ईश्वरप्रोक्तं वैद्यनाथतीर्थक्षेत्रमाहात्म्यम्
- शिवगौरीसंवादे -
वैद्यनाथस्थलावासात् मदीयार्चनवैभवात् ।
तत्स्थानसेवनं कृत्वा सर्वसौभाग्यवान्भवेत् ॥ ३.४५॥
तन्मे प्रियतरं विद्धि वैद्यनाथस्थलं शुभम् ।
वैद्यनाथस्थले तत्र गृध्रेणाराधितो ऋचा ॥ ३.४६॥
रामेण पूजितस्सोऽहं स्कन्देन रविणापि च ।
तत्स्थानं प्रथितं भूमौ गृध्रऋक्सूर्यनामकम् ॥ ३.४७॥
श्वशुरावासभूमिर्यो हिमाद्रिर्मम भामिनि ।
ततोऽपि वैद्यनाथेऽस्मिन् स्थले प्रीतिर्न संशयः ॥ ३.४८॥
मरुद्वृधातटे पुण्ये पदानि मम सन्ति वै ।
स्वयंभूनि सहस्त्राणि प्रसिद्धानि नगात्मजे ॥ ३.४९॥
सहस्रेषु पदेष्वेषु मदीयेषु च भामिनि ।
अतिप्रियकराण्यद्य प्रवक्ष्यामि च तान्यहम् ॥ ३.५०॥
प्रभावमतिपुण्यानां मदीयानां महेश्वरि ।
मरुद्वृधातटस्थानां नामानि प्रवदाम्यहम् ॥ ४.१॥
स्थाननाम कथ्यतेऽद्य सावधानयुता शृणु ।
कावेर्यास्तीरर्यार्नद्याः पुण्ययोरुभयोरपि ॥ ४.२॥
स्वायम्भून्युत्तमान्येव प्रवक्ष्यामि यथाक्रमम् ।
प्रिये रत्नगिरिर्नाम कावेर्या दक्षिणे तटे ॥ ४.३॥
अस्ति क्षेत्रं महापुण्यं सर्वसौभाग्यदायकम् ।
तस्मिन् स्थले त्वया साकं निवसामि मुदा प्रिये ॥ ४.४॥
तस्य रत्नगिरेः शृङ्गे कल्पद्रुम समा द्रुमाः ।
चम्पकास्त्वथ चाम्पेयाः पनसाः पाटलास्तथा ॥ ४.५॥
चन्दनाः पारिजाताश्च सर्वदा विलसन्ति च ।
कावेर्याश्चोतरे भागे मक्षिकापर्वतोत्तमे ॥ ४.६॥
अस्ति तीर्थं महापुण्यममृताकारमद्भुतम् ।
तस्य तीर्थस्य पानेन जरामरणवर्जिताः ॥ ४.७॥
तत्रत्याजन्तवस्सर्वे तद्रक्षास्तमलं प्रिये ।
तत्रापि च त्वया सार्धं सर्वदा निवसाम्यहम् ॥ ४.८॥
कावेर्यायोश्चोत्तरे तीरे कुण्डस्थण्डिलमुत्तमम् ।
भाति तत्रोत्तरमुखः सर्वदा निवसाम्यहम् ॥ ४.९॥
मामिहैवाराजद्ब्रहमा काशिक्षेत्रसमे पुरा ।
कृण्डस्थण्डिलनाम्नोऽस्य पूर्वस्यां दक्षिणे तटे ॥ ४.१०॥
दर्विकातीर्थमाभाति तत्रापि निवसाम्यहम् ।
तस्य पूर्वे महत् क्षेत्रं मदीयं भाति सर्वदा ॥ ४.११॥
पनसादौ सुरैस्साकं त्वयापि निवसाम्यहम् ।
कावेर्या दक्षिणे तीरे त्रिशिरस्स्थानपर्वते ॥ ४.१२॥
नवरत्नमयैः कुड्यैः प्रासादैरूज्ज्वले वरे ।
निवसामि सुरैस्सार्धं पश्चिमाभिमुखे सदा ॥ ४.१३॥
गजारण्यमिति ख्यातं कावेर्याश्चोत्तरे तटे ।
अखिलाण्डाम्बया साकं ज्ञानभूमौ वसाम्यहम् ॥ ४.१४॥
पुण्यं सप्तमुनिस्थानं तस्य पूर्वे विराजते ।
तस्मिन्नपि गणैस्साकं पश्चिमाभिमुखे सदा ॥ ४.१५॥
निवसामि त्वया सार्धं सर्वसौभाग्यदायिनि ।
कावेर्याश्चोत्तरे तीरे स्थाण्डीश्वरमनुत्तमम् ॥ ४.१६॥
भाति तत्रामरैस्सार्धं सर्वदा निवसाम्यहम् ।
कावेर्याश्वोत्तरेतीरे जल्पेश्वरमनुत्तमम् ॥ ४.१७॥
तस्मिन् जल्पेश्वरे पुण्या नाम्ना पञ्चनदे शुभे ।
तत्रन्यानां च जन्तूनां मृतिकाले दयायुतः ॥ ४.१८॥
अहं तारकमन्त्रत्य मर्म वक्ष्यामि सर्वदा ।
