ऋभुप्रोक्तं देहमुक्तिप्रकरणवर्णनम्
(विदेहान्मुक्त एव सः)
(ऋभुनिदाघसंवादे)
देहमुक्तिप्रकरणं निदाघ शृणु दुर्लभम् ।
त्यक्तात्यक्तं न स्मरति विदेहान्मुक्त एव सः ॥ १२.१॥
ब्रह्मरूपः प्रशान्तात्मा नान्यरूपः सदा सुखी ।
स्वस्थरूपो महामौनी विदेहान्मुक्त एव सः ॥ १२.२॥
सर्वात्मा सर्वभूतात्मा शान्तात्मा मुक्तिवर्जितः ।
एकात्मवर्जितः साक्षी विदेहान्मुक्त एव सः ॥ १२.३॥
लक्ष्यात्मा लालितात्माहं लीलात्मा स्वात्ममात्रकः ।
तूष्णीमात्मा स्वभावात्मा विदेहान्मुक्त एव सः ॥ १२.४॥
शुभ्रात्मा स्वयमात्माहं सर्वात्मा स्वात्ममात्रकः ।
अजात्मा चामृतात्मा हि विदेहान्मुक्त एव सः ॥ १२.५॥
आनन्दात्मा प्रियः स्वात्मा मोक्षात्मा कोऽपि निर्णयः ।
इत्येवमिति निध्यायी विदेहान्मुक्त एव सः ॥ १२.६॥
ब्रह्मैवाहं चिदेवाहं एकं वापि न चिन्त्यते ।
चिन्मात्रेणैव यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ १२.७॥
निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयः ।
आनन्दभूरिदेहस्तु विदेहान्मुक्त एव सः ॥ १२.८॥
सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति ।
अहं ब्रह्मास्मि नान्योऽस्मि विदेहान्मुक्त एव सः ॥ १२.९॥
किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्मरत्यसौ ।
स्वस्वभावेन यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ १२.१०॥
अहमात्मा परो ह्यात्मा चिदात्माहं न चिन्त्यते ।
स्थास्यामीत्यपि यो युक्तो विदेहान्मुक्त एव सः ॥ १२.११॥
तूष्णीमेव स्थितस्तूष्णीं सर्वं तूष्णीं न किञ्चन ।
अहमर्थपरित्यक्तो विदेहान्मुक्त एव सः ॥ १२.१२॥
परमात्मा गुणातीतः सर्वात्मापि न सम्मतः ।
सर्वभावान्महात्मा यो विदेहान्मुक्त एव सः ॥ १२.१३॥
कालभेदं देशभेदं वस्तुभेदं स्वभेदकम् ।
किञ्चिद्भेदं न यस्यास्ति विदेहान्मुक्त एव सः ॥ १२.१४॥
अहं त्वं तदिदं सोऽयं किञ्चिद्वापि न विद्यते ।
अत्यन्तसुखमात्रोऽहं विदेहान्मुक्त एव सः ॥ १२.१५॥
निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः ।
शून्यात्मा सूक्ष्मरूपो यो विदेहान्मुक्त एव सः ॥ १२.१६॥
विश्वात्मा विश्वहीनात्मा कालात्मा कालहेतुकः ।
देवात्मा देवहीनो यो विदेहान्मुक्त एव सः ॥ १२.१७॥
मात्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः ।
केवलात्मा परात्मा च विदेहान्मुक्त एव सः ॥ १२.१८॥
सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।
सर्वेषामिति यस्तूक्तो विदेहान्मुक्त एव सः ॥ १२.१९॥
सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः ।
स्थास्यामीति न यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२०॥
सर्वं नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा ।
प्रबुद्धो नास्ति यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२१॥
केवलं परमात्मा यः केवलं ज्ञानविग्रहः ।
सत्तामात्रस्वरूपो यो विदेहान्मुक्त एव सः ॥ १२.२२॥
जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति ।
ब्रह्मैवेति न यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२३॥
ब्रह्मैव सर्वमेवाहं नान्यत्किञ्चिज्जगद्भवेत् ।
इत्येवं निश्चयो भावः विदेहान्मुक्त एव सः ॥ १२.२४॥
इदं चैतन्यमेवेति अहं चैतन्यमेव हि ।
इति निश्चयशून्यो यो विदेहान्मुक्त एव सः ॥ १२.२५॥
चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः ।
सुखमात्रान्तरङ्गो यो विदेहान्मुक्त एव सः ॥ १२.२६॥
अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः ।
तुर्यातीतः परानन्दो विदेहान्मुक्त एव सः ॥ १२.२७॥
नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः ।
परब्रह्मस्वरूपात्मा विदेहान्मुक्त एव सः ॥ १२.२८॥
तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः ।
अशुभाशुभशान्तात्मा विदेहान्मुक्त एव सः ॥ १२.२९॥
बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः ।
प्रपञ्चात्मा परो ह्यात्मा विदेहान्मुक्त एव सः ॥ १२.३०॥
