ऋभुप्रोक्तं ब्रह्मतर्पणवर्णनम्
(इत्येवं ब्रह्मतर्पणम्)
(ऋभुनिदाघसंवादे)
नित्यतर्पणमाचक्ष्ये निदाघ शृणु मे वचः ।
वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥ १०.१॥
- -
सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि ।
ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥ १०.२॥
सरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् ।
आनन्दघन एवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.३॥
सर्वदा सर्वशून्योऽहं सदात्मानन्दवानहम् ।
नित्यानित्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.४॥
अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा ।
आत्मनाऽऽत्मनि तृप्तोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.५॥
एकत्वसङ्ख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः ।
नित्यशुद्धस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.६॥
आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् ।
सर्वप्रकाशरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.७॥
परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् ।
सत्रामात्रस्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥ १०.८॥
यत्किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् ।
शुद्धमोक्षस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.९॥
सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।
विज्ञानमात्ररूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१०॥
ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे ।
तदेवाहं न सन्देहः इत्येवं ब्रह्मतर्पणम् ॥ १०.११॥
त्वमित्येतत्तदित्येतन्नास्ति नास्तीह किञ्चन ।
शुद्धचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१२॥
अत्यन्ताभावरूपोऽहमहमेव परात्परः ।
अहमेव सुखं नान्यदित्येवं ब्रह्मतर्पणम् ॥ १०.१३॥
इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे ।
निर्गुणानन्दरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१४॥
साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा ।
केवलं ब्रह्मभावत्वादित्येवं ब्रह्मतर्पणम् ॥ १०.१५॥
अहमेवाविशेषोऽहमहमेव हि नामकम् ।
अहमेव विमोहं वै इत्येवं ब्रह्मतर्पणम् ॥ १०.१६॥
इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् ।
बन्धमुक्तिविहीनोऽस्मि इत्येवं ब्रह्मतर्पणम् ॥ १०.१७॥
सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् ।
नित्यचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१८॥
वाचामगोचरश्चाहं वाङ्मनो नास्ति किञ्चन ।
चिदानन्दमयश्चाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१९॥
सर्वत्र पूर्णरूपोऽहं सर्वत्र सुखमस्म्यहम् ।
सर्वत्राचिन्त्यरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२०॥
सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् ।
सर्वशून्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२१॥
सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् ।
एक एवाहमेवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२२॥
मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् ।
सर्वनिर्वाणरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२३॥
सर्वदा सत्स्वरूपोऽहं सर्वदा तुर्यवानहम् ।
तुर्यातीतस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२४॥
सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् ।
निर्विकल्पस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२५॥
सर्वदा ह्यजरूपोऽहं निरीहोऽहं निरञ्जनः ।
ब्रह्मविज्ञानरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२६॥
- -
ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०.२७॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं ब्रह्मतर्पणवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १० । २-२७॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 10 . 2-27..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan