ईश्वरप्रोक्तं वैद्यनाथरहस्यवर्णनम्

ईश्वरप्रोक्तं वैद्यनाथरहस्यवर्णनम्

- शिवगौरीसंवादे - ईश्वर उवाच । श‍ृणु देवि प्रवक्ष्यामि रहस्यमतिपावनम् ॥ ३७॥ वैद्यनाथमिति ख्यातं गृद्ध्रेशनगराभिधम् । धर्मार्थिनां धर्मदं तत् धनदं धनमिच्छताम् ॥ ३८॥ कामिनां कामदं हृद्यं मुमुक्षूणां च मुक्तिदम् । पुत्रदं पुत्रकामानां सुखदं सुखमिच्छताम् ॥ ३९॥ राज्यदं राज्यकामानां शुभदं शुभमिच्छताम् । कन्यार्थिनां च कन्यादं रोगिणां रोगनाशनम् ॥ ४०॥ भूतप्रेतपिशाचानां विद्रावणविचक्षणम् । संसारसागरोन्मग्नजन्तूनामुडुपाधिपम् ॥ ४१॥ यस्मिंस्थले तु जातस्य जायमानस्य वा पुनः । जन्तोस्संसारबद्धस्य ब्रह्मानन्दो न संशयः ॥ ४२॥ सप्तानामपि कोटीनां मन्त्राणां सिद्धिदं सदा । इन्द्रादयश्च दिक्पाला वसवाष्टौ मुनीश्वराः ॥ ४३॥ रुद्राश्च द्वादशादित्याः तत्र वैद्येश्वरस्थले । आराधयन्ति सिद्ध्यर्थं वैद्यनाथं महेश्वरम् ॥ ४४॥ सह बालिकया नाम्ना मङ्गलाकारणत्वया । श्रीगन्धकण्ठ्याशर्वाण्या पूजितोऽस्मि महेश्वरि ॥ ४५॥ जटायुः भूमिपुत्रश्च स्रष्टा विघ्नेश्वरो गुहः । भवताग्रिणीर्भरद्वाजो रामो भानुश्शशी तथा ॥ ४६॥ लक्ष्मणार्जुननामा च श्रीमन्नारायणश्च गौः । हिरण्यवर्मा वेदाश्च सिद्धाश्च मुनिपुङ्गवाः ॥ ४७॥ ऋषयः किन्नरास्सिद्धाः गन्धर्वाश्चारणास्तथा । वैद्यनाथस्थले सिद्धिं प्रापुस्तत्र द्विजोत्तमाः ॥ ४८॥ शतानन्दो मुनिः पूर्वं वैद्यनाथं महेश्वरम् । आराध्य सुस्थले सिद्धिं प्राप तीर्थस्यवैभवात् ॥ ४९॥ तस्य चोत्तरभागे तु भद्रकाली मनोहरा । कालाञ्चनाभा कल्याणी मदाज्ञापरिपालिनी ॥ ५०॥ भूतप्रेतपिशाचानां निग्रहायत्तमानसा । सर्वेषामपि भक्तानामभीष्टं प्रददात्यलम् ॥ ५१॥ ईशान्यां भैरवो देवो निग्रहानुग्रहे रतः । सर्वाभीष्टप्रदो नित्यं मदाज्ञां पालयत्यलम् ॥ ५२॥ दुर्गा दक्षिणदिग्भागे दुष्टानां निग्रहे रता । ममाज्ञां पालयन्ती सा तस्मिन् वसति सर्वदा ॥ ५३॥ प्रतीच्यां दिशि शास्ता च निग्रहानुग्रहोद्यतः । भक्तानां रोगहन्ता च नगरस्य च रक्षक: ॥ ५४॥ तस्मिन् सप्तमहातीर्थान्यद्भुतान्यतुलानि च । सन्ति सिद्धामृतं तेषु तीर्थं दक्षिणभागतः ॥ ५५॥ बालिकाया वायुभागे स्वेदतीर्थमिति श्रुतम् । अगस्त्यतीर्थं पूर्वस्मिन् भागे तु मुनिपुङ्गवाः ॥ ५६॥ गङ्गाकुण्डमिति ख्यातमाग्नेये तीर्थमुत्तमम् । कोदण्डतटिनी नाम रामकोदण्डसम्भवा ॥ ५७॥ धनुष्कोटिसमा दिव्या मणिकण्ठिकया समा । गौरीतीर्थमिति ख्यातं कावेर्यान्तर्गतं वरम् ॥ ५८॥ शक्तिगङ्गेति विख्यातं सिद्धामृत जलान्तरे । तस्य सिद्धामृतस्यैव नामानि युगभेदतः ॥ ५९॥ गोक्षीरमिक्षुमारं च गृध्रतीर्थमिति स्फुटम् । तस्मिन् सिद्धामृतेऽद्यापि मण्डूकाः श्यामरूपिणः ॥ ६०॥ शतानन्दमुनेः शापात् न लक्ष्यन्ते मुनीश्वराः । गृध्रकुण्डमिति ख्यातमस्ति दक्षिणभागतः ॥ ६१॥ तन्मृतिका धारणेन रोगा नश्यन्त्यसंशयः । तस्यैव नामधेयानि क्षेत्रस्य विलसन्त्यलम् ॥ ६२॥ गृध्रराजपुरं वेदपुरं स्कन्दपुरीति च । किं च सूर्यपुरी चेति विश्रुता जगती तले ॥ ६३॥ अनन्तानि च नामानि तस्य क्षेत्रस्य सन्ति वै । एतानि नामधेयानि प्रशंसन्ति च ये नराः ॥ ६४॥ पुमर्थान् सकलान् प्राप्य शिवसायुज्यमाप्नुयुः । तस्मिम् क्षेत्रे विशेषेण शक्तिमच्छिखिवाहनम् ॥ ६५॥ वरं ददाति सर्वेषां नियन्ता रक्षसामपि । भूतप्रेतपिशाचानां निग्रहे सुतरा पटुः ॥ ६६॥ सर्वाभीष्टप्रदं तत्र वैद्यनाथस्थले शिवाम् । बालिकां पूजयन्ति ये ते धन्याः श्रियमाप्नुयुः ॥ ६७॥ ॥ इति वैद्यनाथस्थलमाहात्म्ये ईश्वरप्रोक्तं वैद्यनाथरहस्यवर्णनं सम्पूर्णम् ॥ - ॥ वैद्यनाथस्थलमाहात्म्यम् । प्रथमोऽध्यायः । ३७-६७॥ - .. vaidyanAthasthalamAhAtmyam . prathamo.adhyAyaH . 37-67.. Notes: Śiva शिव details to Gaurī गौरी about the VaidyanāthaKṣetra वैद्यनाथक्षेत्र located in the GṛdhreshaNagara गृध्रेशनगर, and mentions about several establishments in the premises, including those for Bhadrakālī भद्रकाली, Bhairava भैरव, Durgā दुर्गा, Śāstā शास्ता as guardians. The tīrtha तीर्थ in that region include Siddhāmṛta सिद्धामृत, Svedatīrtha स्वेदतीर्थ, Agastyaṭīrtha अगस्त्यतीर्थ, Gaurītīrtha गौरीतीर्थ, Gṛdhratīrtha गृद्ध्रतीर्थ etc. . Selected Śloka-s are presented on this webpage. Encoded and proofread by Ruma Dewan
% Text title            : Ishvaraproktam Vaidyanatharahasyavarnanam
% File name             : IshvaraproktaMvaidyanAtharahasyavarNanam.itx
% itxtitle              : vaidyanAtharahasyavarNanam IshvaraproktaM (vaidyanAthasthalamAhAtmyAntargatam)
% engtitle              : IshvaraproktaM vaidyanAtharahasyavarNanam
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : vaidyanAthasthalamAhAtmya | prathamo.adhyAyaH | 37-67||
% Indexextra            : (Scan)
% Latest update         : February 25, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org