सर्वत्र परिपूर्णात्मा सर्वदा च परात्परः ।
अन्तरात्मा ह्यनन्तात्मा विदेहान्मुक्त एव सः ॥ १२.३१॥
अबोधबोधहीनात्मा अजडो जडवर्जितः ।
अतत्त्वातत्त्वसर्वात्मा विदेहान्मुक्त एव सः ॥ १२.३२॥
असमाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः ।
अभूतो भूत एवात्मा विदेहान्मुक्त एव सः ॥ १२.३३॥
चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदम्बरः ।
चिन्मात्ररूप एवात्मा विदेहान्मुक्त एव सः ॥ १२.३४॥
सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः ।
सच्चिदानन्दपूर्णात्मा विदेहान्मुक्त एव सः ॥ १२.३५॥
सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः ।
सदाऽखण्डैकरूपात्मा विदेहान्मुक्त एव सः ॥ १२.३६॥
प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः ।
नित्यज्ञानपरानन्दो विदेहान्मुक्त एव सः ॥ १२.३७॥
यस्य देहः क्वचिन्नास्ति यस्य किञ्चित्स्मृतिश्च न ।
सदात्मा ह्यात्मनि स्वस्थो विदेहान्मुक्त एव सः ॥ १२.३८॥
यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः ।
योगात्मा योगयुक्तात्मा विदेहान्मुक्त एव सः ॥ १२.३९॥
चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि ।
गुणागुणविकारान्तो विदेहान्मुक्त एव सः ॥ १२.४०॥
कालदेशादि नास्त्यन्तो न ग्राह्यो नास्मृतिः परः ।
निश्चयं च परित्यक्तो विदेहान्मुक्त एव सः ॥ १२.४१॥
भूमानन्दापरानन्दो भोगानन्दविवर्जितः ।
साक्षी च साक्षिहीनश्च विदेहान्मुक्त एव सः ॥ १२.४२॥
सोऽपि कोऽपि न सो कोऽपि किञ्चित्किञ्चिन्न किञ्चन ।
आत्मानात्मा चिदात्मा च चिदचिच्चाहमेव च ॥ १२.४३॥
यस्य प्रपञ्चश्चानात्मा ब्रह्माकारमपीह न ।
स्वस्वरूपः स्वयञ्ज्योतिर्विदेहान्मुक्त एव सः ॥ १२.४४॥
वाचामगोचरानन्दः सर्वेन्द्रियविवर्जितः ।
अतीतातीतभावो यो विदेहान्मुक्त एव सः ॥ १२.४५॥
चित्तवृत्तेरतीतो यश्चित्तवृत्तिर्न भासकः ।
सर्ववृत्तिविहीनो यो विदेहान्मुक्त एव सः ॥ १२.४६॥
तस्मिन्काले विदेहो यो देहस्मरणवर्जितः ।
न स्थूलो न कृशो वापि विदेहान्मुक्त एव सः ॥ १२.४७॥
ईषण्मात्रस्थितो यो वै सदा सर्वविवर्जितः ।
ब्रह्ममात्रेण यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ १२.४८॥
परं ब्रह्म परानन्दः परमात्मा परात्परः ।
परैरदृष्टबाह्यान्तो विदेहान्मुक्त एव सः ॥ १२.४९॥
शुद्धवेदान्तसारोऽयं शुद्धसत्त्वात्मनि स्थितः ।
तद्भेदमपि यस्त्यक्तो विदेहान्मुक्त एव सः ॥ १२.५०॥
ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनम् ।
ब्रह्मामृतरसे मग्नो विदेहान्मुक्त एव सः ॥ १२.५१॥
ब्रह्मामृतरसाधारो ब्रह्मामृतरसः स्वयम् ।
ब्रह्मामृतरसे तृप्तो विदेहान्मुक्त एव सः ॥ १२.५२॥
ब्रह्मानन्दपरानन्दो ब्रह्मानन्दरसप्रभः ।
ब्रह्मानन्दपरञ्ज्योतिर्विदेहान्मुक्त एव सः ॥ १२.५३॥
ब्रह्मानन्दरसानन्दो ब्रह्मामृतनिरन्तरम् ।
ब्रह्मानन्दः सदानन्दो विदेहान्मुक्त एव सः ॥ १२.५४॥
ब्रह्मानन्दानुभावो यो ब्रह्मामृतशिवार्चनम् ।
ब्रह्मानन्दरसप्रीतो विदेहान्मुक्त एव सः ॥ १२.५५॥
ब्रह्मानन्दरसोद्वाहो ब्रह्मामृतकुटुम्बकः ।
ब्रह्मानन्दजनैर्युक्तो विदेहान्मुक्त एव सः ॥ १२.५६॥
ब्रह्मामृतवरे वासो ब्रह्मानन्दालये स्थितः ।
ब्रह्मामृतजपो यस्य विदेहान्मुक्त एव सः ॥ १२.५७॥
ब्रह्मानन्दशरीरान्तो ब्रह्मानन्देन्द्रियः क्वचित् ।
ब्रह्मामृतमयी विद्या विदेहान्मुक्त एव सः ॥ १२.५८॥
ब्रह्मानदमदोन्मत्तो ब्रह्मामृतरसम्भरः ।
ब्रह्मात्मनि सदा स्वस्थो विदेहान्मुक्त एव सः ॥ १२.५९॥
- -
देहमुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।
मयोक्तं ते महायोगिन्विदेहः श्रवणाद्भवेत् ॥ १२.६०॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं देहमुक्तिप्रकरणवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १२ । १-६०॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 12 . 1-60..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan