ऋषिदधीचिप्रोक्तं शिवकवचम्

ऋषिदधीचिप्रोक्तं शिवकवचम्

(शिवरहस्यान्तर्गते उग्राख्ये) दधीचिरुवाच कवचं देवदेवस्य वक्ष्येश‍ृणु नराधिप । येनाऽऽवृतो महादुःखैर्मुक्तो मुक्ति च विन्दति ॥ १३७॥ - - ध्येयः श्रीमन्महादेवः साम्बः संसारमोचकः । पवित्रहृदयैः शुद्धैर्भस्मरुद्राक्षभूषणैः ॥ १३८॥ श्रीविश्वेश्वर मुमासहायमनघं विश्वात्मकं चिद्घनम् । सत्यं ज्ञानमनन्तमक्षरमजं निर्लिप्तमेकं प्रभुम् ॥ १३९॥ ओङ्कारात्मकमक्षरं परतरं ब्रह्मादिभिर्भावितम् । सानन्दं हृदि भावयेद्भवभयध्वान्तान्तमानन्ददम् ॥ १४०॥ एवं ध्यात्वा महादेवं सच्चिदानन्दलक्षणम् । कवचेनावृतो भूत्वा मृत्युपाशैर्विमुच्यते ॥ १४१॥ - - यद्ब्रह्मरन्ध्रं मम संविदाभं तद्ब्रह्मरन्ध्रं भगवानुमेशः । पायात्स संस्थानमनन्तलक्षणं निवार्य सर्वाघकुलं निरन्तरम् ॥ १४२॥ तत्पार्श्वर्घाग्निगमान्त चारी रुद्रः शिखायां तु शिवावतंसः । शिरः शिखां पातु ममेन्दुचूडः भालं ममाव्याज्ज्वलनोरुभालः ॥ १४३॥ वामं कपोलं मम पातु शम्भुः कपोलमीशोऽवतु दक्षिणं मे । पायाद्गिरीशो मम वामनेत्रं त्रिलोचनो दक्षिणमक्षि पायात् ॥ १४४॥ भ्रूयुग्ममव्याद्वृषभध्वजो मे भ्रूमध्यमव्यान्मखनाशदक्षः । नासापुटं पातु ममान्तकान्तको नासान्तरं पातु पिनाकपाणिः ॥ १४५॥ मुखं ममाव्यात्स च पञ्चवक्त्रः पायान्ममौष्ठौ गजकृत्तिवासाः । दन्तान्ममाव्यात्प्रभुरिन्द्र दन्तो जिह्वां ममाव्यान्निगमान्तजिह्वः ॥ १४६॥ श्रीनीलकण्ठोऽवतु कण्ठदेशं पायान्महेशोऽवतु कण्ठपार्श्वम् । स्कन्धौ ममाव्यान्मदनान्तकारी वक्षः स्थलं पातु ममाम्बिकेशः ॥ १४७॥ विश्वम्भरोऽव्यादुदरं ममेदं सर्वेश्वरो रक्षतु रोमकूपान् । आन्त्राणि पायादुरुशक्तिरव्या- दस्थीनि विश्वस्थितिनाशहेतुः ॥ १४८॥ त्रिय(त्र्य)म्बको दक्षिणबाहुमव्या- द्वामं ममाव्याद्भुजगावनद्धः । प्रकोष्ठमव्याद्गिरिराजचापो हस्तौ ममाव्याद्वरशूलहस्तः ॥ १४९॥ विशाखनाथोऽवतु हस्तशाखा- न्नखान्ममाव्यान्नरसिह्म हारी । पृष्ठं ममाव्यात्रिपुरारि रव्या- त्कटिद्वयं मे गिरिजासहायः ॥ १५०॥ कट्यन्तरालं मम पातु शम्भु- रूरुद्वयं मे मृगशाबपाणिः । जानुद्वयं पातु जनार्दनेशो गुल्फद्वयं पातु विराट्स्वरूपः ॥ १५१॥ पादौ ममाव्यादमरैकवन्द्यः पायाद्धरः पादतलद्वयं मे । पादाङ्गुलीः पातु समस्तरूपो सर्वां तनुं पातु महेश्वरो मे ॥ १५२॥ प्राच्यां सदा रक्षतु नीतुरुद्रो कर्पूर गौरोऽवतु दक्षिणस्याम् । पातु प्रतीच्यां भगनेत्रहारी पायादुदीच्यां जगदेकनाथः ॥ १५३॥ ममोर्ध्वमव्यादुडुराजकान्ति- रधो ममाव्यादुरगेन्द्र भूषः । दिगन्तरालेषु समस्तनाथः पायाद्वृषीधीश्वरकेतुलक्ष्यः ॥ १५४॥ नदीषु मां रक्षतु विश्वनाथः कूपेषु मां रक्षतु विश्वमूर्तिः । पायात्समुद्रेषु जलाधिराजः सरित्समुद्रादिविधानदक्षः ॥ १५५॥ वापीषु पायादतिबाह्यवर्ती दवानलात्पातु दरीशहारः । गर्तेषु पायात्सुरगर्वहारी वृक्षेषु पायाद्वृषभध्वजोमाम् ॥ १५६॥ पायाद्गजेभ्यो गजदर्पहारी पायादहिभ्योऽपि हि वीरभद्रः । पायात्समेभ्यो विषसर्पहारी पायात्त्रिमूर्तिविषवृश्चिकेभ्यः ॥ १५७॥ भूताधिपः पातु विरोधिभीतेः रक्षः पिशाचिदिभयात्कपाली । मृत्युञ्जयो रक्षतु मृत्युभीतेः कालाग्निरुद्रोऽवतु कालभीतेः ॥ १५८॥ पापारिरव्याद्बहुपातकेभ्यः पायाद्ग्रहेभ्यः कमलासनार्च्यः । श्री विष्णुनेत्रार्चित पादपद्मः पातु प्रभातेष्वखिलेषु शम्भुः ॥ १५९॥ मध्यन्दिनेष्वेव मृडोऽनिशं मां सायाह्नकालेऽप्यमराधिनाथः । महेश्वरो रक्षतु मध्यरात्रे पायादुषस्यान्धकनाशहेतुः ॥ १६०॥ सर्षेषुकालेष्वपि पातु शम्भु- रुमाङ्गसंश्लिष्टमनोक्षदेहः । मार्गे मृगव्याधवपुर्धरोऽव्याद् युद्धेषु पायादसुरौघदारी ॥ १६१॥ सर्वत्र सर्वार्तिहरो हरोव्या- त्सर्वेप्सितार्थप्रदरूपधरी(धारी) । रक्षाविहिनस्थलमस्ति यन्मे तत्रावतु श्रीवरवीरभद्रः ॥ १६२॥ - - कृत्वैवं कवचं पूर्वं स्तोत्रमेतत्पठेन्नरः । स्तोत्रं चैतन्महेशेन तस्मा आख्यातमादरात् ॥ १६३॥ ॥ इति शिवरहस्यान्तर्गते ऋषिदधीचिप्रोक्तं शिवकवचं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । १३७-१६३॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 137-163.. Notes: Ṛṣi Dadhīci ऋषि दधीचि conveys the ŚivaKavacam शिवकवचम् (to the King) and mentions about the related ŚivaStotram शिवस्तोत्रम्. The latter can be accessed from one of the links given below. Proofread by Ruma Dewan
% Text title            : Rishidadhichiproktam Shiva Kavacham
% File name             : RRiShidadhIchiproktaMshivakavacham.itx
% itxtitle              : shivakavacham RiShidadhIchiproktaM (shivarahasyAntargatam)
% engtitle              : RRiShidadhIchiproktaM shivakavacham
% Category              : shiva, shivarahasya, kavacha
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 27 madhyArjunamahimAnuvarNanam | 137-163||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org