताः पञ्चवर्णैश्च तत्प्रासादे विशेषतः ।
मम देव्या गणेशस्य स्कन्दभैरवनन्दिनः ॥ २२॥
वृषाग्रे चारुशृङ्गैश्च शोभितं कारयेन्नरः ।
तत्प्रासादे महापीठे पुष्पमालाविराजिते ॥ २३॥
गन्धधूपदिवितते दीपमालाकृतान्तरे ।
नृत्तमानं त्रयानेत्रं(? ) सोमं सोमार्धशेखरम् ॥ २४॥
मत्पार्श्वे त्वां महादेवीं पश्यन्तीं मत्पदाम्बुजम् ।
कृत्वा भक्त्या प्रतिष्ठाप्य स मे प्रियतरो गणः ॥ २५॥
मन्दराद्रिप्रतीकाशैर्विमानैर्विश्वतोमुखैः ।
हावभावसमायुक्तरुद्राणीनृत्तनिर्भरैः ॥ २६॥
गत्वा शिवपुरं दिव्यं भुक्त्वा भोगाननुत्तमान् ।
ज्ञान योगं समासाद्य गाणा(ण)पत्यं लभेन्नरः ॥ २७॥
यः कुर्यान्मेरुनामानं प्रासादं मे महेश्वरि ।
सहस्रशृङ्गसंयुक्तस्तम्भसाहस्रसंयुतम् ॥ २८॥
वेदिकातोरणोपेतं वलभीजालिकान्वितम् ।
दिक्पालैर्देवसङ्घैश्च तत्तद्वर्णायुधान्वितैः ॥ २९॥
कल्पितं शिल्पिवर्यैश्च प्रासादान्त पीठके ।
धूपदीपसुमामोदप्रसारितदिगन्तरे ॥ ३०॥
वामदक्षिणपार्श्वे(र्श्व)स्य विष्णुब्रह्मादिसेविताम् ।
उमान्वितां ममैवेशि मूर्ति संस्थाप्य पूजयेत् ॥ ३१॥
स यत्फलमवाप्नोति न तत्सर्वां महामखैः ।
सर्वयज्ञतपोदानसर्वतीर्थेषु यत्फलम् ॥ ३२॥
लब्ध्वा विमानवर्येण जितसूर्येण याति माम् ।
निषधं नामतः कुर्यात् प्रासादं भक्तिमान्नरः ॥ ३३॥
सहस्रशिखरोपेतं शुभकुम्भसमन्वितम् ।
वलभीकुलसञ्छन्नं तोरणारुणमण्डितम् ॥ ३४॥
वेदिकापट्टिकोपेतं मुनिवर्यैश्च शोभितम् ।
वैखानसैर्वालखिल्यैर्देवगन्धर्वशोभितम् ॥ ३५॥
तादृग्विधसुधाक्लृप्तमूर्तिभिः परिशोभितम् ।
तत्रासने सुखासीनं चन्द्रखण्डजटालकम् ॥ ३६॥
त्रिपुण्ड्रभालं मां देवि योगपट्टसनोज्ज्वलम् ।
चिन्मुद्राद्राविताज्ञानं मुनीनां भावितात्मनाम् ॥ ३७॥
संवृतं मुनिभिस्तत्र नतप्राञ्जलिभिः शिवे ।
कृत्वा मे दक्षिणमूर्ति वटमूले प्रतिष्ठिताम् ॥ ३८॥
देवलोकं पानवर्यैः सहयुक्तैर्विराजितैः ।
विमानैश्चन्द्रतारैश्च वृतमप्सरसां गणैः ॥ ३९॥
भुक्त्वाथ सुचिरङ्कालं देवभोगाननुत्तमान् ।
अभूतं देवि पश्चान्मे ज्ञानमैश्वरमुत्तम् ॥ ४०॥
लब्ध्वा मय्येव लीयेत भक्तियुक्तः प्रमुच्यते ।
कुर्याद्वा यः शिवे भक्त्या हिमशैलाख्यमुत्तमम् ॥ ४१॥
प्रासादं परया भक्त्या दिव्यस्तम्भशतैर्युतम् ।
जालिकामालिकामध्यस्तम्भकुम्भशतवृतम् ॥ ४२॥
वेदिकातोरणोपेतं दिव्यपीठमनोहरम् ।
धूपदीपावृतं पुष्पमालामुदितमेदुरम् ॥ ४३॥
