ऋभुप्रोक्तं नित्यहोमं वर्णनम्
(एवं होमं सुदुर्लभम्)
(ऋभुनिदाघसंवादे)
नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् ।
सर्वशास्त्रार्थमद्वैतं सावधानमनाः शृणु ॥ १०.२८॥
- -
अहं ब्रह्मास्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ।
ॐकारार्थस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.२९॥
परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।
चिदानन्दस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३०॥
नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् ।
चिदाकारस्वरूपोऽहं एवं होमं सुदुर्लभम् ॥ १०.३१॥
न हि किञ्चित्स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ।
निर्व्यापारस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३२॥
निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ।
न बुद्धिर्न विकल्पोऽहं एवं होमं सुदुर्लभम् ॥ १०.३३॥
न देहादिस्वारूपोऽस्मि त्रयादिपरिवर्जितः ।
न जाग्रत्स्वप्नरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३४॥
श्रवणं मननं नास्ति निदिध्यासनमेव हि ।
स्वगतं च न मे किञ्चिदेवं होमं सुदुर्लभम् ॥ १०.३५॥
असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् ।
अहङ्कारमसद्विद्धि कालत्रयमसत् सदा ॥ १०.३६॥
गुणत्रयमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३७॥
श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत्सदा ।
सर्वतत्त्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३८॥
नानारूपमसद्विद्धि नानावर्णमसत्सदा ।
नानाजातिमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३९॥
शास्त्रज्ञानमसद्विद्धि वेदज्ञानं तपोऽप्यसत् ।
सर्वतीर्थमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४०॥
गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः ।
यद्दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४१॥
सर्वान्भोगानसद्विद्धि यच्चिन्त्यं तदसत्सदा ।
यद्दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४२॥
सर्वेन्द्रियमसद्विद्धि सर्वमन्त्रमसत्त्विति ।
सर्वप्राणानसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४३॥
जीवं देहमसद्विद्धि परे ब्रह्मणि नैव हि ।
मयि सर्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४४॥
दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयि ।
कार्याकार्यमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४५॥
दृष्टप्राप्तिमसद्विद्धि सन्तोषमसदेव हि ।
सर्वकर्माण्यसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४६॥
सर्वासर्वमसद्विद्धि पूर्णापूर्णमसत्परे ।
सुखं दुःखमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४७॥
यथाधर्ममसद्विद्धि पुण्यापुण्यमसत्सदा ।
लाभालाभमसद्विद्धि सदा (दानं) देहमसत्सदा ॥ १०.४८॥
सदा जयमसद्विद्धि सदा गर्वमसत्सदा ।
मनोमयमसद्विद्धि संशयं निश्चयं तथा ॥ १०.४९॥
शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा ।
रूपं सर्वमसद्विद्धि रसं सर्वमसत्सदा ॥ १०.५०॥
गन्धं सर्वमसद्विद्धि ज्ञानं सर्वमसत्सदा ।
भूतं भव्यमसद्विद्धि असत्प्रकृतिरुच्यते ॥ १०.५१॥
असदेव सदा सर्वमसदेव भवोद्भवम् ।
असदेव गुणं सर्वं एवं होमं सुदुर्लभम् ॥ १०.५२॥
शशशृङ्गवदेव त्वं शशशृङ्गवदस्म्यहम् ।
शशशृङ्गवदेवेदं शशशृङ्गवदन्तरम् ॥ १०.५३॥
- -
इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०.५४॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं नित्यहोमंवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १० । २९-५४॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 10 . 29-54..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan