ऋभुप्रोक्तः तन्मयभावोपदेशः
(तन्मयो भव सर्वदा)
यः परं ब्रह्म सर्वात्मा सच्चिदानन्दविग्रहः ।
सर्वात्मा परमात्मा हि तन्मयो भव सर्वदा ॥ २९.२॥
आत्मरूपमिदं सर्वमाद्यन्तरहितोऽजयः ।
कार्याकार्यमिदं नास्ति तन्मयो भव सर्वदा ॥ २९.३॥
यत्र द्वैतभयं नास्ति यत्राद्वैतप्रबोधनम् ।
शान्ताशान्तद्वयं नास्ति तन्मयो भव सर्वदा ॥ २९.४॥
यत्र सङ्कल्पकं नास्ति यत्र भ्रान्तिर्न विद्यते ।
तदेव हि मतिर्नास्ति तन्मयो भव सर्वदा ॥ २९.५॥
यत्र ब्रह्मणि नास्त्येव यत्र भावि विकल्पनम् ।
यत्र सर्वं जगन्नास्ति तन्मयो भव सर्वदा ॥ २९.६॥
यत्र भावमभावं वा मनोभ्रान्ति विकल्पनम् ।
यत्र भ्रान्तेर्न वार्ता वा तन्मयो भव सर्वदा ॥ २९.७॥
(यत्र वार्ता न वार्ता वा तन्मयो भव सर्वदा) ॥ २९.७॥
यत्र नास्ति सुखं नास्ति देहोऽहमिति रूपकम् ।
सर्वसङ्कल्पनिर्मुक्तं तन्मयो भव सर्वदा ॥ २९.८॥
यत्र ब्रह्म विना भावो यत्र दोषो न विद्यते ।
यत्र द्वन्द्वभयं नास्ति तन्मयो भव सर्वदा ॥ २९.९॥
यत्र वाक्कायकार्यं वा यत्र कल्पो लयं गतः ।
यत्र प्रपञ्चं नोत्पन्नं तन्मयो भव सर्वदा ॥ २९.१०॥
यत्र माया प्रकाशो न माया कार्यं न किञ्चन ।
यत्र दृश्यमदृश्यं वा तन्मयो भव सर्वदा ॥ २९.११॥
विद्वान्विद्यापि नास्त्येव यत्र पक्षविपक्षकौ ।
न यत्र दोषादोषौ वा तन्मयो भव सर्वदा ॥ २९.१२॥
यत्र विष्णुत्वभेदो न यत्र ब्रह्मा न विद्यते ।
यत्र शङ्करभेदो न तन्मयो भव सर्वदा ॥ २९.१३॥
न यत्र सदसद्भेदो न यत्र कलनापदम् ।
न यत्र जीवकलना तन्मयो भव सर्वदा ॥ २९.१४॥
न यत्र शङ्करध्यानं न यत्र परमं पदम् ।
न यत्र कलनाकारं तन्मयो भव सर्वदा ॥ २९.१५॥
न यत्राणुर्महत्त्वं च यत्र सन्तोषकल्पनम् ।
यत्र प्रपञ्चमाभासं तन्मयो भव सर्वदा ॥ २९.१६॥
न यत्र देहकलनं न यत्र हि कुतूहलम् ।
न यत्र चित्तकलनं तन्मयो भव सर्वदा ॥ २९.१७॥
न यत्र बुद्धिविज्ञानं न यत्रात्मा मनोमयः ।
न यत्र कामकलनं तन्मयो भव सर्वदा ॥ २९.१८॥
न यत्र मोक्षविश्रान्तिर्यत्र बन्धत्ववि(नि)ग्रहः ।
न यत्र शाश्वतं ज्ञानं तन्मयो भव सर्वदा ॥ २९.१९॥
न यत्र कालकलनं यत्र दुःखत्वभावनम् ।
न यत्र देहकलनं तन्मयो भव सर्वदा ॥ २९.२०॥
न यत्र जीववैराग्यं यत्र शास्त्रविकल्पनम् ।
यत्राहमहमात्मत्वं तन्मयो भव सर्वदा ॥ २९.२१॥
न यत्र जीवन्मुक्तिर्वा यत्र देहविमोचनम् ।
यत्र सङ्कल्पितं कार्यं तन्मयो भव सर्वदा ॥ २९.२२॥
न यत्र भूतकलनं यत्रान्यत्वप्रभावनम् ।
न यत्र जीवभेदो वा तन्मयो भव सर्वदा ॥ २९.२३॥
