ऋभुप्रोक्तं शाङ्करसूत्रविज्ञानं एवं अध्यात्मनिर्णयम्
(केवलं ब्रह्ममात्रत्वात्)
ऋभुः -
नागोप्यं भवतामस्ति शाम्भवेषु महात्मसु । (अस्मि)
त्रिनेत्रप्रेमसदनान्युष्मान्प्रेक्ष्य वदामि तत् ॥ ४.५॥
शाङ्करं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् ।
शृणुध्वं ब्रह्मविच्छ्रेष्ठाः शिवज्ञानमहोदयम् ॥ ४.६॥
येन तीर्णाः स्थ संसाराच्छिवभक्त्या जितेन्द्रियाः । (तीर्णास्थ)
नमस्कृत्वा महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥ ४.७॥
- -
ऋभुः -
विश्वस्य कारणमुमापतिरेव देवो विद्योतको जडजगत्प्रमदैकहेतुः ।
न तस्य कार्यं करणं महेशितुः स एव तत्कारणमीश्वरो हरः ॥ ४.८॥
सूतः सायकसम्भवः समुदिताः सूताननेभ्यो हयाः
नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी ।
मौवीमूर्ध्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः
योद्धुङ्केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥ ४.९॥ (नः)
निदाघमथ सम्बोध्य ततो ऋभुरुवाच ह ।
अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥ ४.१०॥
शिवोपदिष्टं सङ्क्षिप्य गुह्याद्गुह्यतरं सदा ।
अनात्मेति प्रसङ्गात्मा (प्रसङ्गाच्च) अनात्मेति मनोऽपि वा ।
अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ॥ ४.११॥
सर्वसङ्कल्पशून्यत्वात्सर्वाकारविवर्जनात् ।
केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१२॥
चित्ताभावे चिन्तनीयो देहाभावे जरा च न ।
केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१३॥
पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया च न ।
केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१४॥
ब्रह्माभावाज्जगन्नास्ति तदभावे हरिर्न च ।
केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१५॥
मृत्युर्नास्ति जराभावे लोकवेददुराधिकम् ।
केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१६॥
धर्मो नास्ति शुचिर्नास्ति सत्यन्नास्ति भयन्न च ।
केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१७॥
अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम (अक्षरं न च मण्डलम्) ।
केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१८॥
गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्त्वतः ।
केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.१९॥
एकाभावान्न द्वितीयन्न द्वितीयान्न चैकता ।
सत्यत्वमस्ति चेत्किञ्चिदसत्यत्वं च सम्भवेत् ॥ ४.२०॥
असत्यत्वं यदि भवेत्सत्यत्वं च घटिष्यति ।
शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥ ४.२१॥
भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ।
केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.२२॥
बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता ।
मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ ४.२३॥
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ।
इदं यदि तदेवापि तदभावे इदं न च ॥ ४.२४॥
अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किञ्च न ।
कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् ॥ ४.२५॥
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न ।
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ ४.२६॥
अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च ।
पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ॥ ४.२७॥
किञ्चिदस्तीति चेच्चित्ते सर्वं भवति शीघ्रतः ।
यत्किञ्चित्किमपि क्वापि नास्ति चेन्न प्रसज्यति ॥ ४.२८॥
तस्मादेतत्क्वचिन्नास्ति त्वं नाहं वा इमे इदम् ।
केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.२९॥
नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्वचित् ।
केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४.३०॥
परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि ।
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रत्वमप्य हि ॥ ४.३१॥
चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु ।
इत्यात्मनिर्णयं प्रोक्तं (निर्णयः प्रोक्तः) भवते सर्वसङ्ग्रहम् ॥ ४.३२॥
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ ४.३३॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं शाङ्करसूत्रविज्ञानमेवमध्यात्मनिर्णयं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४ । ५-४३॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 4 . 5-43..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan