ईश्वरेण देवानां शोधनम्
सोऽहं नित्योऽप्यनित्यश्चब्रह्माब्रह्माहमेवहि ।
प्राञ्चोऽहञ्चैव पश्चाञ्चदक्षिणोदीचए वहि ॥ १॥
अधश्चोर्ध्वमहं लोका दिशश्च विदिशोऽप्यहम् ।
पुमान्नपुंसकश्चाहं स्त्रीचाहंसर्वदेवताः ॥ २॥
नैव स्त्री नपुमाञ्चाहं नैय चाहं सनातनः ।
अशरीरश्शरीरेषु ह्यशीर्णश्शीर्यकेष्वहम् ॥ ३॥
ज्योतिषामहमेवास्मिचात्मज्योतिस्सदाव्ययः ।
अनलानिलसूर्येन्दुभूतानामन्तरास्म्यहम् ॥ ४॥
मां नजानन्ति भूतानि भूतादिश्चाहमेव हि ।
छन्दसामहमेवादिर्गार्हपत्योऽहमेवहि ॥ ५॥
दक्षिणाग्न्याहवनीयस्सत्योऽहं गौरहं सुराः ।
गौर्यहञ्च वरिष्ठोऽहं कनिष्ठोऽहंसनातनः ॥ ६॥
ऋग्यजुस्सामाधर्वाणि मद्गिरो हि सुरेश्वराः ।
अक्षरोऽहं क्षरोऽहञ्चगुह्योऽहं पुष्करं तथा ॥ ७॥
अणोरणीयोऽस्मि सुरा महतोऽहं महांस्तथा ।
विश्वतश्चक्षुरेवाहं विश्वतोबाहुरीश्वरः ॥ ८॥
विश्वमौलिविश्वपादस्सहस्राक्षसहस्रपात् ।
दशाङ्गुलमिदं सर्वमत्यतिष्ठामि भो सुराः ॥ ९॥
अमृतस्याहमीशानस्सर्वेषु पुरुषोऽन्तरः ।
व्यपोह्यशीर्षकपालं सर्वेषां संस्थितोऽस्म्यहम् ॥ १०॥
ऐषोऽन्तराहं पुरुषो हिरण्यश्मश्रुरेवहि ।
मनसोऽहं जवीयांश्च मयावास्यमिदं जगत् ॥ ११॥
मय्येव लीयते चान्ते मत्तोऽन्यन्नास्ति किञ्चन ।
अप्राणोऽस्म्यमनाशुभ्रो निर्गताक्षोऽहमेवहि ॥ १२॥
न प्रज्ञोऽहं न चाप्रज्ञो नोभयप्रज्ञ एव हि ।
अहं भूतेषु सुप्तेषु जागर्मि सततं सुराः ॥ १३॥
अहमव्यक्त एवेशोव्यक्तोभूतहृदिस्थितः ।
स्थाणुर्निर्गुण एवास्मिकार्यकारणवर्जितः ॥ १४॥
क्षराक्षरादिरहितः परमात्माहमेव हि ।
अहं च न दिवा रात्रिर्न सन्नासत्सदाशिवः ॥ १५॥
आकाशकोशस्संवेष्टुं सुकरो यदि जायते ।
तदा मान्त्वनविज्ञायदुःखस्यान्तोभविष्यति ॥ १६॥
वेदैस्सर्वैश्च वेद्योऽहं वेदान्तेष्वहसास्थितः ।
स्वे महिम्न्यहमेवैको ह्यहमौपनिषत्परः ॥ १७॥
वेदादिस्स्वर एवाहं प्रणवोऽहं सनातनः ।
प्रणवादित्रिमात्रोऽहं सर्वमन्त्रात्मकस्त्वहम् ॥ १८॥
पञ्चाक्षरमयश्चाहं पञ्चपातकवर्जितः ।
नासङ्गो नैव मे सङ्गोऽप्यहं भुवनमेवहि ॥ १९॥
विश्वातीतो विश्वधामा विश्वाधिक उमापतिः ।
भवन्तः पशवस्सर्वे भवताम्पतिरस्म्यहम् ॥ २०॥
मत्प्रसादाद्भवन्तोहि मुक्तये यतताधुना ।
मज्ज्ञानं वेदवाक्योत्थमन्यच्छिल्पंसुरोत्तमाः ॥ २१॥
ब्रह्मैवाहं संसरामि विद्ययाविद्यया सुराः ।
निर्मुक्तो मोचयाम्येव सर्वं सासुरमानुषम् ॥ २२॥
श्रवणायापि लभ्योऽहं कर्मभिर्नसुरासुराः ।
शृण्वन्तोऽपि यतिश्रेष्ठानमांविन्दन्तिकेचन ॥ २३॥
अतोन्यदार्तंविबुधास्सर्वञ्जगदिदन्ध्रुवम् ।
कथम्भवन्तोमन्यन्तेतह्ब्रुवन्तुममाग्रतः ॥ २४॥
विभूतिर्मम या प्रोक्ताश्रद्धया वेद नान्यथा ।
नाविश्वस्तचेतसेदेयञ्ज्ञानंवेदान्तवाक्यजम् ॥ २५॥
दत्वा नरकमाप्नोति सहपूर्वपितामहेः ।
सर्वोपनिषदां सारं मयैतत्समुदाहृतम् ॥ २६॥
भवद्भ्यस्सम्यगधुना हृदयग्रन्थिभेदनम् ।
नाशिष्यायाप्यभक्ताय नापुत्रायेदमेवहि ॥ २७॥
दद्यादेतच्छाम्भवेभ्यो यतिभ्यस्सुरसत्तमाः ।
देयमेतत्सुरश्रेष्ठास्तस्यमुक्तिरयत्नतः ॥ २८॥
मत्प्रसादेन सर्वेषां मुक्तयस्स्युः करे स्थिताः ।
शिरोव्रतं यैश्चरितं देयं तेषामिदं सुराः ॥ २९॥
शिरोव्रतमिदं देवाः पुरा चीर्णम्मयैवहि ।
अग्निरित्यादिभिर्भस्मगृहीत्वाङ्गानिसंस्पृशेत् ॥ ३०॥
व्रतमेतदिदं देवाः पशुपाशविमोक्षदम् ।
श्रद्धया तपसा देवा मम लिङ्गार्चनेनहि ॥ ३१॥
भस्मत्रिपुण्ड्रकण्ठैश्च पापाद्भिन्नोभवेन्नरः ।
पञ्चाक्षरावर्तनैश्च पञ्चपापप्रणाशनम् ॥ ३२॥
रुद्राद्धयायजपश्चैव बिल्वमूले विशेषतः ।
मम क्षेत्रेषु नियतं वासाच्च सुरसत्तमाः ॥ ३३॥
अविमुक्तनिवासाच्च तत्रैवान्ते तनुक्षयात् ।
उमासहायमन्मूर्तिध्यानेनैवसुरास्तथा ॥ ३४॥
एतदेव परं ज्ञानं लभ्यते मत्प्रसादतः ।
नान्यथा लभ्यते ज्ञानं कर्मोपासनतस्सुराः ॥ ३५॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ईश्वरेण देवानांशोधनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५२ - देवानां शोधनम् । १-३५॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 52 - devAnAM shodhanam . 1-35..
Notes:
Śiva शिव schools the Deva-s देवाः about His Presence in all that is manifest and non-manifest; including so in the Deva-s देवाः who execute their respective functions due to being empowered by Him. He speaks to them about the merits of worshipping Him and performing Śivaliṇga Pūjā शिवलिङ्ग पूजा.
Encoded and proofread by Ruma Dewan