ऋषिकश्यपप्रोक्तं रुद्राक्षमहिमावर्णनम्
(शिवरहस्यान्तर्गते भीमाख्ये)
काश्यप उवाच ।
रुद्राक्षधारणं पुण्यं शिवप्रीतिकरं सदा ।
प्रसादजनकं साक्षात् शम्भोर्नित्यं पिनाकिनः ॥ १॥
रुद्रनेत्रसमुद्भूता रुद्राक्षतरवोऽभवन् ।
बिन्दवस्त्रैपुरे युद्धे मीलिताक्षेण शम्भुना ॥ २॥
पतिता भूतले वत्स ते भूमौ तरवोऽभवन् ।
द्वात्रिंशदक्षजातीयाः सकण्टाः सुषिरावृताः ॥ ३॥
रत्नैः स्वर्णैश्च धार्यास्ते राजतेनाथवा सदा ।
सूत्रेण क्षौमजेनापि सर्वैर्धाया यथारुचि ॥ ११॥
अशुचिर्वा शुचिर्वापि सर्वावस्थां गतोऽपि वा ।
रुद्राक्षमालाभरणः पवित्रो नात्र संशयः ॥ १२॥
त्रिणेत्रप्रियपात्रं स इति शास्त्रविदां मतम् ।
एकाननः शिवः साक्षात्तं धृत्वा शिवसाद्भवेत् ॥ १३॥
द्विमुखं पार्वती शुम्भुस्तं धृत्वा पापमोचितः ।
त्रिमुखं वह्निरूपात्मा तं धृत्वाऽभक्ष्य पापभुक्
(तं त्रिमुखं धृत्वा अभक्ष्यभुक् पापभुक् च पूयते) ॥ १४॥
चतुर्वक्त्रस्स्वयं ब्रह्मा तं धृत्वा ब्रह्मलोकगः ।
पञ्चवक्त्रः स्वयं शम्भुस्तं धृत्वा पञ्चपातकैः ॥ १५॥
विमुच्यते क्षणेनैव साक्षात् त्र्यक्षप्रसादभाक् ।
षड्वक्त्रं स्कन्ददैवत्यं धृत्वा स्कन्दसलोकगः ॥ १६॥
सप्ताननं स्वयं देवी तं धृत्वा वह्निलोकगः ।
अष्टाननं तु रुद्राक्षमष्टमूर्तेः प्रियं सदा ॥ १७॥
तद्धारणादष्टवसुलोकेऽसौ मोदते चिरम् ।
नवाननं स्वयं भीमो भीमपापैः प्रमुच्यते ॥ १८॥
दशास्यं च सदा धृत्वा न यामीं याति यातनाम् ।
एकादशाननं रौद्रं तल्लोके निवसेच्च धृक् ॥ १९॥
द्वादशास्यं सोमधाम प्रदोषाघविनाशनम् ।
त्रयोदशास्यं पापघ्नं धृत्वा विष्णुपदप्रदम् ॥ २०॥
चतुर्दशास्यं रुद्राक्षं शिवज्ञानप्रदं शुभम् ।
एवं चतुर्दशमुखं रुद्राक्षं धारयेत्क्रमात् ॥ २१॥
सर्वपापैर्विनिर्मुक्तः पश्चान्मुक्तो भविष्यति ।
द्विजो वा श्वपचो वापि यो रुद्राक्षाणि धारयेत् ॥ २२॥
स तरस्वी स मूर्धन्यो वदान्यो मुक्त एव हि ।
सदा शिवप्रसादस्य पात्रं नात्र विचारणा ॥ २३॥
मुखं मुखेन संयोज्य धार्या रुद्राक्षमालिका ।
नो चेत्स्वतपसो हानिर्भविष्यति शिवाज्ञया ॥ २४॥
द्वात्रिंशत्कण्ठस्थाने तु षट् षट् कर्णयुगे तथा ।
बाह्वोः षोडश धार्याणि मणिबन्धे तु द्वादश ॥ २५॥
वक्षस्यष्टाधिकशतं भ्रुवोश्चैकं शिखास्वपि ।
द्विचत्वारिंशतिर्मूर्ध्नि सङ्ग्रहोऽयं प्रकीर्तितः ॥ २६॥
सहस्रं बिभृयान्नित्यं माला वा यावती भवेत् ।
कञ्चुकं वा यथा जोषं मकुटं मूर्ध्नि धारयेत् ॥ २७॥
सहस्रमधमं प्रोक्तमिन्द्रलोकप्रदायकम् ।
दशसाहस्रधृङ्मर्त्यः सोमलोकमवाप्नुयात् ॥ २८॥
अयुतं सूर्यलोकस्य लक्षं तु ब्रह्मलोकगः ।
कोटिं बिभर्ति यो दक्षः स च विष्णुमयो भवेत् ॥ २९॥
अनन्ताक्षधरो यस्तु शिव एव भविष्यति ।
रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः ॥ ३०॥
रुद्राक्षधारणे लज्जा येषामस्ति स्वभावतः ।
ते सर्वे दुर्भगा ज्ञेया अब्रह्मण्याः सदैव हि ॥ ३१॥
रुद्राक्षेति वदन्मर्त्यो दशगोदानजं फलम् ।
प्राप्नोति शिवसारूप्यं तेन देहेन मुच्यते ॥ ३२॥
मृण्मयेनापि रुद्राक्षं कृत्वा यत्नेन धारयेत् ।
रुद्राक्षधारणाद्रुद्रो भवत्येव न संशयः ॥ ३३॥
तेषामेवात्मविज्ञाने ये वै रुद्राक्षधारिणः ।
भिक्षवोऽपि च रुद्राक्षान् धृत्वा मुक्ता भवन्ति हि ॥ ३४॥
रुद्राक्षमालाभरणः शिवलिङ्गं प्रपूजयेत् ।
तत्कृतामेव तां पूजां गृह्णाति परमेश्वरः ॥ ३५॥
अरुद्राक्षकृतां पूजां न गृह्णाति महेश्वरः ।
यो भस्मधारी नियतं स रुद्राक्षधरो भवेत् ॥ ३६॥
यो रुद्राक्षोसहरोसीतभसितमहापुण्ड्रेमस्तोरुबाहु
सम्पूज्य प्रमथाधिनाथमजरं(रः) भक्तोऽथ मुक्तिं लभेत् ।
भूयाच्छङ्करकिङ्करोऽपि सुमहारुद्राक्षभस्माङ्गको
मारारातिपदाम्बुजार्चनरतः किं किं न विन्देत्स हि ॥ ३९॥
यो रूद्राक्षोरुवाक्षाः सितभसितलसद्भालबाह्वक्षिमूलो
लीलाशीलाहि कालज्वलदनलकुलव्यालमालात्तशूलम् ।
ध्यायन्बुद्ध्याऽनिशं ध्यायति गतिदहृदा धन्यमान्योरुमन्युं
लोकाध्यक्षानुशिक्षाक्षपितकलुषधीर्मुक्तये शाम्भवो यः ॥
॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं रुद्राक्षमहिमावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः ११ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 11 . vAvRRittashlokAH ..
Notes:
Ṛṣi Kaśyapa ऋषि कश्यप speaks to Garuḍa गरुड about RudrākṣaMahimā रुद्राक्षमहिमा, and especially mentions about attributes of Rudrākṣa रुद्राक्ष bearing various numbers of faces.
Proofread by Ruma Dewan