ऋषिभिः कृतं २ शिवस्तोत्रम्

ऋषिभिः कृतं २ शिवस्तोत्रम्

ऋषय ऊचुः । नमः शिवाय रुद्राय कद्रुद्राय प्रचेतसे । मीढुष्टमाय सर्वाय शिपिविष्टाय रंहसे ॥ २७॥ प्रभूते विमले सारे ह्याधारे परमे सुखे । नवशक्त्याऽऽवृतं देवं पद्मस्थं भास्करं प्रभुम् ॥ २८॥ आदित्यं भास्करं भानुं रविं देवं दिवाकरम् । उमां प्रभां तथा प्रज्ञां सन्ध्यां सावित्रिकामपि ॥ २९॥ विस्तारामुत्तरां देवीं बोधनीं प्रणमाम्यहम् । आप्यायनीं च वरदां ब्रह्माणं केशवं हरम् ॥ ३०॥ सोमादिवृन्दं च यथाक्रमेण सम्पूज्य मन्त्रैर्विहितक्रमेण । स्मरामि देवं रविमण्डलस्थं सदाशिवं शङ्करमादिदेवम् ॥ ३१॥ इन्द्रादिदेवांश्च तथेश्वरांश्च नारायणं पद्मजमादिदेवम् । प्रागाद्यधोर्ध्वं च यथाक्रमेण वज्रादिपद्मं च तथा स्मरामि ॥ ३२॥ सिन्दूरवर्णाय समण्डलाय सुवर्णवज्राभरणाय तुभ्यम् । पद्माभनेत्राय सपङ्कजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ३३॥ रथं च सप्ताश्वमनूरुवीरं गणं तथा सप्तविधं क्रमेण । ऋतुप्रवाहेण च वालखिल्यान्स्मरामि मन्देहगणक्षयं च ॥ ३४॥ हुत्वा तिलाद्यैर्विविधैस्तथाग्नौ पुनः समाप्यैव तथैव सर्वम् । उद्वास्य हृत्पङ्कजमध्यसंस्थं स्मरामि बिम्बं तव देवदेव ॥ ३५॥ स्मरामि बिम्बानि यथाक्रमेण रक्तानि पद्मामललोचनानि । पद्मं च सव्ये वरदं च वामे करे तथा भूषितभूषणानि ॥ ३६॥ दंष्ट्राकरालं तव दिव्यवक्त्रं विद्युत्प्रभं दैत्यभयङ्करं च । स्मरामि रक्षाभिरतं द्विजानां मन्देहरक्षोगणभर्त्सनं च ॥ ३७॥ सोमं सितं भूमिजमग्निवर्णं चामीकराभं बुधमिन्दुसूनुम् । बृहस्पतिं काञ्चनसन्निकाशं शुक्रं सितं कृष्णतरं च मन्दम् ॥ ३८॥ स्मरामि सव्यमभयं वाममूरुगतं वरम् । सर्वेषां मन्दपर्यन्तं महादेवं च भास्करम् ॥ ३९॥ पूर्णेन्दुवर्णेन च पुष्पगन्धप्रस्थेन तोयने शुभेन पूर्णम् । पात्रं दृढं ताम्रमयं प्रकल्प्य दास्ये तवार्ध्यं भगवन्प्रसीद ॥ ४०॥ नमः शिवाय देवाय ईश्वराय कपर्दिने । रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥ ४१॥ सूत उवाच । यः शिवं मण्डलं देवं सम्पूज्यैवं समाहितः । प्रातर्मध्याह्नसायाह्ने पठेत्स्तवमनुत्तमम् ॥ ४२॥ इत्थं शिवेन सायुज्यं लभते नात्र संशयः ॥ ४३॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे एकोनविंशाध्यायान्तर्गतं ऋषिभिः कृतं शिवस्तोत्रं समाप्तम् । लिङ्गपुराण । उत्तरभाग । अध्याय १९/२७-४३॥ lingapurANa . uttarabhAga . adhyAya 19/27-43.. Proofread by PSA Easwaran
% Text title            : Rishibhih Kritam 2 Shiva Stotram
% File name             : RRiShibhiHkRRitaM2shivastotram.itx
% itxtitle              : shivastotram (RiShibhiHkRitaM 2 lingapurANAntargatam namaH shivAya rudrAya kadrudrAya prachetase)
% engtitle              : RRiShibhiHkRRitaM 2 shivastotram
% Category              : shiva, lingapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lingapurANa | uttarabhAga | adhyAya 19/27-43||
% Indexextra            : (Scans 1, 2, 3, 4, Hindi)
% Latest update         : October 12, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org