अभ्रसभान्तरे शिवताण्डवविग्रहवर्णनम्
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
प्राणंसीदवतंसितेन्दुमनलालङ्कारभालाक्षधृ-
ग्धस्तोत्तेजितवाङ्कुमध्वनिभृतासड्रामरेणाम्बिकाम् ।
पश्यन्हेमसभाविभासिचरणाम्भोजं हि रक्षोगणा-
ध्यक्षाक्ष्य्यगतिप्रदानकुशलं विन्यस्य नृत्तं सदा ॥ ४१॥
कुर्वन्तं चललोललम्बितजटासाम्राज्य वित्रांसित-
नक्षत्रोडुप तत्सुवर्षणझणत्कारोरुसत्कङ्कणम् ।
सव्यासव्यकरद्वयारुणलताभ्राजत्सुभीतिं हर-
ल्लोकानामभयप्रदानकुशलं चान्येन चालम्बिना ॥ ४२॥
पादेनोरु निकुञ्चितेन मधुना संसिञ्चता सिञ्जिता
लोलालम्बितपादकङ्कणफणीफूत्कारलोलस्रजा ।
ब्राह्मोत्तुङ्गकरङ्कषण्डसुमहारत्नोरुमालांशुक-
भ्राजद्वक्त्रसमुल्लसद्युतिभृता पर्वेन्दुपूर्णश्रिया ॥ ४३॥
सोमानलार्कसुकटाक्षरसावलोकै-
रालोक्य लोकमखिलं शरदिन्दुकुन्दम् ।
कान्तायिताङ्ग सुभुजाङ्गमहोरुहारं
मातङ्ककृत्तिवसनं हृदयान्तरङ्गे ॥ ४४॥
तत्पार्श्वगामचलराजसुतां नतां त-
त्पादाम्बुजान्तरदृगञ्चलकां ददर्श ।
उत्फुल्लपद्मवदनोत्थितनीलनीर-
जातेक्षणाञ्चितकपोलतलायताक्षीम् ॥ ४५॥
कर्णान्तरोद्यतसुरत्नज कान्तिकान्त-
ताटङ्कयुग्मविनिवार्यरवीन्दुबिम्बाम् ।
बिम्बाधरां चिकुरवेणिगरत्नपद्मां
शुक्रोयमोरुनसलम्बितमौक्तिकां ताम्
(शुक्राधिकोरुनसलम्बितमौक्तिकां ताम्) ॥ ४६॥
ग्रैवेयकावलिभवोत्तमकम्बुकण्ठीं
श्रीनीलकण्ठहृदयाम्बुज केलिभृङ्गीम् ।
पाणिप्रभाविजिततामरसोरुनाल-
बाहुद्वयीविधृतकङ्कणनिःस्वनां ताम् ॥ ४७॥
हीरात्तभालफलकान्तलसत्सुरेखां
सिन्दूरबिन्दुवदनां रदशोभिकुन्दाम् ।
कौसुम्भचेलगकृताञ्चलकान्तशात-
कुम्भोत्तरीयविनिबद्धमदेभकुम्भाम् ॥ ४८॥
तद्भ्राजिसल्लिकुचवर्णकुचानताङ्ग-
बद्धप्रभात्रिवलितोदरमध्यभागाम् ।
रत्नोरुहेमखचितोत्तमचाकचक्य-
काञ्चीकचत्कटितटाञ्चितमौक्तिकां ताम् ॥ ४९॥
रम्भानिभोरुकमठीनिभपृष्ठलग्न
लाक्षारुणाङ्घ्रियुगलां मणिनूपुरां ताम् ।
मत्वा हृदम्बुरुहमोदविकासिताक
तुष्टाव सुन्दरगिरा स च सुन्दरोऽपि ॥ ५०॥
॥ इति शिवरहस्यान्तर्गते अभ्रसभान्तरे शिवताण्डवविग्रहवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः २१ (चित्)सभादर्शनम् । ४१-५०॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 21 (chit)sabhAdarshanam . 41-50..
Notes:
Sundara सुन्दर; one of the sixty-three Nāyanāra-s, after being born in Pṛthvīloka पृथ्वीलोक, worships and eulogizes Śiva शिव at Puṇḍarīkapuram पुण्डरीकपुरम् where Śiva शिव conducts His Divine Dance - the Taṇḍavam ताण्डवम् along with Śivā शिवा in the Abhrasabhā अभ्रसभा (Kanakasabhā कनकसभा) to the satisfaction of Sundara सुन्दर.
Proofread by Ruma Dewan