नन्दिभृङ्गिमहाकालमूर्तिभिः परिशोभितम् ।
तिष्ठन्तं मां तत्र मूर्तिं कृत्वा वृषमुखे करम् ॥ ४४॥
सोष्णीषं सोममकुटं पुष्पापीडमुमान्वितम् ।
प्रतिष्ठाप्य लभेद्गौरि विमानं सार्वगामिकम् ॥ ४५॥
हिमशैलोपमैर्यानैर्भुक्त्वा देव पुरे सुखम् ।
नन्दनादिवने देवि पीत्वाऽमृतमनुत्तमम् ॥ ४६॥
स्रग्गन्धवासोविभ्राजदप्सरोभिः प्रमोदते ।
यावदिन्द्रायुतं देवि पश्चान्मे गणपो भवेत् ॥ ४७॥
नीलाद्रिशिखराख्यं वा प्रासादं तोरणान्वितम् ।
वेदिकापट्टिकोपेतं गोपानसि विराजितम् ॥ ४८॥
पञ्चाशत्स्तम्भसंवीत चित्रविद्रुमपुत्रिकम् ।
विराजितवृषाग्रं च धूयमानपताककम् ॥ ४९ ॥
(विराजित वृषाधीशधूयमानपताककम्) ॥ ४९॥
वेणुवीणारवानेकसमधूपादिदीपितम् ।
पीठे देवि प्रतिष्ठाप्य गजध्नीं मूर्तिमव्ययाम् ॥ ५०॥
त्रिणेत्रचारुचन्द्रार्का गजमस्तलसाङ्घ्रिकाम् । (गजमस्तलसत्पदाम्)
विदीपितमहाशूलकरां दंष्ट्राङ्कुरास्यकाम् ॥ ५१॥
यानैर्वृषयुतैर्देवि तिष्ठेद्धि परमेष्ठिनः ।
लोके भोगयुतो धीमानधीते ज्ञानमुत्तमम् ॥ ५२॥
पश्चात्तेनैव मां प्राप्य ब्रह्मणा परिमुच्यते ।
वृषभाख्यं हि यः कुर्यात्प्रासादं परमेश्वरि ॥ ५३॥
मण्टपं वा सुविहितं स्तम्भकुम्भशतावृतम् ।
राजद्वृषाग्रकलशं पुष्पमालापरिष्कृतम् ॥ ५४॥
तत्र पीठे कालहरं मां प्रतिष्ठाप्य शङ्करि ।
कालस्य मकुटे पादहस्तशूलेन ताडितम् ॥ ५५ ॥
(विध्यन्तंकालमकुटे शूलेनाथ निजङ्घ्रिणा) ॥ ५५॥
कालं च पतितं चाग्रे उग्रं मां चन्द्रशेखरम् ।
दंष्ट्राकरालवदनं कृत्वा बेरं लभेन्नरः ॥ ५६॥
गाणा(ण)पत्यं प्रियं मे स्यात् विमानेनार्क भास्वता (रोचिषा) ।
गत्वा शिवपुरं देवि ज्ञानं लब्ध्वा विमुच्यते ॥ ५७॥
महेन्द्राख्यं तु यः कुर्यात् प्रासादं परमेशितुः ।
नानालङ्कारशोभाढ्यं स्तम्भकुम्भशता वृतम् ॥ ५८॥
गवाक्षपङ्क्ति मध्यस्थां शिखरप्रकरान्वितम् ।
वेदिकाद्वारविहितं दृषद्भिः पिहितं दृढैः ॥ ५९॥
तस्मिन्नासनवर्ये मां प्रतिष्ठाप्य त्वया सह ।
मूर्तिं कृत्वा ताम्रमयीं राजतीं स्वर्णनिर्मिताम् ॥ ६०॥
चन्द्रापीडां त्रिणयनां मन्दस्मितमनोहराम् ।
वामदक्षिणभागे मे गणेशगुहसंयुताम् ॥ ६१॥
स फलं लभते मर्त्यो भुवि भाग्यसमन्वितः ।
पुत्रपौत्रैर्युतो दारैर्वंशलक्षसमन्वितः ॥ ६२॥
काव्यसंशोभियानेन पुष्पमालाविराजता ।
कैलासं दक्षिणं प्राप्य यक्षेन्द्रार्चितभोगभुक् ॥ ६३॥
प्रासादं हेम कूटाख्यं कृत्वा स्तम्भशतान्वितम् ।