यत्रानन्दपदं ब्रह्म यत्रानन्दपदं सुखम् ।
यत्रानन्दगुणं नित्यं तन्मयो भव सर्वदा ॥ २९.२४॥
न यत्र वस्तुप्रभवं न यत्रापजयोजयः ।
न यत्र वाक्यकथनं तन्मयो भव सर्वदा ॥ २९.२५॥
न यत्रात्मविचाराङ्गं न यत्र श्रवणाकुलम् ।
न यत्र च महानन्दं तन्मयो भव सर्वदा ॥ २९.२६॥
न यत्र हि सजातीयं विजातीयं न यत्र हि ।
न यत्र स्वगतं भेदं तन्मयो भव सर्वदा ॥ २९.२७॥
न यत्र नरको घोरो न यत्र स्वर्गसम्पदः ।
न यत्र ब्रह्मलोको वा तन्मयो भव सर्वदा ॥ २९.२८॥
न यत्र विष्णुसायुज्यं यत्र कैलासपर्वतः ।
ब्रह्माण्डमण्डलं यत्र तन्मयो भव सर्वदा ॥ २९.२९॥
न यत्र भूषणं यत्र दूषणं वा न विद्यते ।
न यत्र समता दोषं तन्मयो भव सर्वदा ॥ २९.३०॥
न यत्र मनसा भावो न यत्र सविकल्पनम् ।
न यत्रानुभवं दुःखं तन्मयो भव सर्वदा ॥ २९.३१॥
यत्र पापभयं नास्ति पञ्चपापादपि क्वचित् ।
न यत्र सङ्गदोषं वा तन्मयो भव सर्वदा ॥ २९.३२॥
यत्र तापत्रयं नास्ति यत्र जीवत्रयं क्वचित् ।
यत्र विश्वविकल्पाख्यं तन्मयो भव सर्वदा ॥ २९.३३॥
न यत्र बोधमुत्पन्नं न यत्र जगतां भ्रमः ।
न यत्र करणाकारं तन्मयो भव सर्वदा ॥ २९.३४॥
न यत्र हि मनो राज्यं यत्रैव परमं सुखम् ।
यत्र वै शाश्वतं स्थानं तन्मयो भव सर्वदा ॥ २९.३५॥
यत्र वै कारणं शान्तं यत्रैव सकलं सुखम् ।
यद्गत्वा न निवर्तन्ते तन्मयो भव सर्वदा ॥ २९.३६॥
यज्ज्ञात्वा मुच्यते सर्वं यज्ज्ञात्वाऽन्यन्न विद्यते ।
यज्ज्ञात्वा नान्यविज्ञानं तन्मयो भव सर्वदा ॥ २९.३७॥
यत्रैव दोषं नोत्पन्नं यत्रैव स्थाननिश्चलः ।
यत्रैव जीवसङ्घातः तन्मयो भव सर्वदा ॥ २९.३८॥
यत्रैव नित्यतृप्तात्मा यत्रैवानन्दनिश्चलम् ।
यत्रैव निश्चलं शान्तं तन्मयो भव सर्वदा ॥ २९.३९॥
यत्रैव सर्वसौख्यं वा यत्रैव सन्निरूपणम् ।
यत्रैव निश्चयाकारं तन्मयो भव सर्वदा ॥ २९.४०॥
न यत्राहं न यत्र त्वं न यत्र त्वं स्वयं स्वयम् ।
यत्रैव निश्चयं शान्तं तन्मयो भव सर्वदा ॥ २९.४१॥
यत्रैव मोदते नित्यं यत्रैव सुखमेधते ।
यत्र दुःखभयन्नास्ति तन्मयो भव सर्वदा ॥ २९.४२॥
यत्रैव चिन्मयाकारं यत्रैवानन्दसागरः ।
यत्रैव परमं साक्षात्तन्मयो भव सर्वदा ॥ २९.४३॥
यत्रैव स्वयमेवात्र स्वयमेव तदेव हि ।
स्वस्वात्मनोक्तभेदोऽस्ति तन्मयो भव सर्वदा ॥ २९.४४॥
यत्रैव परमानन्दं स्वयमेव सुखं परम् ।
यत्रैवाभेदकलनं तन्मयो भव सर्वदा ॥ २९.४५॥
न यत्र चाणुमात्रं वा न यत्र मनसो मलम् ।
न यत्र च ददाम्येव तन्मयो भव सर्वदा ॥ २९.४६॥