कावेर्या दक्षिणेतीरे पुण्यं पुष्पवनाभिधम् ॥ ४.१९॥
तत्र वासोमेरैस्माकं मम प्रियतरं प्रिये ।
कावेर्या दक्षिणेतीरे तञ्जीश्वरमनुत्तमम् ॥ ४.२०॥
आनन्दवल्लीदेव्या च त्वया सह वसाम्यहम् ।
तस्य चोत्तरभागेतु कावेर्या दक्षिणे तटे ॥ ४.२१॥
श्रीकण्ठनगरे तत्र वीरस्थाने वसाम्यहम् ।
मनाभिमतमत्यन्तं मुक्तिस्थानं च तद्भुवि ॥ ४.२२॥
तस्य पूर्वे महत् क्षेत्रं पवित्रं पापनाशनम् ।
श्रीशब्दपूर्वं विख्यातं नान्ना जीवन्तिकास्थलम् ॥ ४.२३॥
यत्तीर्थं श्रीवटाख्यं तत् भाति तत्र ममास्पदम् ।
सार्धं कोटिगणैर्गौरित्वया सह वसाम्यहम् ॥ ४.२४॥
अन्यदत्यद्भुतं पूर्वे कावेर्या दक्षिणेतटे ।
कुम्भघोणमिति ख्यातमस्तिक्षेत्रं महद्भुवि ॥ ४.२५॥
तत्र संवसतां देवि नराणामस्ति निश्चयम् ।
हेमपद्म विचित्रं त्यात् वटिकाद्वय मात्रतः॥ ४.२६॥
नाम्ना कुम्भेश्वरस्तत्रं सप्तस्थानेश्वरावृते ।
विवसामि त्वया सार्द्धं जगतामधिनायिके ॥ ४.२७॥
मरुद्वृधायास्तीरे तत् सोमेश्वरमिति श्रुतम् ।
तस्मिन् स्थले त्वया साकं निवसाम्यखिलेश्वरि ॥ ४.२८॥
पट्टीश्वरमिति ख्यातं कावेर्या दक्षिणे तटे ।
तत्रापि च त्वया सार्द्धं वसामि निखिलेश्वरि ॥ ४.२९॥
कावेर्या दक्षिणे तीरे विश्रुतं जगतीतले ।
स्थानं त्रिभुवनं नाम महदस्ति ममास्पदम् ॥ ४.३०॥
तस्मिन् स्थले त्वया सार्धं निवसामि महेश्वरि ।
अन्यदत्यद्भुतं गौरि ब्रह्महत्याविनाशकम् ॥ ४.३१॥
मध्यार्जुनमिति खयातं त्रिषु लोकेषु विश्रुतम् ।
तस्य क्षेत्रस्य माहात्म्यं कोवा वर्णयितुं क्षमः ॥ ४.३२॥
तस्मिन् स्थले महालिङ्गः निवसामि त्वया सह ।
तस्य स्वयम्भुस्थानस्य पूर्वस्यां मत्प्रियं स्थलम् ॥ ४.३३॥
महद्वधायास्तीरे तत् दक्षिणे सकलं प्रदम् ।
गोमुक्तीशमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ॥ ४.३४॥
गोमुक्तीश त्वया तत्र सदाऽतुल कुचाख्यया ।
निवसामि मुदानृणां वसतां मोक्षदायकः ॥ ४.३५॥
आश्चर्याणि च वराणि मदीयानि विभान्त्यपि ।
ऋषीणां मण्डलं तत्र बहूनामपि वर्तते ॥ ४.३६॥
वसवोऽष्टौ च रुद्राश्च द्वादशादित्यदेवताः ।
सर्वाश्च शक्तयश्चापि तत्र गोमुक्तिशङ्करम् ॥ ४.३७॥
आराधयन्ति सिध्यर्थं मम प्रियमुमे भृशम् ।
तस्य चोत्तर भागे तु त्रिकोटीश्वरनामकम् ॥ ४.३८॥
अस्ति क्षेत्रं महापुण्यं सर्वमङ्गलदायकम् ।
निवसामि त्वया तत्र सर्वदा जगदीश्वरी ॥ ४.३९॥
मरुद्वृधातटे पूर्वदक्षिणे भीमदायके ।
मायूरमिति विख्यातं काशिक्षेत्रसमं शुभम् ॥ ४.४०॥
मम प्रीतिकरं श्रेष्ठमद्भुतं पापनाशनम् ।
तत्र देवैस्समस्तैश्च पूज्यमानपदाम्बुजः ॥ ४.४१॥
अभयाम्बिकया साकं त्वया देवी वसाम्यहम् ।
एतेषु पुण्यक्षेत्रेषु मदीयेषु सदा मम ॥ ४.४२॥
आवासो लोकरक्षार्थं तथापि श्रृणु मे वचः ।
रहस्यभूतमत्यन्तं तत् सुखावहहेतुकम् ॥ ४.४३॥
अनन्तशक्तिसहिते स्वयंलिङ्गे मनोहरे ।
उत्तरे सह्यजायाश्च पावने पापनाशके ॥ ४.४४॥
पुण्ये प्रधानभूतेऽस्मिन् क्षेत्राणामुत्तमोत्तमे ।
वैद्यनाथस्थले प्रीतिगौर्यावासेति निर्मले ॥ ४.४५॥
नाम्ना श्रीगन्धकण्ठी च त्वन्मूर्तिः शुभदायिनी ।
अनन्तशक्तियुक्ता सा सर्वाभीष्टप्रदायिनी ॥ ४.४६॥
तथा श्रीगन्धकण्ठ्याहं कोशशक्तिसमाहितः ।
सर्वेषां सर्वदा नित्यं ग्रहनिग्रहसादरः ॥ ४.४७॥
स्वामी च षण्मुखस्तेषां नियन्ता रक्षसामपि ।
वसत्यनुदिनं तत्र मदाज्ञापरिपालकः ॥ ४.४८॥
त्रिषु भूरादिषु शिवे मदीयेषु पदेष्वपि ।
षष्टिकोटि सहस्रेषु प्रत्येक शरदां शतम् ॥ ४.४९॥
शिवार्चनपराणां तु श्रेया भवति यन्नृणाम् ।
ततोऽधिकं महच्छ्रेयः सकृद्वैद्येश्वरस्थले ॥ ४.५०॥
अचिकित्सा चिकित्सेशं सर्वाभीष्टप्रदायकम् ।
बिल्वैरर्चयतां पुंसां भवत्येव न संशयः ॥ ४.५१॥
अभिषेकं च नैवेद्यं ताम्बूलं च प्रदक्षिणम् ।
नमस्कारो जयश्चैव दानानि द्विजभोजनम् ॥ ४.५२॥
ये कुर्वन्ति नरा भक्त्या तेषां पुण्यफलं शृणु ।
रोगार्तो रोगनिर्मुक्तो नेत्रार्थी नेत्रमाप्नुयात् ॥ ४.५३॥
पुत्रार्थी लभते पुत्रं धनार्थी धनमाप्नुयात् ।
भूतप्रेतपिशाचाद्यैः ग्रस्ताश्चेन्मनुजाः स्त्रियः ॥ ४.५४॥
तद्दोषेभ्यो विनिर्मुक्ताः सर्वान् कामानवाप्य च ।
त्रिसप्तकुलमुद्धृत्य व्रजेयुर्मत्पदं ध्रुवम् ॥ ४.५५॥
स्नात्वा सिद्धामृते गौरी गोक्षीराख्येति निर्मले ।
कल्पकाख्यं गणपतिं सर्वाभीष्टप्रदायकम् ॥ ४.५६॥
श्रीगन्धकण्ठीं त्वां मां च त्वत्पुत्रं षण्मुखं प्रिये ।
सेवन्ते ये नरा भक्त्या स्तुवन्ति स्तुतिवाङ्मयैः ॥ ४.५७॥
ते सर्वे भवरोगैश्च विनिर्मुक्ता भवन्त्यमी ।
ग्रहादिपीडया मुक्ता इति तत्र किमद्भुतम् ॥ ४.५८॥
प्राप्नुवन्ति परां मुक्तिं भुक्त्वा भोगाननेकशः ।
वैद्यनाथस्थले पूजां विशेषात् कल्पयन्ति ये ॥ ४.५९॥
मदास्थाननिवासास्ते कल्पे कल्पे भवन्त्यहो ।
अगस्त्य उवाच ।
तच्छ्रुत्वा वचनं तस्य पार्वती जगदम्बिका ॥ ४.६०॥
आनन्दाम्बुधिकल्लोलस्वान्तरा गिरिजा तदा ।
पादाब्जं परमेशस्य प्रणनाम मुहुर्मुहुः ॥ ४.६१॥
॥ इति वैद्यनाथस्थलमाहात्म्ये ईश्वरप्रोक्तं वैद्यनाथतीर्थक्षेत्रमाहात्म्यं सम्पूर्णम् ॥
- ॥ वैद्यनाथस्थलमाहात्म्यम् । ३-४। वावृत्तश्लोकाः ॥
- .. vaidyanAthasthalamAhAtmyam . 3-4. vAvRRittashlokAH ..
Notes:
Śiva शिव outlines to Gaurī गौरी about the VaidyanāthaKṣetra वैद्यनाथक्षेत्र and mentions about several tīrtha तीर्थ establishments around River Kāverī कावेरी that is also known as River Marudvṛdhā मरुद्वृधा.
Śiva शिव also mentions the Names and Forms of Devī देवि residing with Him in those places e.g. ŚrīGandhakaṇṭhī श्रीगन्धकण्ठी in Vaidyanātha Sthala वैद्यनाथ स्थल.
Encoded and proofread by Ruma Dewan