गवाक्षशिक्षाविततं त्र्यक्षप्रीतिकरं शिवे ॥ ६४॥
संराजद्वेदिका कुम्भपताकावलिशोभितम् ।
तत्र सिह्मासनासीनमर्धनारीश्वरं हि माम् ॥ ६५॥
प्रतिष्ठाप्य लभेन्मुक्तिं भुङ्क्ते भोगाननुत्तमान् ।
विषयान् विषवत् त्यक्त्वा निःशेषं मामवाप्नुयात् ॥ ६६॥
हेम्ना वा राजतेनापि ताम्रकांस्यसुपित्तलैः ।
मणिभिः स्फटिकैर्वापि विद्रुमैर्वा महेश्वरि ॥ ६७॥
आढ्यो वा द्रव्यरहितो भक्त्या कुर्याच्छिवालयम् ।
मृन्मयात्कोटिगुणितं पुण्यं स्याद्दारुभिः कृते ॥ ६८॥
कोटिकोटिगुणं पुण्यं मृत्काष्टादिष्टकामयम् ।
त्रिगुणं चेष्टकादिभ्यः शैलैर्देवि शिवालयम् ॥ ६९॥
दृषद्भिः कृष्णवर्णैश्च ततः कोटिगुणं भवेत् ।
मृच्छैलयोः समं ज्ञेयं फलमाढ्यदरिद्रयो ॥ ७०॥
वने वापि नदीतीरे पुण्यपर्वतमूर्धसु
तीरे नदीपतेर्देवि भक्त्या कुर्याच्छिवालयम् ॥ ७१॥
स्थावरं शिवलिङ्गस्य गृहे वा पुरुषाधिकम् ।
न कार्यमालयं देवि चरलिङ्गस्य शङ्करि ॥ ७२॥
यत्र क्वापि शिवे भक्त्या कुर्याच्छैलैः शिवालयम् ।
जीर्णं वा पतितं वापि खण्डितं स्फुटितं तथा ॥ ७३॥
पूर्ववत्कारयेद्युक्तः सर्वस्माल्लभते फलम् ।
नवादपि महादेवि जीर्णोद्धारः प्रशस्यते ॥ ७४॥
प्रासादं गोपुरं वापि प्राकारं मण्टपं तथा ।
कर्तुरभ्यधिकं पुण्यं लभते नात्र संशयः ॥ ७५॥
भक्त्या वित्तानुसारेण कुर्यात्प्रासादसञ्चयम् ।
अल्पे महति वा पुण्यं सममाढ्यदरिद्रयोः ॥ ७६॥
वित्तशाठ्येन यः कुर्यात्पुण्यमाढ्योऽपि मानवः ।
न स तत्फलमाप्नोति प्रलोभाक्रान्तमानसः ॥ ७७॥
तस्मान्मदालयं देवि कुर्याद्वित्तमवञ्चयन् ।
अष्टेष्टकाभिरपि वा कुर्यादेव शिवालयम् ॥ ७८॥
प्रसादार्थं महेशस्य प्रासादं परमेश्वरि ।
तथैवान्यस्य करणे साहाय्यमपि वा स्वयम् ॥ ७९॥
वाचा धनेन वा देवि स्वस्याशक्तौ सदा शिवे ।
कुर्याद्वघ्नकरो (कुयद्विघ्नं नरो) यस्तु नरके पच्यते चिरम् ॥ ८०॥
यावद्ब्रह्मशतं गौरि यः शिवालयभङ्गकृत् ।
किं पूर्णे बहुनोक्तेन भक्त्या वित्तानुसारतः ॥ ८१॥
कुर्याद्देवि शिवक्षेत्रं जन्म प्राप्येह मानवम् ।
वापीकूपकरा ये स्युस्तटाकं वा शिवालये ॥ ८२॥
यावत्तद्विदुतोयानां सहस्रपरिवत्सरम् ।
(यावन्तो बिन्दवस्तत्र तावद्वर्षसहस्रकम्) ।
सुधासागरमध्यस्थो निवसेत् स पितामहैः(हः) ॥ ८३॥
वनवाटीकरो यस्तु पुष्पार्चाया(यै) महेश्वरि ।
एकं बिल्वतरुं वापि रोपयेद्यः शिवालये ॥ ८४॥
यावत्तत्पत्रकुसुमं बीजमूलफलानि च ।
तावद्वर्षसहस्राणि मम लोके महीयते ॥ ८५॥
उत्सवार्थं महेशस्य वाहनानि च कारयेत् ।
गजमश्वं भूतगणं वृषं चापि महेशितुः ॥ ८६॥
सौवर्णं राजतं वापि दारुणा रङ्गचित्रितम् ।
कृत्वा भवेद्गणेन्द्रोऽसौ मम कैलासमौलिगः ॥ ८७॥
रथं च मम देवेशि ध्वजकुम्भपरिष्कृतम् ।
सहस्रशतचक्रं वा दशचक्रं मनोहरम् ॥ ८८॥
उत्तमं शतचक्रं स्यात् दशचक्रं तु मध्यमम् ।
अधमं षट्चतुश्चक्रं रथं शिल्पविदो विदुः ॥ ८९॥
तादृक्कलाचित्रितं च पुष्पमालापरीवृतम् ।
कद्भिर्देव(र्देव)गन्धर्वैर्ब्रह्मसारथिमुन्नतम् ॥ ९०॥
कृत्वा मल्लोकमाप्नोति पुनरावृत्तिवर्जितम् ।
गृहोत्सवार्थे कुर्वीत पुरुषोऽर्धरथं शिवे ॥ ९१॥
ईश्वर उवाच ।
मदालयं (शिवालयं) यः परमेश्वरस्य
करोति लोष्टैरपि भक्तियुक्तः ।
कैलासमायाति विमानवर्यैः
सुरेन्द्रपद्मोद्भवविष्णुवन्द्यः ॥ ९२॥
बाल्ये च काष्ठेन शिवं च कृत्वा
मृदापि वा पांसुभिरेव लिङ्गम् ।
सम्पूज्य पुण्यैर्लभते गणेन्द्रतां
भक्त्या कृतत्वादगणय्य पुण्यम् ॥ ९३॥
प्रासाद प्रकरं महेशसदने कृत्वा प्रसादं लभेत्
शम्भोर्मुख्यगणेन्द्रतामुपगतो मन्दार(वृन्दार)वृन्दार्चितः ।
तस्मिन्नीश्वरमूर्तयः सुविहिताः संस्थाप्य मेघायुतं
पुण्यं प्राप्य स मोदते गिरिसुते पातादिशकोज्झितः ॥ ९४॥
यो वाहनानि रुचिराणि गजांश्च भूत-
कैलासवर्यमगजे प्रकरोति भक्त्या ।
दिव्यं सुधांशुवरदीधिति सन्निभाङ्ग
लब्ध्वा शिवे मम निवसेत गणेन्द्रम् ॥ ९५॥
कृत्वा रथाधिपतये वरचारुचक्र -
प्रोद्यत्पताककनकोत्तमकुम्भमौलिम् ।
वेदाश्वसारथिविधिं रथमीशमूर्तिं
संस्थाप्य कर्षति महोत्सवकरः स मुक्तः ॥ ९६॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवप्रासादकरणं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ७ प्रासादकरणम् । १-९६॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 7 prAsAdakaraNam . 1-96..
Notes:
Upon being asked by Devī देवी; Śiva शिव describes the procedure and merits of construction, reconstruction and resurrection i.e. jīrṇoddhāra जीर्णोद्धार of ŚivaPrāsāda शिवप्रासाद i.e. Śivālaya शिवालय. He mentions about installation of the Sthāvara स्थावर and Cara चर Śivaliṅga शिवलिङ्ग and His 25 Forms i.e. PañcaviṃśaMūrti पञ्चविंशमूर्ति.
Proofread by Ruma Dewan