ऋभुप्रोक्तं सर्वमात्मैवनिरूपणम्
(सर्वमात्मैव केवलम्)
आत्मैवेदमिदं सर्वमात्मैवाहं न संशयः ।
आत्मैवास्मि परं सत्यमात्मैव परमं पदम् ॥ १८.२८॥
आत्मैव जगदाकारं आत्मैव भुवनत्रयम् ।
आत्मैव जगतां श्रेष्ठः आत्मैव हि मनोमयः ॥ १८.२९॥
आत्मैव जगतां त्राता आत्मैव गुरुरात्मनः ।
आत्मैव बहुधा भाति आत्मैवैकं परात्मनः ॥ १८.३०॥
आत्मैव परमं ब्रह्म आत्मैवाहं न संशयः ।
आत्मैव परमं लोकं आत्मैव परमात्मनः ॥ १८.३१॥
आत्मैव जीवरूपात्मा आत्मैवेश्वरविग्रहः ।
आत्मैव हरिरानन्दः आत्मैव स्वयमात्मनः ॥ १८.३२॥
आत्मैवानन्दसन्दोह आत्मैवेदं सदा सुखम् ।
आत्मैव नित्यशुद्धात्मा आत्मैव जगतः परः ॥ १८.३३॥
आत्मैव पञ्चभूतात्मा आत्मैव ज्योतिरात्मनः ।
आत्मैव सर्वदा नान्यदात्मैव परमोऽव्ययः ॥ १८.३४॥
आत्मैव ह्यात्मभासात्मा आत्मैव विभुरव्ययः ।
आत्मैव ब्रह्मविज्ञानं आत्मैवाहं त्वमेव हि ॥ १८.३५॥
आत्मैव परमानन्द आत्मैवाहं जगन्मयः ।
आत्मैवाहं जगद्भानं आत्मैवाहं न किञ्चन ॥ १८.३६॥
आत्मैव ह्यात्मनः स्नानमात्मैव ह्यात्मनो जपः ।
आत्मैव ह्यात्मनो मोदमात्मैवात्मप्रियः सदा ॥ १८.३७॥
आत्मैव ह्यात्मनो नित्यो ह्यात्मैव गुणभासकः ।
आत्मैव तुर्यरूपात्मा आत्मातीतस्ततः परः ॥ १८.३८॥
आत्मैव नित्यपूर्णात्मा आत्मैवाहं न संशयः ।
आत्मैव त्वमहं चात्मा सर्वमात्मैव केवलम् ॥ १८.३९॥
नित्योऽहं नित्यपूर्णोऽहं नित्योऽहं सर्वदा सदा ।
आत्मैवाहं जगन्नान्यदमृतात्मा पुरातनः ॥ १८.४०॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वमात्मैवनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १८। २८-४०॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 18. 28-40..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan