अगस्त्यकृतं १ शिवस्तोत्रम्
अगस्त्य उवाच ।
नमः कल्याणवेषाय कलिकल्मषनाशिने ।
नमो विहारिणे विश्वविबुधानां हृदङ्गणे ।
नमः स्वान्तनिवासाय शान्तानां समचेतसाम् ॥ ७१॥
असाधारणकृत्याय नमस्ते कृत्तिवाससे ।
नीलग्रीवाय नित्याय निस्समाप्त्युदयात्मने ॥ ७२॥
परवामार्धवपुषे नमः क्षेमङ्कराय ते ।
अर्धं मरकताकारमर्धं स्फटिकसन्निभम् ॥ ७३॥
अद्वैतमपि यत्तेजो द्वैतीभूतं नमो नमः ।
कान्तं कल्याणनिलयं कलिताशेषकौतुकम् ॥ ७४॥
कन्दर्पकोटिलावण्यं युवानं साम्बमीश्वरम् ।
मङ्गलाय महस्तोमप्रस्तुताश्चर्यरूपिणे ॥ ७५॥
गौरीनाथाय नाथाय नमस्सोमार्धधारिणे ।
शिवाय परिपूर्णाय पूर्णानन्दाय वेधसे ॥ ७६॥
महावृषभवाहाय महादेवाय ते नमः ।
शूलिने नीलकण्ठाय फालचन्द्रावतंसिने ॥ ७७॥
भवाय भवनाशाय पशूनां पतये नमः ।
जय नाथ कृपादृष्ट्या वत्सं सेचय मां प्रभो ॥ ७८॥
मा मुञ्च पादयुगलादनाथं त्वत्परिग्रहम् ।
एकस्मादागसो द्वाभ्यां त्रिभ्यो वा रक्ष मां मुहुः ॥ ७९॥
बहुभ्यो हि महादेव मां पाहि करुणानिधे ।
त्वत्सन्निधिविधानेन हृष्टोऽस्मि नितरां विभो ॥ ८०॥
आह्लादय कृपादृष्ट्या वृष्ट्या भुवमिवाम्बुदः ।
घर्मतप्तोऽध्वगोध्वानमतीत्य बहुयोजनम् ॥ ८१॥
अङ्घ्रिपङ्केरुहच्छायमाप्तं पाहि जगद्गुरो ।
न वेद्मि त्वत्पदाम्भोजादपरं दैवतं परम् ॥ ८२॥
अत एव महादेव त्वामस्मि शरणं गतः ।
प्रसीद गौरीनाथ त्वं प्रसीद गिरिजापते ॥ ८३॥
प्रसीद सततं मह्यं नाथ कान्तिमतीपते ।
नमो वेणुवनेशाय महाकल्याणरूपिणे ॥ ८४॥
हाटकाम्भोजिनीतीरवासिने शूलिने नमः ।
ताम्रातरङ्गसङ्क्लिन्नपादाम्भोजाय ते नमः ॥ ८५॥
ब्रह्मवृद्धपुरीशाय पूर्वपूर्वाय ते नमः ।
इति ताम्रपर्णीमाहात्म्ये षोडशाध्यायान्तर्गतं
अगस्त्यकृतं शिवस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय १६/७१-८५॥
tAmraparNImAhAtmya . adhyAya 16/71-85..
Proofread by PSA Easwaran