ऋषिभिः कृतं नीलस्तोत्रम्

ऋषिभिः कृतं नीलस्तोत्रम्

ऋषय ऊचुः । त्वं देवः सर्वगोप्तॄणां विश्वगोप्ता सनातनः । विघ्नहर्ता ज्ञानदश्च धर्मरूपश्च मोक्षदः ॥ ५४॥ त्वमेव धनदः श्रीदः सर्वव्याधिनिषूदनः । जगतां शर्मकरणे प्रवृत्तः कनकप्रदः ॥ ५५॥ तेजसां धाम सर्वेषां सौरभेय महाबल । श‍ृङ्गाग्रे धृतकैलासः पार्वतीसहितस्त्वया ॥ ५६॥ वेदस्तुत्यो वेदमयो वेदात्मा वेदवित्तमः । वेदवेद्यो वेदयानो वेदरूपो गुणाकरः ॥ ५७॥ गुणत्रयेभ्योऽपि परो याथात्म्यं वेद कस्तव । वृषस्त्वं भगवान्देव यस्तुभ्यं कुरुते त्वघम् ॥ ५८॥ वृषलः स तु विज्ञेयो रौरवादिषु पच्यते । यदा स्पृष्टः स तु नरो नरकादिषु यातनाः ॥ ५९॥ सेवते पापनिचयैर्निगाढप्रायबन्धनैः । क्षुत्क्षामं च तृषाक्रान्तं महाभारसमन्वितम् ॥ ६०॥ निर्दया ये प्रशोष्यन्ति मतिस्तेषां न शाश्वती । चतुर्भिः सहितं मर्त्या विवाहविधिना तु ये ॥ ६१॥ विवाहं नीलरूपस्य ये करिष्यन्ति मानवाः । पितॄनुद्दिश्य तेषां वै कुले नैवास्ति नारकी ॥ ६२॥ त्वं गतिः सर्वलोकानां त्वत्पिता परमेश्वरः । त्वया विना जगत्सर्वं तत्क्षणादेव नश्यति ॥ ६३॥ परा चैव तु पश्यन्ती मध्यमा वैखरी तथा । चतुर्विधानां वचसामीश्वरं त्वां विदुर्बुधाः ॥ ६४॥ चतुःश‍ृङ्गं चतुष्पादं द्विशीर्षसप्तहस्तकम् । त्रिधा बद्धं धर्ममयं त्वामेव वृषभं विदुः ॥ ६५॥ तृप्तिदं सर्वभूतानां विश्वव्यापकमोजसा । ब्रह्म धर्ममयं नित्यं त्वामात्मानं विदुर्जनाः ॥ ६६॥ अच्छेद्यस्त्वमभेद्यस्त्वमप्रमेयो महायशाः । अशोच्यस्त्वमदाह्योऽसि विदुः पौराणिका जनाः ॥ ६७॥ त्वदाधारमिदं सर्वं त्वदाधारमिदं जगत् । त्वदाधाराश्च देवाश्च त्वदाधारं तथा मृतम् ॥ ६८॥ जीवरूपेण लोकांस्त्रीन्व्याप्य तिष्ठसि नित्यदा ॥ इति श्रीस्कन्दपुराणे नागरखण्डे एकोनषष्टितमाधिक- द्विशततमाध्यायान्तर्गतं ऋषिभिः कृतं नीलस्तोत्रं समाप्तम् । स्कन्दपुराण । नागरखण्ड । अध्याय २५९/५४-६८/२॥ skandapurANa . nAgarakhaNDa . adhyAya 259/54-68/2.. Proofread by PSA Easwaran
% Text title            : Rishibhih Kritam Nila Stotram
% File name             : RRiShibhiHkRRitaMnIlastotram.itx
% itxtitle              : nIlastotram (RiShibhiHkRitaM skandapurANAntargatam)
% engtitle              : RRiShibhiHkRRitaM nIlastotram
% Category              : shiva, skandapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | nAgarakhaNDa | adhyAya 259/54-68/2||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : August 24, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org