अगस्त्यकृतं २ शिवस्तोत्रम्
अगस्त्य उवाच ।
ॐ नमस्सर्वभूतानां सृष्टिस्थित्यन्तकारिणे ।
सर्वकारणरूपाय तरुकोटरवासिने ॥ ८२॥
हरिनेत्रार्पितं देवं हालाहलविषादकम् ।
आश्रिताभ्युदयं नित्यं पुटार्जुनमुपास्महे ॥ ८३॥
सुगन्धं सुन्दरं शुभ्रं सोमाकलितमौलिकम् ।
परानन्दरसाभिख्यं पुटार्जुनमुपास्महे ॥ ८४॥
गङ्गाधरं शशिधरं गौर्या वामार्धविग्रहम् ।
वासुदेवप्रियं शान्तं पुटार्जुनमुपास्महे ॥ ८५॥
कालकालं (शूल)कलाधरं भवं भक्तभयापहम् ।
पार्वतीसहितं भव्यं पुटार्जुनमुपास्महे ॥ ८६॥
मोक्षस्थानं मुमुक्षूणां भोगस्थानं तु भोगिनम् ।
उमादेहार्धशम्भुं तं पुटार्जुनमुपास्महे ॥ ८७॥
रवीन्दुवह्निनयनं रामारमणवन्दितम् ।
कर्पूरगौरं पुरुषं पुटार्जुनमुपास्महे ॥ ८८॥
प्रमाणं प्रणवार्थानां कान्तं कान्तार्धविग्रहम् ।
रविकोटीप्रतीकाशं पुटार्जुनमुपास्महे ॥ ८९॥
शङ्खकुन्देन्दुसङ्काशं कर्पूरोदारविग्रहम् ।
कन्दलत्करुणामूर्तं पुटार्जुनमुपास्महे ॥ ९०॥
नमश्शिवायामलविग्रहाय नताभिलाषैकसुरद्रुमाय ।
नवेन्द्रवृषोदरवाहनाय नमो नमश्चन्द्रविभूषणाय ॥ ९१॥
इति स्तुत्वा महादेवं भक्तिप्रणतया गिरा ।
पपात पादयोः शम्भोर्दण्डवत् कुम्भसम्भवः ॥ ९२॥
तावल्लिङ्गात् समुत्तस्थौ अर्धनारीश्वरश्शिवः ।
इति ताम्रपर्णीमाहात्म्ये सप्तदशाध्यायान्तर्गतं
अगस्त्यकृतं शिवस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय १७/८२-९२॥
tAmraparNImAhAtmya . adhyAya 17/82-92..
Proofread by PSA Easwaran