अगस्त्यादि मुनिभिः कृतं रामनाथस्तोत्रम्
अगस्त्य उवाच ।
आदिदेव महादेव विश्वेश्वर शिवाव्यय ।
रामनाथाम्बिकानाथ प्रसीद वृष भध्वज ॥ ६१॥
अपराधसहस्रं मे क्षमस्व विधुशेखर ।
ममाहमिति पुत्रादावहन्तां मम मोचय ॥ ६२॥
सुतीक्ष्ण उवाच ।
क्षेत्राणि रत्नानि धनानि दारा मित्राणि वस्त्राणि गवाश्वपुत्राः ।
नैवोपकाराय हि रामनाथ मह्यं प्रयच्छ त्वमतो विरक्तिम् ॥ ६३॥
विश्वामित्र उवाच ।
श्रुतानि शास्त्राण्यपि निष्फलानि त्रय्यप्यधीता विफलैव नूनम् ।
त्वयीश्वरे चेन्न भवेद्धि भक्तिः श्रीरामनाथे शिव मानुषस्य ॥ ६४॥
गालव उवाच ।
दानानि यज्ञा नियमास्तपांसि गङ्गादितीर्थेषु निमज्जनानि ।
रामेश्वरं त्वां न नमन्ति ये तु व्यर्थानि तेषामिति निश्चयोऽत्र ॥ ६५॥
वसिष्ठ उवाच ।
कृत्वापि पापान्यखिलानि लोकस्त्वामेत्य रामेश्वर भक्तियुक्तः ।
नमेत चेत्तानि लयं व्रजेयुर्यथान्धकारो रवितेजसाऽद्धा ॥ ६६॥
अत्रिरुवाच ।
दृष्ट्वा तु रामेश्वरमेकदापि स्पृष्ट्वा नमस्कृत्य भवन्तमीशम् ।
पुनर्न गर्भं स नरः प्रयायात्किं त्वद्वयं ते लभतं स्वरूपम् ॥ ६७॥
अङ्गिरा उवाच ।
यो रामनाथं मनुजो भवन्तमुपेत्य बन्धून्प्रणमन्स्मरेत ।
सन्तारयेत्तानपि सर्वपापात्किमद्भुतं तस्य कृतार्थतायाम् ॥ ६८॥
गौतम उवाच ।
श्रीरामनाथेश्वर गूढमेतद्रहस्यभूतं परमं विशोकम् ।
त्वत्पादमूलं भजतां नृणां ये सेवां प्रकुर्वन्ति हि तेऽपि धन्याः ॥ ६९॥
शतानन्द उवाच ।
वेदान्तविज्ञानरहस्यविद्भिर्विज्ञेयमेतद्धि मुमुक्षुभिस्तु ।
शास्त्राणि सर्वाणि विहाय देव त्वत्सेवनं यद्रघुवीरनाथ ॥ १.४९.७०॥
भृगुरुवाच ।
रामनाथ तव पादपङ्कजं द्वन्द्वचिन्तनविधूतकल्मषः ।
निर्भयं व्रजति सत्सुखाद्वयं सुप्रभं त्वथ अमोघचिद्घनम् ॥ ७१॥
कुत्स उवाच ।
रामनाथ तव पादसेवनं भोगमोक्षवरदं नृणां सदा ।
रौरवादिनरकप्रणाशनं कः पुमान्न भजते रसग्रहः ॥ ७२॥
काश्यप उवाच ।
रामनाथ तव पादसेविनां किं व्रतैरुत तपोभिरध्वरैः ।
वेदशास्त्रजपचिन्तया च किं स्वर्गसिन्धुपयसापि किं फलम् ॥ ७३॥
श्रीरामनाथ त्वमागत्य शीघ्रं ममोत्क्रान्तिकाले भवान्या च साकम् ।
मां प्रापय स्वात्मपादारविन्दं विशोकं विमोहं सुखं चित्स्वरूपम् ॥ ७४॥
इति श्रीस्कन्दपुराणे ब्रह्मखण्डे सेतुखण्डे एकोनपञ्चाश-
त्तमाध्यायान्तर्गतं अगस्त्यादिमुनिभिः कृतं रामनाथस्तोत्रं
समाप्तम् ।
स्कन्दपुराण । ब्रह्मखण्ड । सेतुल्खण्ड । अध्याय ४९/६१-७४॥
skandapurANa . brahmakhaNDa . setulkhaNDa . adhyAya 49/61-74..
Proofread by PSA Easwaran