ऋषिकश्यपप्रोक्तं शिवप्रसादपात्रतालक्षणम्

ऋषिकश्यपप्रोक्तं शिवप्रसादपात्रतालक्षणम्

(शिवरहस्यान्तर्गते भीमाख्ये) काश्यप उवाच । शिवप्रसाद योग्यं हि पात्रं श्रीशाम्भः स्वयम् । (शिवप्रसादजं पात्रं श्रीशाम्भवः केवलं भवे ।) शाम्भवा शम्भुभक्ता ये भस्मरुद्राक्षधारिणः ॥ १४.१॥ शिवलिङ्गार्चकाः शैवाः शिवैकपरदेवताः । शिवलिङ्गैकशरणा मरणेऽपि प्रतिक्षणम् ॥ १४.२॥ नान्ये सुरार्चनरताः शाम्भवा एव केवलम् । शिवैकशरणा एव मनोवाक्कायकर्मभिः ॥ १४.३॥ शाम्भवा न विधातारं न विष्णुं नामरान्परान् । मनसापि न मन्यन्ते मन्यन्ते तृणतुल्यताम् ॥ १४.४॥ शिवभक्तिसमापन्नाः सम्पन्ना एव ते सदा । दुर्लभा शाम्भवी भक्तिः प्रसादादेव सा भवेत् ॥ १४.५॥ प्रसादः शाङ्करः श्रेष्ठो भविष्यति शिवाज्ञया । भावानां भावनां दृष्ट्वा भवः प्रीतो भविष्यति ॥ १४.६॥ नो भावो विद्यते तस्य सदा संसारवर्तिनाम् । संसारोत्तारका एव शाम्भवाः शङ्कराज्ञया ॥ १४.७॥ विष्णुब्रह्मादयो देवा मुनयो मनवस्तथा । असुराः किन्नरा वापि सुधाकरधरार्चकाः ॥ १४.८॥ ते सर्वे शाम्भवा एव भस्मरुद्राक्षधारिणः । शिवैकपरदेवास्ते ते सर्वे शिवचेतसः ॥ १४.९॥ शिवप्रणामपरमा भक्ता मुक्तिपथे स्थिताः । पञ्चाक्षरपरा एव श्रीरुद्राध्यायजापकाः ॥ १४.१०॥ शिवलिङ्गार्चकाः शैवाः सततं भवपूजकाः । भावेन भगवत्प्रीता भवोद्भवपदार्चकाः ॥ १४.११॥ भगवान्भव एवेति ये विज्ञायार्चयन्ति ते । त्रिपुण्ड्रभस्मनिटिलाः सदाबिल्वादिपल्लवैः ॥ १४.१२॥ अभिषिच्य सदा नीरैः सायं प्रातर्विशेषतः । प्रदोषे सोमवारे च चतुर्दश्यष्टमीषु च ॥ १४.१३॥ नक्तं नैवेद्यभोक्तारो नियमाच्छङ्करार्चकाः । नित्यं प्रदोषनियता मिताहाराः शिवार्चकाः ॥ १४.१४॥ भक्ताः शैवा द्विजा एवमन्ये वर्णा अपि क्रमात् । स्त्रियो वा सङ्करा वापि पूज्य लिङ्गं पिनाकिनः ॥ १४.१५॥ शाङ्करा एव ते सर्वे शिवलिङ्गार्चनोद्यताः । पञ्चास्यलिङ्गं पञ्चास्य ध्यानपूर्वं यजन्ति ते ॥ १४.१६॥ बिल्वाम्बुजैः समभ्यर्च्य प्रातः सायं विशेषतः । हारा दारितपापौघा अमोघाः शङ्करार्चकाः ॥ १४.१७॥ पञ्चाक्षरेण यो लिङ्गं बिल्वैरभ्यर्च्य शूलिनः । पञ्चेन्द्रियकृतैः पापैः पञ्चपापैश्च मुच्यते ॥ १४.१८॥ शम्भवा एव सम्पूज्याः शिवार्चन परायणाः । अनभ्यर्च्य महादेवं मरणेऽपि प्रतिक्षणम् ॥ १४.१९॥ नान्यत्फलं च गृह्णन्ति नियमामितभाषिणः । त एव साङ्गा विज्ञेयाः शिवलिङ्गैकपूजकाः ॥ १४.२०॥ तदङ्गसङ्गतः सद्यः पापभङ्गः प्रजायते । मातङ्गकृत्तिवसन पादपूजाप्रभावतः ॥ १४.२१॥ तेषु दत्तं तथा शम्भुः स्वयं गृह्णाति शङ्करः । शिवक्षेत्रै भोजनीयाः पूज्याश्च शिवयोगिनः ॥ १४.२२॥ अन्यवर्णेष्वपि तथा भस्मरुद्राक्षधारिणः । शिवलिङ्गासक्तकण्ठा नीलकण्ठपदार्चकाः ॥ १४.२३॥ अविमुक्ते च केदारे रुद्रकोटौ मरेश्वरे । भृगुतुन्दे नर्मदायां ओङ्कारे च प्रभासके ॥ १४.२४॥ पुष्करे नैमिशारण्ये महाकाले त्रियम्बके । गोकर्णे च कुरुक्षेत्रे श्रीशैले पुण्डरीकके ॥ १४.२५॥ दक्षिणे तत्र कैलासे वृद्धाद्रावरुणाचले । गोपर्वते सह्यमूले श्रीकण्ठे रत्नपर्वते ॥ १४.२६॥ श्रीमातृशिखरे चैव गजारण्येऽथ जाप्यके । कुम्भघोणेऽर्जुने चैव मायूरे श्वेतकानने ॥ १४.२७॥ कमलालयसंज्ञे च वेदारण्योरुसेतुके । हालास्य वेणुविपिने ताम्रपर्ण्यास्तटद्वये ॥ १४.२८॥ सह्यापगारोधसी च क्षेत्रनिष्ठाश्च शाम्भवाः । पूजनीयाः प्रयत्नेन शिवप्रीत्यर्थमेव हि ॥ १४.२९॥ यत्र भुङ्क्ते शाम्भवस्तु शिवो भुङ्क्ते च तत्र हि । पूज्याः सदा दानमानैस्तेन प्रीतो भवेच्छिवः ॥ १४.३०॥ शिवभक्ता महोत्साहाः शिवार्चनपरायणाः । शान्ता दान्ता जितक्रोधाः शिवनामजपादराः ॥ १४.३१॥ भस्मरुद्राक्षसम्पन्नाः शिवोत्कर्षैकवादिनः । वेदिनो हरतत्वस्य शिवक्षेत्रनिवासिनः ॥ १४.३२॥ अन्यक्षेत्रप्रत्यभिज्ञारहिता भूतिभाविनः । शिवमेव यजन्त्येव सर्वकार्येषु सादरम् ॥ १४.३३॥ त एव वैदिका ज्ञेयाः श्रौतपुण्ड्रादिधारिणः । श्रौतलिङ्गमिदं प्रोक्तं भस्मरुद्राक्षधारणम् ॥ १४.३४॥ रुद्राध्यायजपः श्रौतः श्रौतः पञ्चाक्षरीजपः । रुद्रालिङ्गार्चनं श्रौतं श्रौती शिजपस्मृतिः ॥ १४.३५॥ श्रौतधर्मार्थनिरताः शाम्भवा एव केवलम् । अश्रौतमूर्ध्वपुण्ड्रं तु नैव धार्यं शिवार्चकैः ॥ १४.३६॥ नान्यक्षेत्रे वसेन्नित्यं शाम्भवः शम्भुतत्परः । नान्यं सुरं वापि नरं किन्नरं वा भजेत्स हि ॥ १४.३७॥ एवं ये शिवभक्तिभावनिरतास्ते शाम्भवाः केवलं दारोदारकुमारवृन्दसहिताः श्रीशङ्करार्चारताः । मारापारशराभिघातरहिता वेदान्तसारादरा मोहापारमहाघसंसृतिभरं हारास्त्यजन्त्येव ते ॥ १४.३८॥ शाङ्करा एव देवेशं स्तुवन्ति भवभाविताः । भावनामात्रसुलभो दुर्लभो ह्यकृतात्मनाम् ॥ १५.१॥ शिव एव हि सर्वेषां शासकस्तारकः सताम् । स एव भक्तिभावेन पूजितो भुक्तिमुक्तिदः ॥ १५.२॥ शिवनैवेद्यतुष्टाङ्गाः सन्तुष्टा ज्येष्ठपूजकाः । निष्ठावन्तः कृपावन्तः शिपिविष्टपदाश्रयाः ॥ १५.३॥ तुष्टाः पुष्टाः सदा भक्तास्तेजिष्ठाः शिवपूजकाः । स्तुवन्ति स्तोत्रवर्येण नृत्यन्त्युग्राग्रतो मुदा ॥ १५.४॥ भस्मरुद्राक्षकवचा जटामकुटभूषणाः । रुद्राक्षवरकोटीरा रुद्राक्षाङ्गदकङ्कणाः ॥ १५.५॥ साश्रुनेत्राः स्खलज्जिह्वास्ते नृत्यन्ति शिवाग्रतः । सोत्साहकरताळैश्च शाम्भाः लिङ्गप्रपूजकाः ॥ १५.६॥ शिवलिङ्गप्रभासङ्गकृपापाङ्गावलोककाः । अनङ्गवरमातङ्गभङ्गसङ्गान्तरङ्गकाः ॥ १५.७॥ ॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं शिवप्रसादपात्रतालक्षणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः १४-१५ । वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 14-15 . vAvRRittashlokAH .. Notes: Ṛṣi Kaśyapa ऋषि कश्यप speaks about indicators and significations of Grace of Śiva शिव. Proofread by Ruma Dewan
% Text title            : Rishikashyapaproktam Shivaprasadapatratalakshanam
% File name             : RRiShikashyapaproktaMshivaprasAdapAtratAlakShaNam.itx
% itxtitle              : shivaprasAdapAtratAlakShaNam (RiShikashyapaproktaM shivarahasyAntargatam)
% engtitle              : RiShikashyapaproktaM shivaprasAdapAtratAlakShaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 14-15 | vAvRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org