ऋभुप्रोक्तं प्रपञ्चस्य ब्रह्मत्वनिरूपणम्

ऋभुप्रोक्तं प्रपञ्चस्य ब्रह्मत्वनिरूपणम्

(सर्वं ब्रह्मेति केवलम्) (ऋभुनिदाघसंवादे) भूयः श‍ृणु निदाघ त्वं सर्वं ब्रह्मेति निश्चयम् । सुदुर्लभमिदं नॄणां देवानामपि सत्तम ॥ ८.२८॥ इदमित्यपि यद्रूपमहमित्यपि यत्पुनः । दृश्यते यत्तदेवेदं सर्वं ब्रह्मेति केवलम् ॥ ८.२९॥ देहोऽयमिति सङ्कल्पस्तदेव भयमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३०॥ देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३१॥ देहोऽहमिति सङ्कल्पः स हि संसार उच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३२॥ देहोऽहमिति सङ्कल्पस्तद्बन्धनमिहोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३३॥ देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३४॥ देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३५॥ देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३६॥ देहत्रयेऽपि भावं यत्तद्देहज्ञानमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३७॥ देहोऽहमिति यद्भावं सदसद्भावमेव च । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३८॥ देहोऽहमिति सङ्कल्पं (सङ्कल्पः) त्प्रपञ्चमिहोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३९॥ देहोऽहमिति सङ्कल्पस्तदेवाज्ञानमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४०॥ देहोऽहमिति या बुद्धिर्मलिना वासनोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४१॥ देहोऽहमिति या बुद्धिः सत्यं जीवः स एव सः । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४२॥ देहोऽहमिति सङ्कल्पो महानरकमीरितम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४३॥ देहोऽहमिति या बुद्धिर्मन एवेति निश्चितम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४४॥ देहोऽहमिति या बुद्धिः परिच्छिन्नमितीर्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४५॥ देहोऽहमिति यज्ज्ञानं सर्वं शोक इतीरितम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४६॥ देहोऽहमिति यज्ज्ञानं संस्पर्शमिति कथ्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४७॥ देहोऽहमिति या बुद्धिस्तदेव मरणं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४८॥ देहोऽहमिति या बुद्धिस्तदेवाशोभनं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४९॥ देहोऽहमिति या बुद्धिर्महापापमिति स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५०॥ देहोऽहमिति या बुद्धिः तुष्टा सैव हि चोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५१॥ देहोऽहमिति सङ्कल्पः सर्वदोषमिति स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५२॥ देहोऽहमिति सङ्कल्पस्तदेव मलमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५३॥ देहोऽहमिति सङ्कल्पो महत्संशयमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५४॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं प्रपञ्चस्य ब्रह्मत्वनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ८ । २८-५४॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 8 . 28-54.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Prapanchasya Brahmatvanirupanam
% File name             : RRibhuproktaMprapanchasyabrahmatvanirUpaNam.itx
% itxtitle              : prapanchasya brahmatvanirUpaNam (RibhuproktaM shivarahasyAntargatam sarvaM brahmeti kevalam)
% engtitle              : RRibhuproktaM prapanchasya brahmatvanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 8 | 28-54||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org