ऋग्वेदप्रोक्ता शिवस्तुतिः

ऋग्वेदप्रोक्ता शिवस्तुतिः

(शिवरहस्यान्तर्गते उग्राख्ये) ऋग्वेद उवाच सोमस्त्रिणेत्रो जनिता च दिवः पृथिव्याश्च तथानिलाग्नयोः ॥ ४७.२॥ सूर्येन्द्रयो रश्चिमरुद्गणानां सोमस्त्रिणेत्रो जनिता च विष्णोः । तस्मात्स विष्णोर्जनिता महेशः सर्वप्रयत्नैः सततं भवद्भिः ॥ ४८॥ सेव्यः स सोमः स च मुक्तिदाता स एव मोक्षाधिपतिश्च सत्यम् । तस्मान्महेशादपरं न जाने मुक्यर्थिसेव्यं सुरवृन्दवन्द्यम् ॥ ४९॥ तस्मान्महेशं शरणं व्रजध्वं सत्यं पुनः सत्यमिदं त्रिसत्यम् । स्वर्गापवर्गादिफलप्रदाता महेश्वरान्यत्र न सर्वथैव ॥ ५०॥ असारसंसारसमुद्रमग्ना न सर्वथा ते शिवभक्तिभाजः । तस्मान्महेशादपरं न जाने मुक्यर्थिसेव्यं सुरवृन्दवन्द्यम् ॥ ५१॥ न शङ्करान्यः करुणानिधानं न शङ्करान्योऽखिलवेदवेद्यः । तस्मान्महेशादपरं न जाने मुक्यर्थिसेव्यं सुरवृन्दवन्द्यम् ॥ ५२॥ ये पूजयन्त्यन्वहमम्बिकेशं ते गर्भभाजो न भवन्ति भूयः । तस्मान्महेशादपरं न जाने मुक्यर्थिसेव्यं सुरवृन्दवन्द्यम् ॥ ५३॥ येषामनन्यं चरमं शरीरं तेषां शिवे भक्तिरुदेति नित्यम् । तस्मान्महेशादपरं न जाने मुक्यर्थिसेव्यं सुरवृन्दवन्द्यम् ॥ ५४॥ यन्माययायं विधिरद्य मोहितो यन्मायया विष्णुरयं च मोहितः । तमेव भस्माङ्कितसर्ववगात्रा भजध्वमद्यप्रभृति त्रिणेत्रम् ॥ ५५॥ संसारपाशौघविनाशहेतुं गुणौघसेतुं मुनिमुक्तिहेतुम् । श्रीपार्वतीनाथमनन्यभाजो भजध्वमद्यप्रभृति त्रिणेत्रम् ॥ ५६॥ यत्पादपद्मार्चनमात्रलभ्यो मोक्षः समस्तैरपि दुर्लभोऽपि श्रीपार्वतीनाथमनन्यभाजो भजध्वमद्यप्रभृति त्रिणेत्रम् ॥ ५७॥ भजन्ति मोहेन शिवान्यमन्ये सदा महापातकसङ्गदुष्टाः । भजन्ति धन्याः शिवमेकमीशं विश्वाधिकः शङ्कर एव सत्यम् ॥ ५८॥ सत्यं ब्रवीमि ध्रुवमद्य सत्यं सत्यं ब्रवीमि ध्रुवमद्य सत्यम् । रुद्राधिकत्वं प्रतिपादयामि देवो न रुद्रादधिकोऽस्ति कश्चित् ॥ ५९॥ रुद्रस्य पुत्रः स हरिः स रुद्रा- दाप्तः कथं स्यादधिकस्य पुत्रः । पुत्रः पितुः सेवक एव (नित्यं) सोमस्त्रिणेत्रोऽस्य यतः पितास्य ॥ ६०॥ ॥ इति शिवरहस्यान्तर्गते ऋग्वेदप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २२। ४७.२-६०॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 22 . 47.2-60.. Proofread by Ruma Dewan
% Text title            : Rigvedaprokta Shiva Stuti
% File name             : RRigvedaproktAshivastutiH.itx
% itxtitle              : shivastutiH RigvedaproktA (shivarahasyAntargatA)
% engtitle              : RRigvedaproktA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 22| 47.2-60||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org