यत्र चित्तं मृतं देहं मनो मरणमात्मनः ।
यत्र स्मृतिर्लयं याति तन्मयो भव सर्वदा ॥ २९.४७॥
यत्रैवाहं मृतो नूनं यत्र कामो लयं गतः ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.४८॥
यत्र देवास्त्रयो लीनं यत्र देहादयो मृताः ।
न यत्र व्यवहारोऽस्ति तन्मयो भव सर्वदा ॥ २९.४९॥
यत्र मग्नो निरायासो यत्र मग्नो न पश्यति ।
यत्र मग्नो न जन्मादिस्तन्मयो भव सर्वदा ॥ २९.५०॥
यत्र मग्नो न चाभाति यत्र जाग्रन्न विद्यते ।
यत्रैव मोहमरणं तन्मयो भव सर्वदा ॥ २९.५१॥
यत्रैव कालमरणं यत्र योगो लयं गतः ।
यत्र सत्सङ्गतिर्नष्टा तन्मयो भव सर्वदा ॥ २९.५२॥
(additional shloka)
---
यत्र विघ्नातिमरणं यत्र विश्वं लयं गतम् ।
यत्र भ्रान्ति निवृत्तत्वं तन्मयो भव सर्वदा ॥
यत्र प्राणदयो नष्टा यत्र देहास्रयो मृताः ।
यत्र मानावमानं न तन्मयो भव सर्वदा ॥
---
यत्रैव ब्रह्मणो रूपं यत्रैवानन्दमात्रकम् ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.५३॥
यत्र विश्वं क्वचिन्नास्ति यत्र नास्ति ततो जगत् ।
यत्रान्तःकरणं नास्ति तन्मयो भव सर्वदा ॥ २९.५४॥
यत्रैव सुखमात्रं च यत्रैवानन्दमात्रकम् ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.५५॥
यत्र सन्मात्रचैतन्यं यत्र चिन्मात्रमात्रकम् ।
यत्रानन्दमयं भाति तन्मयो भव सर्वदा ॥ २९.५६॥
यत्र साक्षात्परं ब्रह्म यत्र साक्षात्स्वयं परम् ।
यत्र शान्तं परं लक्ष्यं तन्मयो भव सर्वदा ॥ २९.५७॥
यत्र साक्षादखण्डार्थं यत्र साक्षात्परायणम् ।
यत्र नाशादिकं नास्ति तन्मयो भव सर्वदा ॥ २९.५८॥
यत्र साक्षात्स्वयं मात्रं यत्र साक्षात्स्वयं जयम् ।
यत्र साक्षान्महानात्मा तन्मयो भव सर्वदा ॥ २९.५९॥
यत्र साक्षात्परं तत्त्वं यत्र साक्षात्स्वयं महत् ।
यत्र साक्षात्तु विज्ञानं तन्मयो भव सर्वदा ॥ २९.६०॥
यत्र साक्षाद्गुणातीतं यत्र साक्षाद्धि निर्मलम् ।
यत्र साक्षात्सदाशुद्धं तन्मयो भव सर्वदा ॥ २९.६१॥
यत्र साक्षान्महानात्मा यत्र साक्षात्सुखात्सुखम् ।
यत्रैव ज्ञानविज्ञानं तन्मयो भव सर्वदा ॥ २९.६२॥
यत्रैव हि स्वयं ज्योतिर्यत्रैव स्वयमद्वयम् ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.६३॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तः तन्मयभावोपदेशः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २९। २-६३॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 29. 2-63..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan